संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ९८

विष्णुधर्माः - अध्याय ९८

विष्णुधर्माः


अथाष्टनवतितमोऽध्यायः ।
शतानीक उवाच ।
आख्यातमेतदखिलं यत्पृष्टोऽसि मया द्विज ।
जायते शमकामानां प्रशमः कर्मणां यथा १

किन्त्वत्र भवता प्रोक्ता प्रशान्तिः सर्वकर्मणाम् ।
नात्यन्तनाशः शान्तानामुद्भवो भविता पुनः ।
निजकारणमासाद्य स्तोकस्याग्नेर्यथा तृणम् २

तदाचक्ष्व महाभाग प्रसादसुमुखो मम ।
सङ्क्षयो येन भवति मूलोद्वर्तेन कर्मणाम् ३

शौनक उवाच ।
न कर्मणां क्षयो भूप जन्मनामयुतैरपि ।
कर्मक्षयमृते योगाद्योगाग्निः क्षपयेत्परम् ४

शतानीक उवाच ।
तं योगं मम विप्रर्षे प्रणतस्याभियाचतः ।
त्वमाचक्ष्व क्षयो येन जायतेऽखिलकर्मणाम् ५

शौनक उवाच ।
हिरण्यगर्भो भगवाननादिर्मुनिभिः पुरा ।
पृष्टः प्रोवाच यं योगं तं समासेन मे शृणु ६

अनादिकालप्रसृता यथा विद्या महीपते ।
तथा तत्क्षयहेतुत्वाद्योगो विद्यामयोऽव्ययः ७

तं परम्परया श्रुत्वा मुनयोऽत्र दयालवः ।
प्रकाशयन्ति भूतानामुपकारचिकीर्षवः ८

देवा महर्षयो राजंस्तथा राजर्षयोऽखिलाः ।
श्रेयोऽर्थिनः पुरा जग्मुः शरणं कपिलं किल ९

ते तमूचुर्भवान्नित्यं दयालुः सर्वजन्तुषु ।
सोऽस्मानुद्धर सम्मग्नानितः संसारकर्दमात् १०

यच्छ्रेयः सर्ववर्णानां स्त्रीणामप्युपकारकम् ।
यस्मात्परतरं नान्यच्छ्रेयस्तद्ब्रूहि नः प्रभो ११

आदावन्ते च मध्ये च नॄणां यदुपकारकम् ।
अपि कीटपतङ्गानां तन्नः श्रेयः परं वद १२

इत्युक्तः कपिलः सर्वैर्देवैर्देवर्षिभिस्तथा ।
नास्ति योगात्परं श्रेयः किञ्चिदित्युक्तवान्पुरा १३

यथा जन्मायुतैः क्लेशाः स्थैर्यं चेतस्युपागताः ।
तच्छान्तये तथा योगो बहुजन्मार्जितो भवेत् १४

स एवाभ्यसतां नॄणां तीव्रसंवेगिचेतसाम् ।
आसन्नतां प्रयात्याशु विष्णुः सन्न्यस्तकर्मणाम् १५

ब्राह्मणक्षत्रियविशां स्त्रीशूद्रस्य च पावनम् ।
शान्तये कर्मणां नान्यद्योगादस्ति हि मुक्तये १६

अभ्यस्तं जन्मभिर्नैकैः शुभजातिभवेषु यत् ।
योगस्वरूपं तत्तेषां स्त्रीशूद्रत्वे व्यवस्थितम् १७

योगाभ्यासो नृणां येषां नास्ति जन्मान्तराहृतः ।
योगस्य प्राप्तये तेषां शूद्रवैश्यादिकः क्रमः १८

स्त्रीत्वाच्छूद्रत्वमभ्येति ततो वैश्यत्वमाप्नुयात् ।
ततश्च क्षत्रियो विप्रः क्रियाहीनस्ततो भवेत् १९

अनूचानस्तथा यज्वी कर्मन्यासी ततः परम् ।
ततो ज्ञानित्वमभ्येत्य योगी मुक्तिं क्रमाल्लभेत् २०

येषां तु जातिमात्रेण योगाभ्यासस्तिरोहितः ।
आस्ते तत्रैव मुच्यन्ते जातिहेतौ क्षयङ्गते २१

असत्कर्म कृतं पूर्वमसज्जातिप्रदायि यत् ।
तस्मिन्योगाग्निना दग्धे तस्य जातेर्बलं कुतः २२

यथा वातेरितः कक्षं दहत्यूर्ध्वशिखोऽनलः ।
सर्वकर्माणि योगाग्निर्भस्मसात्कुरुते तथा २३

यथा दग्धतुषं बीजमबीजत्वान्न जायते ।
योगदग्धैस्तथा क्लेशैर्नात्मा सञ्जायते पुनः २४

अदृष्टा दृष्टतत्त्वानां योगिनां योगविच्युतिः ।
येषां भवति योगित्वं प्राप्नुवन्तीह ते पुनः २५

सज्जातिप्रापकं कर्म कृतं तेन तदात्मना ।
जातिं प्रयान्ति विप्राद्या योगकर्मानुरञ्जिताः २६

तत्राप्यनेकजन्मोत्थयोगाभ्यासानुरञ्जिताः ।
तेनैवाभ्यासयोगेन ह्रियन्ते तत्त्वविद्यया २७

जैगीषव्यो यथा विप्रो यथा चैवासितादयः ।
हिरण्यनाभो राजन्यस्तथा वै जनकादयः २८

पूर्वाभ्यस्तेन योगेन तुलाधारादयो विशः ।
सम्प्राप्ताः परमां सिद्धिं शूद्राः! पैलवकादयः २९

मैत्रेयी सुलभा गार्गी शाण्डिली च तपस्विनी ।
स्त्रीत्वे प्राप्ताः परां सिद्धिमन्यजन्मसमाधितः ३०

धर्मव्याधादयोऽप्यन्ये पूर्वाभ्यासाज्जुगुप्सिते ।
वर्णावरत्वे सम्प्राप्ताः संसिद्धिं श्रवणी तथा ३१

पूर्वाभ्यस्तं च तत्तेषां योगज्ञानं महात्मनाम् ।
सुप्तोत्थितप्रत्ययवदुपदेशादिना विना ३२

तस्माद्योगः परं श्रेयो विमुक्तिफलदो हि यः ।
विमुक्तौ सुखमत्यन्तं सम्मोहस्त्वितरत्सुखम् ३३

शौनक उवाच ।
एतत्ते सर्वमाख्यातं मया मनुजकुञ्जर ।
श्रेयः परतरं योगात्किञ्चिदन्यन्न विद्यते ३४

इति विष्णुधर्मेषु योगप्रशंसा ।

N/A

References : N/A
Last Updated : February 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP