संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ७१

विष्णुधर्माः - अध्याय ७१

विष्णुधर्माः


अथैकसप्ततितमोऽध्यायः ।
शतानीक उवाच ।
ब्रह्मन्नसारे संसारे रोगादिव्याप्तमानसः ।
शब्दादिलुब्धः पुरुषः किं कुर्वन्नावसीदति १

शौनक उवाच ।
स्वे महिम्नि स्थितं देवमप्रमेयमजं विभुम् ।
शोकमोहविनिर्मुक्तं विष्णुं ध्यायन्न सीदति २

अप्राणचितिकं ब्रह्म वेदान्तेषु प्रकाशितम् ।
आद्यं पुरुषमीशानं विष्णुं ध्यायन्न सीदति ३

अशनाद्यैरसंस्पृष्टं सेवितं योगिभिः सदा ।
सर्वदोषविनिर्मुक्तं विष्णुं ध्यायन्न सीदति ४

धामत्रयविनिर्मुक्तं सुप्रभातं सुनिर्मलम् ।
निष्कलं शाश्वतं देवं विष्णुं ध्यायन्न सीदति ५

क्षराक्षरविनिर्मुक्तं जन्ममृत्युविवर्जितम् ।
अभयं सत्यसङ्कल्पं विष्णुं ध्यायन्न सीदति ६

अमृतं साधनं साध्यं यं पश्यन्ति मनीषिणः ।
ज्ञेयाख्यं परमात्मानं विष्णुं ध्यायन्न सीदति ७

अतुलं सुखधर्माणं व्योमदेहं सनातनम् ।
धर्माधर्मविनिर्मुक्तं विष्णुं ध्यायन्न सीदति ८

व्यासाद्यैर्मुनिभिः सर्वैर्ध्यानयोगपरायणैः ।
अर्चितं भावकुसुमैर्विष्णुं ध्यायन्न सीदति ९

विष्ण्वष्टकमिदं पुण्यं योगिनां प्रीतिवर्धनम् ।
यः पठेत्परया प्रीत्या स गच्छेद्विष्णुसात्म्यताम् १०

एतत्पुण्यं पापहरं धन्यं दुःस्वप्ननाशनम् ।
पठतां शृण्वतां चैव विष्णोर्माहात्म्यमुत्तमम् ११

इति विष्णुधर्मेषु विष्ण्वष्टकम् ।

N/A

References : N/A
Last Updated : February 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP