संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ६

विष्णुधर्माः - अध्याय ६

विष्णुधर्माः


अथ षष्ठोऽध्यायः ।
दाल्भ्य उवाच ।
उपवासव्रतानीह केशवाराधनं प्रति ।
ममाचक्ष्व महाभाग परं कौतूहलं हि मे १

पुलस्त्य उवाच ।
कामान्यान्यान्नरो भक्तो मनसेच्छति केशवात् ।
व्रतोपवासनात्प्रीतस्तांस्तान्विष्णुः प्रयच्छति २

रत्नपर्वतमारुह्य यथा रत्नं महामुने ।
सत्त्वानुरूपमदत्ते तथा कृत्स्नान्मनोरथान् ३

मार्गशीर्षं तु यो मासमेकभक्तेन यः क्षपेत् ।
कुर्वन्वै विष्णुशुश्रूषां स देशे जायते शुभे ४

पौषमासं तथा दाल्भ्य एकभक्तेन यः क्षपेत् ।
शुश्रूषणपरः शौरेर्न रोगी स च जायते ५

माघमासं द्विजश्रेष्ठ एकभक्तेन यः क्षपेत् ।
विष्णुशुश्रूषणपरः स कुले जायते सताम् ६

क्षपयेदेकभक्तेन शुश्रूषुर्यश्च फाल्गुनम् ।
सौभाग्यं स्वजनानां स सर्वेषामेति सोन्नतिम् ७

चैत्रं विष्णुपरो मासमेकभक्तेन यः क्षपेत् ।
सुवर्णमणिमुक्ताढ्यं स गार्हस्थ्यमवाप्नुयात् ८

यः क्षपेदेकभक्तेन वैशाखं पूजयन्हरिम् ।
नरो वा यदि वा नारी ज्ञातीनां श्रेष्ठतां व्रजेत् ९

कृष्णार्पितमना ज्येष्ठमेकभक्तेन यः क्षपेत् ।
ऐश्वर्यमतुलं श्रेष्ठं पुमान्स्त्री वाभिजायते १०

आषाढमेकभक्तेन यो नयेद्विष्णुतन्मनाः ।
बहुधान्यो बहुधनो बहुपुत्रश्च जायते ११

क्षपयेदेकभक्तेन श्रावणं विष्णुतत्परः ।
धनधान्यहिरण्याढ्ये कुले स ज्ञातिवर्धनः १२

एकाहारो भाद्रपदं यश्च कृष्णपरायणः ।
धनाढ्यं स्फीतमचलमैश्वर्यं प्रतिपद्यते १३

नयंश्चाश्वयुजं विष्णुं पूजयेदेकभोजनः ।
धनवान्वाहनाढ्यश्च बहुपुत्रश्च जायते १४

कार्त्तिके चैकदा भुङ्क्ते यश्च विष्णुपरो नरः ।
शूरश्च कृतविद्यश्च बहुपुत्रश्च जायते १५

यस्तु संवत्सरं पूर्णमेकभक्तो भवेन्नरः ।
अहिंसः सर्वभूतेषु वासुदेवपरायणः १६

नमोऽस्तु वासुदेवायेत्यहश्चाष्टशतं जपेत् ।
अतिरात्रस्य यज्ञस्य ततः फलमवाप्नुयात् १७

दश वर्षसहस्राणि स्वर्गलोके महीयते ।
तत्क्षयादिह चागत्य माहात्म्यं प्रतिपद्यते १८

ब्राह्मणः क्षत्रियो वैश्यः स्त्री शूद्रोवा यथोदितान् ।
उपवासानिमान्कुर्वन्फलान्येतान्यवाप्नुयात् १९

जगत्पतिं जगद्योनिं जगन्निष्ठं जगद्गुरुम् ।
जयं शरणमभ्येत्य न जनैः शोच्यते जनः २०

यस्य नाम्नि स्मृते मर्त्यः समुत्क्रान्तेरनन्तरम् ।
प्राप्नोति शाश्वतं स्थानं ततः पूज्यतरो हि सः २१

नादिर्न मध्यं नैवान्तो यस्य देवस्य विद्यते ।
अनादित्वादमध्यत्वादनन्तत्वाच्च सोऽव्ययः २२

परापरं सुकृतवतां परां गतिं स्वयम्भुवं प्रभवन्निधानमव्ययं ।
सनातनं यदमृतमच्युतं ध्रुवं प्रविश्य तं हरिममरत्वमश्नुते २३

इति विष्णुधर्मेष्वेकभक्तविधिः ।

N/A

References : N/A
Last Updated : February 06, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP