संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ७६

विष्णुधर्माः - अध्याय ७६

विष्णुधर्माः


अथ षट्सप्ततितमोऽध्यायः ।
शौनक उवाच ।
निस्तेजसोऽसुरान्दृष्ट्वा समस्तानसुरेश्वरः ।
प्रह्लादमथ पप्रच्छ बलिरात्मपितामहम् १

बलिरुवाच ।
तात निस्तेजसो दैत्या निर्दग्धा इव वह्निना ।
किमेते सहसैवाद्य ब्रह्मदण्डहता इव २

दुरिष्टं किं नु दैत्यानां किं कृत्या वैरिनिर्मिता ।
नाशायैषां समुद्भूता येन निस्तेजसोऽसुराः ३

शौनक उवाच ।
इत्यासुरवरस्तेन पृष्टः पौत्रेण पार्थिव ।
चिरं ध्यात्वा जगादेदमसुरेन्द्रंतदा बलिम् ४

प्रह्लाद उवाच ।
चलन्ति गिरयो भूमिर्जहाति सहजां धृतिम् ।
सद्यः समुद्राः! क्षुभिता दैत्या निस्तेजसः कृताः ५

सूर्यादयो यथा पूर्वं तथा गच्छन्ति न ग्रहाः ।
देवानां च परा लक्ष्मीः कारणैरनुमीयते ६

महदेतन्महाबाहो कारणं दानवेश्वर ।
न ह्यल्पमिति मन्तव्यं त्वया कार्यं सुरार्दन ७

शौनक उवाच ।
इत्युक्त्वा दानवपतिं प्रह्लादः सोऽसुरोत्तमः ।
अत्यन्तभक्तो देवेशं जगाम मनसा हरिम् ८

स ध्यानपथगं कृत्वा प्रह्लादः स्वं मनोऽसुरः ।
विचारयामास ततो यतो देवो जनार्दनः ९

स ददर्शोदरेऽदित्याः प्रह्रादो वामनाकृतिम् ।
अन्तःस्थान्बिभ्रतं सप्त लोकानादिप्रजापतिम् १०

तदन्तश्च वसून्रुद्रानश्विनौ मरुतस्तथा ।
साध्यान्विश्वे तथादित्यान्गन्धर्वोरगराक्षसान् ११

विरोचनं सतनयं बलिं चासुरनायकम् ।
जम्भं कुजम्भं नरकं बाणमन्यांस्तथासुरान् १२

आत्मानमुर्वीगगनं वायुमम्भो हुताशनम् ।
समुद्राद्रिद्रुमसरित्सरांसि पशवो मृगान् १३

वयोमनुष्यानखिलांस्तथैव च सरीसृपान् ।
समस्तलोकस्रष्टारं ब्रह्माणं भवमेव च १४

ग्रहनक्षत्रताराश्च दक्षाद्यांश्च प्रजापतीन् ।
सम्पश्यन्विस्मयाविष्टः प्रकृतिस्थः क्षणात्पुनः १५

प्रह्लादः प्राह दैत्येन्द्रंबलिं वैरोचनिं तदा ।
वत्स ज्ञातं मया सर्वं यदर्थं भवतामियम् ।
तेजसो हानिरुत्पन्ना तच्छृणु त्वमशेषतः १७

देवदेवो जगद्योनिरयोनिर्जगदादिकृत् ।
अनादिरादिर्विश्वस्य वरेण्यो वरदो हरिः १८

परापराणां परमः परः परवतामपि ।
प्रभुः प्रमाणं मानानां सप्तलोकगुरोर्गुरुः १९

स्थितिं कर्तुं जगन्नाथः सोऽदित्या गर्भतां गतः ।
प्रभुः प्रभूणां परमः पराणामनादिमध्यो भगवाननन्तः ।
त्रैलोक्यमंशेन सनाथमेष कर्तुं महात्मादितिजोऽवतीर्णः २०

न यस्य रुद्रोन च पद्मयोनिर्नेन्द्रोन सूर्येन्दुमरीचिमिश्राः ।
जानन्ति दैत्याधिप यत्स्वरूपं स वासुदेवः कलयावतीर्णः २१

योऽसौ कलांशेन नृसिंहरूपी जघान पूर्वं पितरमशेषः ।
यः सर्वयोगीशमनोनिवासः स वासुदेवः कलयावतीर्णः २२

यमक्षरं वेदविदो विदित्वा विशन्ति तं ज्ञानविधूतपापाः ।
यस्मिन्प्रविष्टा न पुनर्भवन्ति तं वासुदेवं प्रणमामि देवम् २३

भूतान्यशेषाणि यतो भवन्ति यथोर्मयस्तोयनिधेरजस्रम् ।
लयं च यस्मिन्प्रलये प्रयान्ति तं वासुदेवं प्रणमाम्यचिन्त्यम् २४

न यस्य रूपं न बलं प्रभावो न च स्वभावः परमस्य पुंसः ।
विज्ञायते सर्वपितामहाद्यैस्तं वासुदेवं प्रणमाम्यचिन्त्यम् २५

रूपस्य चक्षुर्ग्रहणे त्वगेषा स्पर्शग्रहीत्री रसना रसस्य ।
श्रोत्रं च शब्दग्रहणे नराणां घ्राणं च गन्धग्रहणे नियुक्तम् २६

घ्राणचक्षुःश्रवणादिभिर्यः ।
सर्वेश्वरो वेदितुमव्ययात्मा शक्यस्तमीड्यं मनसैव देवं ।
ग्राह्यं नतोऽहं हरिमीशितारम् २७येनैकदंष्ट्राग्रसमुद्धृतेयं २७

धराचला धारयतीह सर्वं ग्रस्त्वा स शेते सकलं जगद्यस् ।
तमीड्यमीशं प्रणतोऽस्मि विष्णुम् २८शां!वतीर्णेन च येन गर्भे २८

हृआनि तेजांसि महासुराणां नमामि तं देवमनन्तमीशम् ।
अशेषसंसारतरोः कुठारम् २१देवो जगद्योनिरयं महात्मा २९

स षोडशांशेन महासुरेन्द्रसुरेन्द्रमातुर्जठरं प्रविष्टो ।
हृतानि वस्तेन बले वपूंषि ३०

बलिरुवाच ।
तात कोऽयं हरिर्नाम यतो न भयमागतम् ।
सन्ति मे शतशो दैत्या वासुदेवबलाधिकाः ३१

विप्रचित्तिः शिबिः शङ्कुरयःशङ्कुस्तथैव च ।
अयःशिरा अश्वशिरा भङ्गकारो महाहनुः ३२

प्रतापी प्रघसः शम्भुः कुर्कुराक्षश्च दुर्जयः ।
एते चान्ये च मे सन्ति दैतेया दानवास्तथा ३३

महाबला महावीर्या भूभारधरणक्षमाः ।
येषामेकैकशः कृष्णो न वीर्यार्धेन सम्मितः ३४

शौनक उवाच ।
पौत्रस्यैतद्वचः श्रुत्वा प्रह्रादो दैत्यपुङ्गवः ।
धिग्धिगित्याह स बलिं वैकुण्ठाक्षेपवादिनम् ३५

विनाशमुपयास्यन्ति मन्ये दैतेयदानवाः ।
येषां त्वमीदृशो राजा दुर्बुद्धिरविवेकवान् ३६

देवदेवं महाभागं वासुदेवमजं विभुम् ।
त्वामृते पापसङ्कल्पं कोऽन्य एवं वदिष्यति ३७

य एते भवता प्रोक्ताः समस्ता दैत्यदानवाः ।
सब्रह्मकास्तथा देवाः स्थावरान्ताश्च भूतयः ३८

त्वं चाहं च जगच्चेदं साद्रिद्रुमनदीनदम् ।
समुद्रद्वीपलोकाश्च यच्चेङ्गं यच्च नेङ्गति ३९

यस्यातिवन्द्यवन्द्यस्य व्यापिनः परमात्मनः ।
एकांशांशकलाजन्म कस्तमेवं प्रवक्ष्यति ४०

ऋते विनाशाभिमुखं त्वामेकमविवेकिनम् ।
दुर्बुद्धिमजितात्मानं वृद्धानां शासनातिगम् ४१

शोच्योऽहं यस्य वै गेहे जातस्तव पिताधमः ।
यस्य त्वमीदृशः पुत्रो देवदेवावमन्यकः ४२

तिष्ठत्वनेकसंसारसंहृताघविनाशनी ।
कृष्णे भक्तिरहं तावदवेक्ष्यो भवतो न किम् ४३

न मे प्रियतरः कृष्णादपि देहोऽयमात्मनः ।
इति जानात्ययं लोको भवांश्च दितिजाधमः ४४

जानन्नपि प्रियतरं प्राणेभ्योऽपि हरिं मम ।
निन्दां करोषि च कथमकुर्वन्गौरवं मम ४५

विरोचनस्तव गुरुर्गुरुस्तस्याप्यहं बले ।
ममापि सर्वजगतां गुरुर्नारायणो गुरुः ४६

निन्दां करोषि तस्मिंस्त्वं कृष्णे गुरुगुरोर्गुरौ ।
यस्मात्तस्मादिहैश्वर्यादचिराद्भ्रशमेष्यसि ४७

मा देवो मा जगन्नाथो बले मासौ जनार्दनः ।
भवत्वहमवेक्ष्यस्ते प्रीतिमानत्र मे गुरुः ४८

एतावन्मात्रमप्यत्र निन्दता जगतो गुरुम् ।
नापेक्षिता वयं यस्मात्तस्माच्छापं ददामि ते ४९

यथा मे शिरसश्छेदादिदं गुरुतरं बले ।
त्वयोक्तमच्युताक्षेपि राज्यभ्रष्टस्तथा पत ५०

यथा न कृष्णादपरं परित्राणं भवार्णवे ।
तथाचिरेण पश्येयं भवन्तं राज्यविच्युतम् ५१

शौनक उवाच ।
इति दैत्यपतिः श्रुत्वा गुरोर्वचनमप्रियम् ।
प्रसादयामास गुरुं प्रणिपत्य पुणः पुनः ५२

बलिरुवाच ।
प्रसीद तात मा कोपं कुरु मोहहते मयि ।
बलावलेपमत्तेन मयैतद्वाक्यमीरितम् ५३

मोहोपहतविज्ञानः पापोऽहं दितिजोत्तम ।
यच्छप्तोऽस्मि दुराचारस्तत्साधु भवता कृतम् ५४

राज्यभ्रंशं वसुभ्रंशं सम्प्राप्स्यामीति न त्वहम् ।
विषण्णोऽस्मि यथा तात तवैवाविनये कृते ५५

त्रैलोक्यराज्यमैश्वर्यमन्यद्वा नातिदुर्लभम् ।
संसारे दुर्लभास्तात गुरवो ये भवद्विधाः ५६

तत्प्रसीद न मे कोपं कर्तुमर्हसि दैत्यप ।
त्वत्कोपहेतुदुष्टोऽहं परितप्ये न शापतः ५७

प्रह्लाद उवाच ।
वत्स कोपेन मोहो मे जनितस्तेन ते मया ।
शापो दत्तो विवेकश्च मोहेनापहृतो मम ५८

यदि मोहेन मे ज्ञानं नाक्षिप्तं स्यान्महासुर ।
तत्कथं सर्वगं ज्ञानन्हरिं कञ्चिच्छापाम्यहम् ५९

योऽयं शापो मया दत्तो भवतोऽसुरपुङ्गव ।
भाव्यमेतेन नूनं ते तस्मात्त्वं मा विषीदथाः ६०

अद्यप्रभृति देवेशे भगवत्यच्युते हरौ ।
भवेथा भक्तिमानीशः स ते त्राता भविष्यति ६१

शापं प्राप्य च मां वीर संस्मरेथाः स्मृतस्त्वया ।
तथा तथा यतिष्यामि श्रेयसा योक्ष्यते यथा ६२

एवमुक्त्वा स दैत्येन्द्रोविरराम महामतिः ।
अजायत स गोविन्दो भगवान्वामनाकृतिः ६३

अवतीर्णे जगन्नाथे तस्मिन्सर्वमशीशमत् ।
यदासुरमभूद्दुःखं देवानामदितेस्तथा ६४

ववुर्वाताः सुखस्पर्शा नीरजस्कमभून्नभः ।
धर्मे च सर्वभूतानां तदा मतिरजायत ६५

नोद्वेगश्चाप्यभूद्देहे मनुजानां जनेश्वर ।
तथा हि सर्वभूतानां भूम्यम्बरदिवौकसाम् ६६

तं जातमात्रं भगवान्ब्रह्मा लोकपितामहः ।
जातकर्मादिकाः कृत्वा क्रियास्तुष्टाव पार्थिव ६७

ब्रह्मोवाच ।
जयाद्येश जयाजेय जय सर्वात्मकात्मक ।
जय जन्मजरापेत जयानन्त जयाच्युत ६९

जयाजित जयाशेष जयाव्यक्त स्थिते जय ।
परमार्थार्थ सर्वज्ञ ज्ञान ज्ञेयात्मनिःसृत ६१

जयाशेषजगत्साक्षिञ्जय कर्तर्जगद्गुरोः ।
जगतो जगदन्तेऽन्त स्थितौ पालयिता जय ७०

जयाखिल जयाशेष जयाखिलहृदि स्थित ।
जयादिमध्यान्तमय सर्वज्ञानमयोत्तम ७१

मुमुक्षुभिरनिर्देश्य स्वयन्दृष्ट जयेश्वर ।
योगिभिर्मुक्तिफलद दमादिगुणभूषणैः ७२

जयातिसूक्ष्म दुर्ज्ञेय जगत्स्थूल जगन्मय ।
जय स्थूलातिसूक्ष्म त्वं जयातीन्द्रिय सेन्द्रिय ७३

जय स्वमायायोगस्थ शेषभोगशयाक्षर ।
जयैकदंष्ट्राप्रान्तान्त समुद्धृतवसुन्धर ७४

नृकेसरिञ्जयारातिवक्षःस्थलविदारण ।
साम्प्रतं जय विश्वात्मन्मायावामन केशव ७५

निजमायापटच्छन्न जगद्धातर्जनार्दन ।
जयाचिन्त्य जयानेकस्वरूपैकविध प्रभो ७६

वर्धस्व वर्धितानेकविकारप्रकृते हरे ।
त्वय्येषा जगतामीश संस्थिता धर्मपद्धतिः ७७

न त्वामहं न चेशानो नेन्द्राद्यास्त्रिदशा हरे ।
ज्ञातुमीशा न मुनयः सनकाद्या न योगिनः ७८

त्वन्मायापटसंवीते जगत्यत्र जगत्पते ।
कस्त्वां वेत्स्यति सर्वेशं त्वत्प्रसादं विना नरः ७९

त्वमेवाराधितो यस्य प्रसादसुमुखः प्रभो ।
स एव केवलं देव वेत्ति त्वां नेतरो जनः ८०

तदीश्वरेश्वरेशान विभो वर्धस्व भावन ।
प्रभावायास्य विश्वस्य विश्वात्मन्पृथुलोचन ८१

शौनक उवाच ।
एवं स्तुतो हृषीकेशः स तदा वामनाकृतिः ।
प्रहस्य भावगम्भीरमुवाचाब्जसमुद्भवम् ८२

स्तुतोऽहं भवता पूर्वमिन्द्राद्यैः कश्यपेन च ।
मया च वः प्रतिज्ञातमिन्द्रस्य भुवनत्रयम् ८३

भूयश्चाहं स्तुतोऽदित्या तस्याश्चापि प्रतिश्रुतम् ।
यथा शक्राय दास्यामि त्रैलोक्यं हतकण्टकम् ८४

सोऽहं तथा करिष्यामि यथेन्द्रोजगतः पतिः ।
भविष्यति सहस्राक्षः सत्यमेतद्ब्रवीमि ते ८५

ततः कृष्णाजिनं ब्रह्मा हृषीकेशाय दत्तवान् ।
यज्ञोपवीतं भगवान्ददौ तस्मै बृहस्पतिः ८६

आषाढमददद्दण्डं मरीचिर्ब्रह्मणः सुतः ।
कमण्डलुं वसिष्ठश्च कौश्यं वेदमथाङ्गिराः ।
अक्षसूत्रं च पुलहः पुलस्त्यः सितवाससी ८७

उपतस्थुश्च तं वेदाः प्रणवस्वरभूषणाः ।
शास्त्राण्यशेषाणि तथा साङ्ख्ययोगोक्तयश्च याः ८८

स वामनो जटी दण्डी छत्त्री धृतकमण्डलुः ।
सर्वदेवमयो भूप बलेरध्वरमभ्ययात् ८९

यत्र यत्र पदं भूप भूभागे वामनो ददौ ।
ददाति भूमिर्विवरं तत्र तत्रातिपीडिता ९०

स वामनो जडगतिर्मृदु गच्छन्सपर्वताम् ।
साब्धिद्वीपवतीं सर्वां चालयामास मेदिनीम् ।
ततः संशयमापन्नाः सर्वे दैतेयदानवाः ९१

इति विष्णुधर्मेषु वामनस्तवः ।

N/A

References : N/A
Last Updated : February 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP