संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ४२

विष्णुधर्माः - अध्याय ४२

विष्णुधर्माः


अथ द्विचत्वारिंशोऽध्यायः ।
दाल्भ्य उवाच ।
उपवासाश्रितं सम्यग्लोकद्वयफलप्रदम् ।
कथितं भवता सर्वं यत्पृष्टोऽसि मया द्विज १

अन्यदिच्छाम्यहं श्रोतुं तद्भवान्प्रब्रवीतु मे ।
संसारहेतुं मुक्तिं च संसारान्मुनिसत्तम २

पुलस्त्य उवाच ।
अविद्याप्रभवं कर्म हेतुभूतं द्विजोत्तम ।
संसारस्यास्य तन्मुक्तिः सङ्क्षेपाच्छ्रूयतां मम ३

स्वजातिविहितं कर्म लोभद्वेषविवर्जितम् ।
कुर्वतः क्षीयते पूर्वं मन्युबन्धश्च नेष्यते ४

अपूर्वसम्भवाभवात्क्षयं यात्यादिकर्मणि ।
दाल्भ्य संसारविच्छेदः कारणाभावसम्भवः ५

भवत्यसंशयं चान्यच्छ्रूयतामत्र कारणम् ।
संसारान्मुच्यते दाल्भ्य समासाद्वदतो मम ६

गृहीतकर्मणा येन पुंसां जातिर्द्विजोत्तम ।
तत्प्रायश्चित्तभूतं वै शृणु कर्मक्षयावहम् ७

ब्राह्मणक्षत्रियविशां शूद्रान्त्यानां च सत्तम ।
स्वजातिविहितं कर्म रागद्वेषादिवर्जितम् ८

जातिप्रदस्य क्षयदं तदेवाद्यस्य कर्मणः ।
ज्ञानकारणभावं च तदेव प्रतिपद्यते ९

पुमांश्चाधिगतज्ञानो भेदं नाप्नोति सत्तम ।
ब्रह्मणा विष्णुसञ्ज्ञेन परमेणाव्ययात्मना १०

एतत्ते कथितं दाल्भ्य संसारस्य समासतः ।
कारणं भवमुक्तिश्च जायते योगिनो यथा ११

इति विष्णुधर्मेषु संसारहेतुमुक्त्याख्यानकम् ।

N/A

References : N/A
Last Updated : February 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP