संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ४१

विष्णुधर्माः - अध्याय ४१

विष्णुधर्माः


अथैकचत्वारिंशोऽध्यायः ।
दाल्भ्य उवाच ।
यथैतद्भवता प्रोक्तं धर्मार्थादेस्तु साधनम् ।
पत्नी नॄणां मुनिश्रेष्ठ योषितश्च तथा नरः १

तच्छ्रोतुमिच्छे विप्रर्षे विधवा स्त्री न जायते ।
उपोषीतेन येनाग्र्या पत्न्या च रहितो नरः २

पुलस्त्य उवाच ।
अशून्यशयना नाम द्वितीयां शृणु तां मम ।
यामुपोष्य न वैधव्यं प्रयाति स्त्री द्विजोत्तम ३

पत्नीवियुक्तश्च नरो न कदाचित्प्रजायते ।
शेते जगत्पतिः कृष्णः श्रिया सार्धं यदा द्विज ४

अशून्यशयना नाम तदा ग्राह्या हि सा तिथिः ।
कृष्णपक्षद्वितीयायां श्रावणे द्विजसत्तम ५

इदमुच्चारयेन्नाम प्रणम्य जगतः पतिम् ।
श्रीवत्सधारिणं श्रीशं भक्त्याभ्यर्च्य श्रिया सह ६

श्रीवत्सधारिञ्श्रीकान्त श्रीधाम श्रीपतेऽच्युत ।
गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदम् ७

अग्नयो मा प्रणश्यन्तु मा प्रणश्यन्तु देवताः ।
पितरो मा प्रणश्यन्तु मत्तो दाम्पत्यभेदतः ८

लक्ष्म्या प्रयुज्यते देव न कदाचिद्यथा भवान् ।
तथा कलत्रसम्बन्धो देव मा मे विभिद्यताम् ९

लक्ष्म्या न शून्यं वरद यथा ते शयनं सदा ।
शय्या ममाप्यशून्यास्तु तथैव मधुसूदन १०

एवं प्रसाद्य पूजां च कृत्वा लक्ष्म्यास्तथा हरेः ।
फलानि दद्याच्छय्यायामभीष्टानि जगत्पतेः ११

नक्तं प्रणम्यायतने हविर्भुञ्जीत वाग्यतः ।
ब्राह्मणाय द्वितीयेऽह्नि शक्त्या दद्याच्च दक्षिणाम् १२

एवं करोति यः सम्यग्नरो मासचतुष्टयम् ।
तस्य जन्मत्रयं दाल्भ्य गृहभङ्गो न जायते १३

अशून्यशयनश्चासौ धर्मकर्मार्थसाधकः ।
भवत्यव्याहतैश्वर्यः पुरुषो नात्र संशयः १४

नारी च दाल्भ्य धर्मज्ञा व्रतमेतद्यथाविधि ।
या करोति न सा शोच्या बन्धुवर्गस्य जायते १५

वैधव्यं दुर्भगत्वं वा भर्तृत्यागं च सत्तम ।
नाप्नोति जन्मत्रितयमेतच्चीर्त्वा पतिव्रता १६

इति विष्णुधर्मेष्वशून्यशयनद्वितीया नाम एकचत्वारिंशोऽध्यायः ।

N/A

References : N/A
Last Updated : February 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP