संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ६८

विष्णुधर्माः - अध्याय ६८

विष्णुधर्माः


अथाष्टषष्टितमोऽध्यायः ।
शतानीक उवाच ।
महामते महाप्राज्ञ सर्वशास्त्रविशारद ।
अक्षीणकर्मबन्धस्तु पुरुषो द्विजसत्तम १

मरणे यज्जपञ्जप्यं यच्च भावं अनुस्मरन् ।
परं पदमवाप्नोति तन्मे वद महामुने २

शौनक उवाच ।
श्रीवत्साङ्कं जगद्बीजमनन्तं लोकभावनम् ।
पुरा नारायणं देवं नारदः पर्यपृच्छत ३

नारद उवाच ।
भगवन्भूतभव्येश श्रद्दधानैर्जितेन्द्रियैः ।
कथं भक्तैर्विचिन्त्योऽसि मरणे प्रत्युपस्थिते ४

किं वा जप्यं जपेन्नित्यं कल्यमुत्थाय मानवः ।
स्वपन्विबुध्यन्ध्यायंश्च तन्मे ब्रूहि सनातन ५

श्रुत्वा तस्य तु देवर्षेर्वाक्यं वाक्यविशारदः ।
प्रोवाच भगवान्विष्णुर्नारदं जगतो गतिः ६

भगवानुवाच ।
हन्त ते कथयिष्यामि मुने दिव्यामनुस्मृतिम् ।
मरणे यामनुस्मृत्य प्राप्नोति परमां गतिम् ७

ॐकारमादितः कृत्वा मामनुस्मृत्य मन्मनाः ।
एकाग्रप्रयतो भूत्वा इदं मन्त्रमुदीरयेत् ८

अव्यक्तं शाश्वतं देवमनन्तं पुरुषोत्तमम् ।
प्रपद्ये प्राञ्जलिर्विष्णुमच्युतं परमेश्वरम् ९

पुराणं परमं विष्णुमद्भुतं लोकभावनम् ।
प्रपद्ये पुण्डरीकाक्षमीशं भक्तानुकम्पिनम् १०

लोकनाथं प्रपन्नोऽस्मि अक्षरं परमं पदम् ।
भगवन्तं प्रपन्नोऽस्मि भूतभव्यभवत्प्रभुम् ११

स्रष्टारं सर्वभूतानामनन्तबलपौरुषम् ।
पद्मनाभं हृषीकेशं पपद्ये सत्यमव्ययम् १२

हिरण्यगर्भं भूगर्भममृतं विश्वतोमुखम् ।
आभास्वरमनाद्यन्तं प्रपद्ये भास्करद्युतिम् १३

सहस्रशिरसं देवं वैकुण्ठं तार्क्ष्यवाहनम् ।
प्रपद्ये सूक्ष्ममचलं वरेण्यमभयप्रदम् १४

नारायणं नरं हंसं योगात्मानं सनातनम् ।
शरण्यं सर्वलोकानां प्रपद्ये ध्रुवमीश्वरम् १५

यः प्रभुः सर्वलोकानां येन सर्वमिदं ततम् ।
चराचरगुरुर्देवः स नो विष्णुः प्रसीदतु १६

यस्माज्जातः पुरा ब्रह्मा पद्मयोनिः पितामहः ।
प्रसीदतु स नो विष्णुः पिता माता पितामहः १७

यः पुरा प्रलये प्राप्ते नष्टे लोके चराचरे ।
एकस्तिष्ठति योगात्मा स नो विष्णुः प्रसीदतु १८

चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च ।
हूयते च पुनर्द्वाभ्यांस नो विष्णुः प्रसीदतु ।
पर्जन्यः पृथिवी सस्यं कालो धर्मः क्रिया फलम् ।
गुणाकरः स नो बभ्रुर्वासुदेवः प्रसीदतु १९

योगावास नमस्तुभ्यं सर्वावास वरप्रद ।
यज्ञगर्भ महाभाग पञ्चयज्ञ नमोऽस्तु ते २०

चतुर्मूर्ते जगद्धाम लक्ष्म्यावास वरप्रद ।
सर्वावास नमस्तेऽस्तु साक्षिभूत जगत्पते २१

अजेय खण्डपरशो विश्वमूर्ते वृषाकपे ।
त्रिगर्ते पञ्चकालज्ञ नमस्ते ज्ञानसागर २२

अव्यक्तादण्डमुत्पन्नमव्यक्ताद्यः परः प्रभुः ।
यस्मात्परतरं नास्ति तमस्मि शरणं गतः २३

चिन्तयन्तो हि यं नित्यं ब्रह्मेशाआदयः प्रभुम् ।
निश्चयं नाधिगच्छन्ति तमस्मि शरणं गतः २४

जितेन्द्रिया महात्मानो ज्ञानध्यानपरायणाः ।
यं प्राप्य न निवर्तन्ते तमस्मि शरणं गतः २५

एकांशेन जगत्सर्वं योऽवष्टभ्य विभुः स्थितः ।
अग्राह्यो निर्गुणः शास्ता तमस्मि शरणं गतः २६

दिवाकरस्य सौम्यं हि मध्ये ज्योतिरवस्थितम् ।
क्षेत्रज्ञमिति यं प्राहुः स महात्मा प्रसीदतु २७

अव्यक्तमनवस्थानो दुर्विज्ञेयः सनातनः ।
आस्थितः प्रकृतिं भुङ्क्ते स महात्मा प्रसीदतु २८

क्षेत्रज्ञः पञ्चधा भुङ्क्ते प्रकृतिं बहुभिर्गुणैः ।
मनोगुणांश्च यो भुङ्क्ते स महात्मा प्रसीदतु २९

साङ्ख्या योगाश्च ये चान्ये सिद्धाश्चैव महर्षयः ।
यं विदित्वा विमुच्यन्ते स महात्मा प्रसीदतु ३०

नमस्ते सर्वतोभद्रसर्वतोऽक्षिशिरोमुख ।
निर्विकार नमस्तेऽस्तु साक्षिभूत हृदि स्थित ।
अतीन्द्रिय नमस्तुभ्यं लिङ्गेभ्यस्त्वं प्रमीयसे ३१

ये तु त्वां नाभिजानन्ति संसारे संसरन्ति ते ।
रागद्वेषविनिर्मुक्तं लोभमोहविवर्जितम् ।
अशरीरं शरीरस्थं समं सर्वेषु देहिषु ३२

अव्यक्तं बुद्ध्यहङ्कारौ महाभूतेन्द्रियाणि च ।
त्वयि तानि न तेषु त्वं तेषु त्वं तानि न त्वयि ३३

स्रष्टा भोक्तासि कूटस्थो गुणानां प्रभुरीश्वरः ।
अकर्ता हेतुरहितः प्रभुः स्वात्मन्यवस्थितः ३४

नमस्ते पुण्डरीकाक्ष पुनरेव नमोऽस्तु ते ।
ईश्वरोऽसि जगन्नाथ किमतः परमुच्यते ।
भक्तानां यद्धितं देव तद्ध्याय त्रिदशेश्वर ३५

मा मे भूतेषु संयोगः पुनर्भवतु जन्मनि ।
अहङ्कारेण बुद्ध्या वा तथा सत्त्वादिभिर्गुणैः ३६

मा मे धर्मो ह्यधर्मो वा पुनर्भवतु जन्मनि ।
विषयैरिन्द्रियैर्वापि मा मे भूयात्समागमः ३७

पृथिवीं यातु मे घ्राणं यातु मे रसना जलम् ।
चक्षुर्हुताशनं यातु स्पर्शो मे यातु मारुतम् ३८

शब्दो ह्याकाशमभ्येतु मनो वैकारिकं तथा ।
अहङ्कारश्च मे बुद्धिं त्वयि बुद्धिः समेतु च ३९

वियोगः सर्वकरणैर्गुणैर्भूतैश्च मे भवेत् ।
सत्त्वं रजस्तमश्चैव प्रकृतिं प्रविशन्तु मे ४०

निष्केवलं पदं चैव प्रयामि परमं तव ।
एकीभावस्त्वयैवास्तु मा मे जन्म भवेत्पुनः ४१

नमो भगवते तस्मै विष्णवे प्रभविष्णवे ।
त्वन्मनस्त्वद्गतपृआणस्त्वद्भक्तस्त्वत्परायणः ।
त्वामेवानुस्मरे देव मरणे प्रत्युपस्थिते ४२

पूर्वदेहकृता ये मे व्याधयस्ते विशन्तु माम् ।
आर्दयन्तु च दुःखानि प्रविमुञ्चामि यदृणम् ४३

उपतिष्ठन्तु मे रोगा ये मया पूवसञ्चिताः ।
अनृणो गन्तुमिच्छामि तद्विष्णोः परमं पदम् ४४

अहं भगवतस्तस्य मम चासौ सुरेश्वरः ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ४५

नमो भगवते तस्मै येन सर्वमिदं ततम् ।
तमेव च प्रपन्नोऽस्मि मम यो यस्य चाप्यहम् ४६

इमामनुस्मृतिं नित्यं वैष्णवीं पापनाशनीम् ।
स्वपञ्जाग्रत्पठेद्यस्तु त्रिसन्ध्यं वापि यः स्मरेत् ४७

मरणे चाप्यनुप्राप्ते यस्त्विमां समनुस्मरेत् ।
अपि पापसमाचारः सोऽपि याति परां गतिम् ४८

अर्चयन्नपि यो देवं गृहे वापि बलिं ददेत् ।
जुह्वदग्निं स्मरेद्वापि लभते स परां गतिम् ४९

पौर्णमास्याममावास्यां द्वादश्यां च विशेषतः ।
श्रावयेच्छ्रद्दधानंस्तु ये चान्ये मामुपाश्रिताः ५०

नम इत्येव यो ब्रूयान्मद्भक्तः श्रद्धयान्वितः ।
तस्य स्युरक्षया लोकाः श्वपाकस्यापि नारद ५१

किं पुनर्ये यजन्ते मां साधवो विधिपूर्वकम् ।
ध्यायन्ति च यथान्यायं ते यान्ति परमां गतिम् ५२

अश्वमेधसहस्राणां यः सहस्रं समाचरेत् ।
नासौ तत्पदमाप्नोति मद्भक्तैर्यदवाप्यते ५३

इष्टं दत्तं तपोऽधीतं व्रतानि नियमाश्च ये ।
सर्वमेतद्विनाशान्तं ज्ञाअस्यान्तो न विद्यते ५४

तस्मात्प्रदेयं साधुभ्यो धर्म्यं सत्त्वाभयङ्करम् ।
दानादीन्यन्तवन्तीह मद्भक्तो नान्तमश्नुते ५५

यो दद्याद्भगवज्ज्ञानं कुर्याद्वा धर्मदेशनाम् ।
कृत्स्नां वा पृथिवीं दद्यान्न तु तुल्यं कथञ्चन ५६

कान्तारवनदुर्गेषु कृच्छ्रेष्वापत्सु सम्भ्रमे ।
दस्युभिः सन्निरुद्धश्च नामभिर्मां प्रकीर्तयेत् ५७

वराहो रक्षतु जले विषमेषु च वामनः ।
रामो रामश्च रामश्च त्रायन्तां दस्युदोषतः ।
अटव्यां नारसिंहस्तु सर्वतः पातु केशवः ५८

बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ।
सकृदुच्चारितं येन हरिरित्यक्षरद्वयम् ५९

जन्मान्तरसहस्राणि तपोज्ञानसमाधिभिः ।
नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ।
गत्वा गत्वा निवर्तने चन्द्रसूर्यादयो ग्रहाः ।
अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः ।
न वासुदेवात्परमस्ति मङ्गलं न वासुदेवात्परमं पवित्रम् ।
न वासुदेवात्परमस्ति दैवतं न वासुदेवं प्रणिपत्य सीदति ।
तस्मान्मामेव देवर्षे ध्यायस्वातन्द्रितः सदा ।
अवाप्स्यसि ततः सिद्धिं पदं द्रक्ष्यसि च ध्रुवम् ६०

शौनक उवाच ।
एवं स देवदेवेन नारदः प्रतिबोधितः ।
चकार केशवे भक्तिं तस्मात्त्वं कुरु भूपते ६१

यः पठेत्परया भक्त्या स गच्छेद्विष्णुसाम्यताम् ।
एतत्पुण्यं पापहरं धन्यं दुःस्वप्ननाशनम् ६२

इति विष्णुधर्मेषु अनुस्मृतिः ।

N/A

References : N/A
Last Updated : February 22, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP