संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ३३

विष्णुधर्माः - अध्याय ३३

विष्णुधर्माः


अथ त्रयस्त्रिंशोऽध्यायः ।
दाल्भ्य उवाच ।
आह्लादं चक्षुषः प्रीतिं करोति मनसस्तथा ।
केषाञ्चिद्दर्शनं ब्रह्मन्मनुष्याणामहर्निशम् १

उद्वेजनीया भूतानामनिमित्तं तथापरे ।
वदन्ते विप्रियं नैव प्रीतिं कुर्वन्ति मानवाः २

एतद्यस्य फलं ब्रह्मन्दानस्य तपसोऽथवा ।
उपवासस्य वा तन्मे यथावद्वक्तुमर्हसि ३

अप्रीतिदस्य विप्रर्षे विपाको यस्य कर्मणः ।
मनुष्याणामशेषं वै तन्ममाचक्ष्व सत्तम ४

पुलस्त्य उवाच ।
देवब्राह्मणवेदेषु यज्ञेषु च नराधमैः ।
यैर्जुगुप्सा कृता दाल्भ्य मनसाप्यतिमानिभिः ५

तेषां सन्दर्शनात्सर्वो न सुखं विन्दते द्विज ।
वदन्त्यप्यनुकूलानि न तेषु प्रीयते जनः ६

स्पर्शादुद्विजते लोकः कटु तेषां च दर्शनम् ।
सम्भाषणं च निन्दा वै कृता वेदद्विजातिके ७

तस्मान्न निन्दां वेदादौ न जुगुप्सां च पण्डितः ।
यज्ञादौ च नरः कुर्याद्य इच्छेच्छ्रेय आत्मनः ८

यैस्तु प्रीतिः समस्तेषु वेददेवद्विजातिषु ।
यज्ञादिके चैव कृता दाल्भ्य तद्दर्शनं नृणाम् ९

आह्लादश्चक्षुषः प्रीतिर्मनसो निर्वृतिः परा ।
सम्भाषणे तथाह्लादः सर्वलोकस्य जायते १०

स्तुताः प्रशस्ताः सम्प्रीत्या पूजिता बहुमानतः ।
श्रेयः परं प्रयच्छन्ति देवा वेदा मखा द्विजाः ११

लोकद्वयेऽपि चाप्रीतिं पशुपुत्रधनक्षयम् ।
कुर्वन्ति द्विजशार्दूल एत एव विनिन्दिताः १२

एत एव समाख्याताः स्तवादिग्रहणे गुणाः ।
निन्दायाः श्रवणे दोष एतेषामेवमेव हि १३

तस्मात्स्तव्याः प्रशंस्याश्च देवा वेदा द्विजातयः ।
यज्ञाश्च मनसाप्येषां न निन्दामाचरेद्बुधः १४

इति विष्णुधर्मेषु देवद्विजादिप्रशंसा ।

N/A

References : N/A
Last Updated : February 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP