मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे| त्यागराजविरचितः॥स्वानन्दम... देवी स्तोत्रे उमाशतकम् अयि गिरिनंदिनि नंदितमेदिन... प्रातः स्मरामि ललितावदनार... विज्ञापनार्हविरलावसरानवाप... जय भगवति देवि नमो वरदे जय... निशुम्भशुम्भमर्दिनीं प्रच... मुद्रा स्वस्ति श्रीमदखिलभ... पाण्डित्यं परमेश्वरि स्तु... श्रीशङ्करगुरुत्तंससमर्चित... प्रातः स्मरामि ललितावदनार... सुवक्षोजकुम्भां सुधापूर्ण... श्रीभारतीतीर्थमहास्वामिभि... विराटनगरं रम्यं गच्छमानो ... सञ्जय उवाच- धार्तराष्ट्रब... पुरन्दर उवाच- नमः कमलवासि... ध्यानम् कान्त्या काञ्चनसन... अम्ब प्रसीद वरदा भव दुःखह... अपराधसहस्राणि क्रियन्तेऽह... आदिलक्ष्मीः द्विभुजाञ्च द... उषसि मागधमंगलगायनैर्झटिति... अयिगिरिनन्दिनि नन्दितमेदि... नमस्ते शरण्ये शिवे सानुकम... विरिञ्च्यादिभिः पञ्चभिर्ल... लक्ष्मीशे योगनिद्रां प्रभ... सिन्दूरारुणकान्तिमब्जवसति... लक्ष्मीशे योगनिद्रां प्रभ... नमस्ते शरण्ये शिवे सानुकम... करवाणि वाणि किं वा जगति प... प्रातः स्मरामि ललितावदनार... ध्यायेत् हेमांबुजारूढां व... हर हर शंभो गौरीश! शिव शिव... उद्यच्चन्दनकुङ्कुमारुणपयो... बन्धूकवर्णामरुणां सुगात्र... सञ्जय उवाच- धार्तराष्ट्रब... कल्याणायुतपूर्णचन्द्रवदना... गौरीं काञ्चनपद्मिनीतटगृहा... विराटनगरं रम्यं गच्छमानो ... ॐ जटाजूटसमायुक्तामर्द्धेन... प्रस्तावना क्षमस्व भगवत्यंब क्षमाशील... कदंबवनचारिणीं मुनिकदम्बका... समुन्मीलन्नीलांबुजनिकरनीर... ॐ अस्य श्रीन्द्राक्षीस्तो... षडाधारपंकेरुहांतर्विराजत्... श्रेयस्करि शमनिवरिणि विद्... अम्ब शशिबिम्बवदने कम्बुग्... नमस्ते शरण्ये शिवे सानुकम... घोररूपे महारावे सर्वशत्रु... याज्ञवल्क्य उवाच— कृपां... श्रीगणेशाय नमः ॥ पद्मे... श्रीछिन्नमस्ताष्टोत्तरशतनाम स्तोत्रम् त्रिपुरसुन्दरीमानसपूजास्तोत्रम् देवीचतुःषष्ट्युपचारपूजास्तोत्रम् चेटी भवन्निखिल केटी कदम्ब... ॥ॐ ॥ ॥श्री दुर्गायै नम... ॥ॐ अस्य श्रीदुर्गासप्तश्ल... श्री॥श्रीचण्डिकाध्यानम् ॐ... ॐ नमश्चण्डिकायै मार्कण्डे... ॐ नमश्चण्डिकायै मार्कण्डे... अथ देव्याः कवचम् हारनूपुरकिरीटकुण्डलविभूषि... प्रातः स्मरामि ललिता वदना... धनदा उवाच देवी देवमुपागम्... अहं रुद्रेभिरित्यादिमन्त्... धनदा उवाच देवी देवमुपागम्... ॥त्यागराजविरचितः कल्याणाम... गणेशः । हरिद्राभंचतुर्वाद... श्रीगुरुचरणसरोजं श्रीकरभव... विबुधाधिपतेजिनीशकान्ते वद... ॐ नमस्ते सते सर्वलोकाश्रय... ॥श्रीगोकर्णनिकेता श्रीविद... जय भगवति देवि नमो वरदे जय... मीनाक्षी सुन्दरेश्वर स्तोत्रम् शिवोमा परमा शक्तिरनन्ता न... भगवतीपद्यपुष्पांजलिस्तोत्र उद्यद्भानु सहस्रकोटिसदृशा... श्रीविद्ये शिववामभागनिलये... गुरुश्च गुरुपुत्रश्च ये च... श्रीदेव्युवाच देवदेव महदे... अम्बा शाम्भवि चन्द्रमौलिर... त्यागराजविरचितः या त्रैलो... पाकामृतांशुमकुटाभरणा भवान... क्षमस्व भगवंत्यव क्षमाशील... लघुषोडशार्णकलाविलासः ॥शक्तिसूत्र ॥ अथ शक्तिसू... त्यागराजविरचितः॥स्वानन्दम... आदिशक्ते जगन्मातर्भक्तानु... का त्वं शुभकरे सुखदुःखहस्... अंभोधरश्यामलकुन्तलायै तटि... आदिलक्ष्मी ॥ सुमनसवन्दित... नमः सर्व स्वरूपे च नमो कल... करकलितचापबाणां कल्हाराङ्घ... श्री शङ्कराचार्य कृतम् । ... अङ्गं हरेः पुलकभूषणमाश्रय... श्रीः॥ कल्याणवृष्टिभिरिव... श्री देवी ध्यानम् जगदवन व... ॐ नमश्चण्डिकायै मार्कण्डे... देवि सुरेश्वरि भगवति गंगे... या देवी सर्वभूतेषु विष्णु... देवी खड्गमाला स्तोत्ररत्नम उपनिषद शान्तिस्तवः - त्यागराजविरचितः॥स्वानन्दम... देवी आदिशक्ती माया आहे. तिची अनेक रूपे आहेत. जसे ती जगत्कल्याणकारी तसेच दुष्टांचा संहार करणारीही आहे. The concept of Supreme mother Goddess is very old in India. The divine mother has been worshipped as 'Shakti' since vedic times. Tags : goddessstotraदेवीस्तोत्र शान्तिस्तवः Translation - भाषांतर त्यागराजविरचितः॥स्वानन्दमन्दहसितां शिववामभागां भृङ्गावलीकचभराकलितेन्दुमौलिम् । श्यामां विशालनयनामतिकोमलाङ्गीं वन्दे स्मरारिमहिलां वरदां शिवाख्याम् ॥१॥ कालदेशकलनाविवर्जिता स्वेच्छयैव भुवनान्यजीजनत् । क्रीडति स्वयमनेकभूमिका सा शिवाहमिति शान्तिमाश्रये ॥२॥ स्वप्रकाशशिवशक्तिरूपिणी सर्वभूतहृदयाब्जहंसिका । निष्प्रकारसुखचन्द्रचन्द्रिका सा शिवाहमिति शान्तिमाश्रये ॥३॥ सर्वभूतहृदयप्रचोदिका शर्वविष्णुनिखिलात्मरूपिणी । निर्विकाररसरूपलक्षिता सा शिवाहमिति शान्तिमाश्रये ॥४॥ या परादिवचसामगोचरा रूपनामरहिता परा वरा । या त्रयीप्रमुखमार्गदर्शिनी सा शिवाहमिति शान्तिमाश्रये ॥५॥ निर्ममा निखिललोकरक्षणी कर्मकाण्डफलदानकामधुक् । आप्तकामधिषणात्मरूपिणी सा शिवाहमिति शान्तिमाश्रये ॥६॥ पञ्चकोशघनमुक्तचन्द्रिका पञ्चभूतजडविश्वदीपिका । पञ्चमूर्तिरवबिन्दुनायिका सा शिवाहमिति शान्तिमाश्रये ॥७॥ चिद्विलासजगदेकरूपिणी ह्यस्तिभातिसुखरूपसत्तया । षड्विकाररहिता निराश्रया सा शिवाहमिति शान्तिमाश्रये ॥८॥ यागयोगजपहोमकर्मभिर्नैव जातु परमा हि लभ्यते । प्रज्ञया सहजयैव याप्यते सा शिवाहमिति शान्तिमाश्रये ॥९॥ जाग्रदादिसमयेषु वृत्तिषु भ्राजते तनुषु सर्वसाक्षिणी । स्वर्णवत् सकलभूषणेषु या सा शिवाहमिति शान्तिमाश्रये ॥१०॥ नेति नेति निगमोक्तिबोधिता ज्ञानिनां तु हृदये सदोज्ज्वला । भेदभावगलनात् सदात्मिका सा शिवाहमिति शान्तिमाश्रये ॥११॥ भेदतो भवति भीरिति श्रुतेर्यान्ति तेन रहिता यदेकताम् । आपगास्तु सरितामिवेश्वरे सा शिवाहमिति शान्तिमाश्रये ॥१२॥ नामरूपकुलधर्मवर्जिता जन्मनाशरहिता सदव्यया । कल्पनान्तसमयेऽपि या स्थिरा सा शिवाहमिति शान्तिमाश्रये ॥१३॥ कोटिकोटिजनिपुण्यसंस्कृतः सर्वकामरहितो जितेन्द्रियः यां विभाव्य परिमुच्यते भवात् सा शिवाहमिति शान्तिमाश्रये ॥१४॥ शास्त्रपाठमननैर्न लभ्यते धैर्यवीर्यनयतः पराक्रमैः । केवलं गुरुदृशा प्रकाशते सा शिवाहमिति शान्तिमाश्रये ॥१५॥ प्राणबुद्धिहृदयात्मसाक्षिणी सर्वयज्ञपरितृप्तिकामिनी । ज्ञानपुष्परसपूजिताभया सा शिवाहमिति शान्तिमाश्रये ॥१६॥ यत्र नास्ति निखिलं चराचरं ह्येकरूपरसवस्त्वभेदतः । नेह नेति विधिवाक्यचोदिता सा शिवाहमिति शान्तिमाश्रये ॥१७॥ या गुरूक्तिसुधया मनोमले क्षालिते सपदि सत्यचिन्मणिः । द्योतते सकलधीप्रभासुरा सा शिवाहमिति शान्तिमाश्रये ॥१८॥ दह्यते न शिखिना सदाव्यया सत्तया दहति पावकस्तृणम् । शुष्यते न मरुताखिलेश्वरी सा शिवाहमिति शान्तिमाश्रये ॥१९॥ सिद्ध्यसाध्यपरमन्त्रवर्जिता ह्यष्टसिद्धिपरसिद्धिभूमिका । शुद्धचित्तपरमामृतात्मिका सा शिवाहमिति शान्तिमाश्रये ॥२०॥ देहमानदलितस्य योगिनः सर्वतोऽपि परिपूर्णकामता । भाति या परमगुप्तरूपिणी सा शिवाहमिति शान्तिमाश्रये ॥२१॥ इन्द्रजालमिदमल्पकालिकं विश्वमेवमिति निश्चयात्मनः । बोधरूपत इहैव भाति या सा शिवाहमिति शान्तिमाश्रये ॥२२॥ विश्वयोनिरमृताभयाक्षरा नित्यतृप्तिरजरा परात्परा । इत्थमागमवचोभिरीड्यते सा शिवाहमिति शान्तिमाश्रये ॥२३॥ सर्वदा समरसात्मरूपिणी सर्वलोकजननी ह्यरूपिणी । शर्वनृत्यसुखसाक्षिणी च या सा शिवाहमिति शान्तिमाश्रये ॥२४॥ इन्द्रियार्थसुखबोधबोधिनी चन्द्रभानुशिखिदीप्तिकारिणी । बन्धवर्गभयमोहमोचिनी सा शिवाहमिति शान्तिमाश्रये ॥२५॥ देहजीवजगदीशबाधने शिष्यते स्वयमनन्तरूपिणी । व्यापिनी जगति संततं च या सा शिवाहमिति शान्तिमाश्रये ॥२६॥ प्राणबन्धपरिशुद्धचेतसां निर्विकल्पसुखरूपिणी सदा । चिन्मयी सदसदात्मिका च या सा शिवाहमिति शान्तिमाश्रये ॥२७॥ यत्सुखाब्धिलवलेशनिवृता ब्रह्मविष्णुसुरमानवादयः । संभवन्ति युगकल्पभेदतः सा शिवाहमिति शान्तिमाश्रये ॥२८॥ ब्रह्मलोकतृणमानिने सदा तृप्तिरूपपरशान्तिदायिनी । योगिने समरसं ददाति या सा शिवाहमिति शान्तिमाश्रये ॥२९॥ सर्वमेकरसमित्युदेति या निर्मला निरवधिश्च चेतसि । देशिकेन्द्रपदभक्तियोगिनः सा शिवाहमिति शान्तिमाश्रये ॥३०॥ मायिकस्य जगतः स्थितिर्यया स्वप्नकालनगरीव योगिनः । भासते निजसुखैकभोगिनः सा शिवाहमिति शान्तिमाश्रये ॥३१॥ निस्तरङ्गसुखसिन्धुरूपिणीं यामनुस्मरति बन्धमुक्तये । शान्तिदान्तिधृतियुक्तयोगिराट् सा शिवाहमिति शान्तिमाश्रये ॥३२॥ भूतभाविमतिवृत्त्यभाविकां वर्तमानसुखवृत्तिभासिकाम् । येऽनुसंदधति नित्यमादरात् सा शिवाहमिति शान्तिमाश्रये ॥३३॥ बुद्धिमोहपटले व्यपोहिते शाणचक्रनिगमोक्तितः स्वयम् । प्रस्फुरत्यविरतं च चिन्मणिः सा शिवाहमिति शान्तिमाश्रये ॥३४॥ नाहमित्यनृतजाड्यभूमयः सच्चिदेव सकलात्मभासकः । इत्थमेकरसरूपशेमुषी सा शिवाहमिति शान्तिमाश्रये ॥३५॥ वृत्तिसंधिविलसत्स्वरूपिणी प्रज्ञया हृदि विभाव्यते सदा । नित्यमुक्तिसुखकाङ्क्षिणा दृढं सा शिवाहमिति शान्तिमाश्रये ॥३६॥ त्यागराजसुखरूपिणी परं योगिराजहृदयोज्ज्वला सदा । आगमाद्यखिलमानबोधिता सा शिवाहमिति शान्तिमाश्रये ॥३७॥ शान्तिस्तवं पठति नित्यमनन्यभक्त्या यो मानवो भवति शंकर एव साक्षात् । संसारदुःखभयमोचनदक्षकल्पं स्वात्मापरोक्षकरणे गुरुपादकल्पम् ॥३८॥ इत्यानन्दनाथपादपपद्मोपजीविना काश्यपगोत्रोत्पन्नेनान्ध्रेण त्यागराजनाम्ना विरचितः शान्तिस्तवः संपूर्णः N/A References : N/A Last Updated : July 12, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP