दुर्गास्तोत्रम् - सञ्जय उवाच- धार्तराष्ट्रब...
देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.
सञ्जय उवाच-
धार्तराष्ट्रबलं दृष्ट्वा युद्धाय समुपस्थितम् ।
अर्जुनस्य हितार्थाय कृष्णो वचनमब्रवीत् ॥१॥
श्री भगवानुवाच-
शुचिर्भूत्वा महाबाहो ! संग्रामाभिमुखे स्थितः ।
पराजयाय शत्रूणां दुर्गास्तोत्रमुदीरय ॥२॥
सञ्जय उवाच-
एवमुक्तोऽर्जुनः सङ्ख्ये वासुदेवेन धीमता ।
अवतीर्य रथात्पार्थः स्तोत्रमाह कृताञ्जलिः ॥३॥
अर्जुन उवाच-
नमस्ते सिद्धसेनानि! आर्ये! मन्दरवासिनि !
कुमारि! कालि! कापालि! कपिले! कृष्णपिङ्गले ॥४॥
भद्रकालि! नमस्तुभ्यं महाकालि! नमोऽस्तु ते ।
चण्डिचण्डे! नमस्तुभ्यं तारिणि! वरवर्णिनि! ॥५॥
कात्यायनि! महाभागे! करालि! विजये! जये! ।
शिखिपिच्छध्वजधरे! नानाभरणभूषिते! ॥६॥
अट्टशूलप्रहरणे! खड्गखेटकधारिणि! ।
गोपेन्द्रस्यानुजे! ज्येष्ठे! नन्दगोपकुलोद्भवे! ॥७॥
महिषासृक्प्रिये नित्यं कौशिकि! पीतवासिनि! ।
अट्टहासे! कोकमुखे! नमस्तेऽस्तु रणप्रिये! ॥८॥
उमे! शाकंभरि! श्वेते! कृष्णे! कैटभनाशिनि! ।
हिरण्याक्षि! विरूपाक्षि! सुधूम्राक्षि! नमोऽस्तु ते ॥९॥
वेदश्रुति! महापुण्ये! ब्रह्मण्ये! जातवेदसि! ।
जम्बूकटकचैत्येषु नित्यं सन्निहितालये ॥१०॥
त्वं ब्रह्मविद्या विद्यानां महानिद्रा च देहिनाम्
स्कन्दमातर्भगवति! दुर्गे! कान्तारवासिनि! ॥११॥
स्वाहाकारः स्वधा चैव कला काष्ठा सरस्वती ।
सावित्री वेदमाता च तथा वेदान्त उच्यते ॥१२॥
स्तुतासि त्वं महादेवि! विशुद्धेनान्तरात्मना ।
जयो भवतु मे नित्यं त्वत्प्रसादाद्रणाजिरे ॥१३॥
कान्तारभयदुर्गेषु भक्तानां चालयेषु च ।
नित्यं वससि पाताले युद्धे जयसि दानवान् ॥१४॥
त्वंजम्भनी मोहिनी माया ह्रीः श्रीस्तथैव च ।
संध्या प्रभावती चैव सावित्री जननी तथा ॥१५॥
तुष्टिः पुष्टिर्धृतिर्दीप्तिश्चन्द्रादित्यविवर्धिनी ।
भूतिर्भूतिमतां सङ्ख्ये वीक्ष्यसे सिद्धचारणैः ॥१६॥
सञ्जय उवाच-
ततः पार्थस्य विज्ञाय भक्तिं मानववत्सला ।
अन्तरिक्षगतोवाच गोविन्दस्याग्रतः स्थिता ॥१७॥
देव्युवाच-
स्वल्पेनैव तु कालेन शत्रूञ्जेष्यसि पाण्डव ।
नरस्त्वमसि दुर्धर्ष नारायणसहायवान् ॥१८॥
अजेयस्त्वं रणेऽरीणामपि वज्रभृतः स्वयम् ।
इत्येवमुक्त्वावरदा क्षणेनान्तरधीयत ॥१९॥
लब्ध्वा वरं तु कौन्तेयो मेने विजयमात्मनः ।
आरुरोह ततः पार्थो रथं परमसंमतम् ।
कृष्णार्जुनावेकरथौ दिव्यौ शङ्खौ प्रदध्मतुः ॥२०॥
य इदं पठते स्तोत्रं कल्य उत्थाय मानवः ।
यक्षरक्षः पिशाचेभ्यो न भयं विद्यते सदा ॥२१॥
न चापि रिपवस्तेभ्यः सर्पाद्या ये च दंष्ट्रिणः ।
न भयं विद्यते तस्य सदा राजकुलादपि ॥२२॥
विवादे जयमाप्नोति बद्धो मुच्यति बन्धनात् ।
दुर्गं तरति चावश्यं तथा चोरैर्विमुच्यते ॥२३॥
संग्रामे विजयेन्नित्यं लक्ष्मीं प्राप्नोति केवलाम् ।
अरोग्यबलसंपन्नो जीवेद्वर्षशतं तथा ॥२४॥
मोहादेतौ न जानन्ति नरनारायणावृषी ।
तव पुत्राः दुरात्मानः सर्वे मन्युवशानुगाः ॥२५॥
प्राप्तकालमिदं वाक्यं कालपाशेन कुण्ठिताः ।
द्वैपायनो नारदश्च कण्वो रामस्तथानघः ।
अवारयंस्तव सुतं न चासौ तद्गृहीतवान् ॥२६॥
यत्र धर्मो द्युतिः कान्तिर्यत्र ह्रीः श्रीस्तथा मतिः ।
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः ॥२७॥
॥इति महाभारतान्तर्गतं दुर्गास्तोत्रं संपूर्णम् ॥
N/A
References : N/A
Last Updated : February 18, 2018
TOP