मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे|
श्रीभारतीतीर्थमहास्वामिभि...

श्रीशारदापञ्चरत्नस्तुतिः - श्रीभारतीतीर्थमहास्वामिभि...

देवी आदिशक्ती माया आहे. तिची अनेक रूपे आहेत. जसे ती जगत्‌कल्याणकारी तसेच दुष्टांचा संहार, करणारीही आहे.
The concept of Supreme mother Goddess is very old in India. The divine mother has been worshipped as 'Shakti' since vedic times.


श्रीभारतीतीर्थमहास्वामिभिः विरचितं
॥श्रीशारदापञ्चरत्नस्तुतिः॥
विद्यामुद्राक्षमालाऽमृतकलशकरा कोटिसूर्यप्रकाशा
जाया पद्मोफ़्भवस्य प्रणतजनततेः सर्वमिष्टं दिशन्ती ।
इन्द्रोपेन्द्रादिवन्द्या त्रिभुवनजननी वाक्सवित्री शरण्या
सेयं श्रीशारदाम्बां सकलसुखकरी मङ्गलानि प्रदद्यात् ॥

॥ इति  ध्यानम्॥
श्रीमच्छङ्करदेशिकेन्द्ररचिते तुङ्गापगातीरगे
शृङ्गेर्याख्यपुरस्थिते सुविमले सन्मौनिसंसेविते ।
पीठे तां रविकोटिदीप्तिसहितां राराजमानां शिवां
राजीवाक्षमुखामरार्चितपदां वन्दे सदा शारदाम् ॥१॥
पादानम्रजनार्तिनाशनिपुणां नादानुसन्धायिनीं
वेदान्तप्रतिपाद्यमानविभवां वादादिशक्तिप्रदाम् ।
विद्याकल्पलतां चतुर्मुखमुखाम्भोजातसूर्यायितां
विद्यातीर्थगुरूत्तमैरहरहः संसेव्यमानां भजे ॥२॥
ईषत्स्मेरमुखाम्बुजां कुचभरानम्रां त्रिलोकावनीं
दैत्यव्रातविनाशिनीं कुचजितप्रावृट्पयोदां शिवाम् ।
संसारार्णवमग्नदीनजनतासन्तापसन्नाशिनीं
वन्दे तां शुभदामनन्यशरणः स्वान्ते सदा शारदाम् ॥३॥
कारुण्यामृतवारिराशिमनिशं केयूरहारैर्वृतां
कामारेः सहजां कराब्जविलसत्कीरां कुबेरार्चिताम् ।
कामक्रोधमुखारिवर्गशमनीं कैवल्यसम्पत्प्रदां
कञ्जोद्भूतमनः प्रियां हृदि भजे भक्त्या सदा शारदाम् ॥४॥
नित्याऽनित्यविवेकदाननिपुणां स्तुत्यां मुकुन्दादिभिः
यत्याकारशशाङ्कमौलिविनुतां सत्यापितस्वाश्रवाम् ।
नत्या केवलमेव तुष्टहृदयां त्यक्त्वाऽन्यदेवानहं
भक्त्या मे हृदयाम्बुजेऽनवरतं वन्दे सदा शारदाम् ॥५॥
॥ इति श्रीशारदापञ्चरत्नस्तुतिः॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP