मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे|
ॐ जटाजूटसमायुक्तामर्द्धेन...

श्री दुर्गादेवीध्यानम् - ॐ जटाजूटसमायुक्तामर्द्धेन...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.

ॐ जटाजूटसमायुक्तामर्द्धेन्दुकृतशेखराम् ।
लोचनत्रयसंयुक्तां पूर्णेन्दुसदृशाननाम् ॥१॥

अतसीपुष्पवर्णाभां सुप्रतिष्ठां सुलोचनाम् ।
नवयौवनसंपन्नां सर्वाभरणभूषिताम् ॥२॥

सुचारुदशनां तद्वत्पीनोन्नतपयोधराम् ।
त्रिभङ्गस्थानसंस्थानां महिषासुरमर्दिनीम् ॥३॥

मृणालायतसंस्पर्शदशबाहुसमन्विताम् ।
त्रिशूलं दक्षिणे ध्येयं खड्गं चक्रं क्रमादधः ॥४॥

तीक्ष्णबाणं तथा शक्तिं दक्षिणेन विचिन्तयेत् ।
खेटकं पूर्णचापं च पाशमङ्कुशमेव च ॥५॥

घण्टां वा परशुं वापि वामतः सन्निवेशयेत् ।
अधस्तान्महिषं तद्वद्विशिरस्कं प्रदर्शयेत् ॥६॥

शिरच्छेदोद्भवं तद्वद्दानवं खड्गपाणिनम् ।
हृदि शूलेन निर्भिन्नं निर्यदान्त्रविभूषितम् ॥७॥

रक्तारक्तीकृताङ्गञ्च रक्तविस्फुरितेक्षणम् ।
वेष्टितं नागपाशेन भ्रुकुटीभीषणाननम् ॥८॥

सपाशवामहस्तेन धृतकेशञ्च दुर्गया ।
वमद्रुधिरवक्त्रं च देव्याः सिंहं प्रदर्शयेत् ॥९॥

देव्यास्तु दक्षिणं पादं समं सिंहोपरिस्थितम् ।
किञ्चिदूर्ध्वं तथा वाममङ्गुष्ठं महिषोपरि ॥१०॥

[प्रसन्नवदनां देवीं सर्वकामफलप्रदाम् ।
शत्रुक्षयकरीं देवीं दैत्यदानवदर्पहाम्] ॥११॥

स्तूयमानञ्च तद्रूपममरैः सन्निवेशयेत् ॥१२॥

उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ।
चण्डा चण्डवती चैव चण्डरूपातिचण्डिका ॥१३॥

आभिः शक्तिभिरष्टाभिः सततं परिवेष्टिताम् ।
चिन्तयेज्जगतां धात्रीं धर्मकामार्थमोक्षदाम् ॥१४॥

N/A

References : N/A
Last Updated : January 03, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP