शङ्करदिग्विजयम् - अथ एकादशः सर्गः

शङ्करदिग्विजयम्


तत्रैकदाच्छादितनैजदोषः पौलस्त्यवत्कल्पितसाधुवेषः ।
निर्मानमायं स्थितकार्यशेषः कापालिकः कश्चिदनल्पदोषः ॥१॥

असावपश्यन्मदनाद्यवश्यं वश्येन्द्रियाश्वैर्मुनिभिर्विमृग्यम् ।
आदिश्य भाष्यं सपदि प्रशस्यमासीनमाश्रित्य मुनिं रहस्यम् ॥२॥

दृष्ट्वैव हृष्टः स चिरादभीष्टं निर्धार्य संसिद्धमिव स्वमिष्टम् ।
महद्विशिष्टं निजलाभतुष्टं विस्पष्टमाचष्ट च कृत्यशिष्टम् ॥३॥

गुणांस्तवाकर्ण्य मुनेऽनवद्यान्सार्वज्ञ्यसौशील्यदयालुताद्यान् ।
द्रष्टुं समुत्कण्ठितचित्तवृत्तिर्भवन्तमागां विदितप्रवृत्तिः ॥४॥

त्वमेक एवात्र निरस्तमोहः पराकृतद्वैतिवचःसमूहः ।
आभासि दूरीकृतदेहमानः शुद्धाद्वये योजितसर्वमानः ॥५॥

परोपकृत्यै प्रगृहीतमूर्तिरमर्त्यलोकेष्वपि गीतकीर्तिः ।
कटाक्षलेशार्दिवसज्जनार्तिः सदुक्तिसम्पादितविश्वपूर्तिः ॥६॥

गुणाकरत्वाद्भुवनैकमान्यः समस्तवित्वादभिमानशून्यः ।
विजित्वरत्वाद्गलहस्तितान्यः स्वात्मप्रदत्वाच्च महावदान्यः ॥७॥

अशेषकल्याणगुणालयेषु परावरज्ञेषु भवादृशेषु ।
कार्यार्थिनः क्वाप्यनवाप्य कामं न यान्ति दुष्प्रापमपि प्रकामम् ॥८॥

तस्मान्महत्कार्यमहं प्रपद्य निर्वर्तितं सर्वविदा त्वयाऽद्य ।
कपालिनं प्रीणयितुं यतिष्ये कृतार्थमात्मानमतः करिष्ये ॥९॥

अनेन देहेन सहैव गन्तुं कैलासमीशेन समं च रन्तुम् ।
अतोषयं तीव्रतपोभिरुग्रं सुदुष्करैरब्दशतं समग्रम् ॥१०॥

तुष्टोऽब्रवीन्मां गिरिशः पुमर्थमभीप्सितं प्राप्स्यसि मत्प्रियार्थम् ।
जुहोषि चेत्सर्वविदः शिरो वा हुताशने भूमिपतेः शिरो वा ॥११॥

एतावदुक्त्वाऽन्तरधान्महेशस्तदादि तत्सङ्ग्रहणे धृताशः ।
चराम्यथापि क्षितिपो न लब्धो न सर्ववित्तत्र मयोपलब्धः ॥१२॥

दिष्टयाऽद्य लोकस्य हिते चरन्तं सर्वज्ञमद्राक्षमहं भवन्तम् ।
इतः परं सेत्स्यति मेऽनुवन्धः सन्दर्शनान्तो जनस्य बन्धः ॥१३॥

मूर्धाभिषिक्तस्य शिरःकपालं मुनीशितुर्वा मम सिद्धिहेतुः ।
आद्यं पुनर्मे मनसाऽप्यलभ्यं ततःपरं तत्रभवान् प्रमाणम् ॥१४॥

शिरःप्रदानेऽद्भुतकीर्तिलाभस्तवापि लोके मम सिद्धिलाभः ।
आलोच्य देहस्य च नश्वरत्वं यद्रोचते सत्तम तत्कुरु त्वम् ॥१५॥

तद्याचितुं न क्षमते मनो मे को वेष्टदायि स्वशरीरमुज्झतु ।
भवान्विरक्तो न शरीरमानी परोपकाराय घृतात्मदेहः ॥१६॥

जनाः परक्लेशकथानभिज्ञा नक्तं दिवा स्वार्थकृतात्मचित्ताः ।
रिपुं निहन्तुं कुलिशाय वज्री दाधीचमादात्किल वाञ्छितास्थि ॥१७॥

दधीचिमुख्याः क्षणिकं शरीरं त्यक्त्वा परार्थे स्म यशः शरीरम् ।
प्राप्य स्थिरं सर्वगतं जगन्ति गुणैरनध्यैः किल रञ्जयन्ति ॥१८॥

वपुर्धरन्ते परतुष्टिहेतोः केचित्प्रशान्ता दयया परीताः ।
अस्मादृशाः केचन सन्ति लोके स्वार्थैकनिष्ठा दयया विहीनाः ॥१९॥

परोपकारं न विनाऽस्ति किञ्चित्प्रयोजनं ते विधुतैषणस्य ।
अस्मादृशाः कामवशास्तु युक्तायुक्ते विजानन्ति न हन्त योगिन् ॥२०॥

जीमूतवाहो निजजीवदायी दधीचिरप्यस्थि मुदा ददानः ।
आचन्द्रतारार्कमपायशुन्यं प्राप्तौ यशः कर्णपथं गतौ हि ॥२१॥

यदप्यदेयं ननु देहवद्भिर्मयाऽर्थितं गर्हितमेव सद्भिः ।
तथाऽपि सर्वत्र विरागवद्भिः किमस्त्यदेयं परमार्थविद्भिः ॥२२॥

अखण्डमूर्धन्यकपालमाहुः संसिद्धिदं साधकपुङ्गवेभ्यः ।
विना भवन्तं बहवो न सन्ति तद्वत्पुमांसो भगवन् पृथिव्याम् ॥२३॥

प्रयच्छ शीर्षं भगवन्नमः स्वादितीरयित्वा पतितं पुरस्तात् ।
तमब्रवीद्वीक्ष्य सुधीरघस्तात्कृपालुरावृत्तमनाः समस्तात् ॥२४॥

नैवाभ्यसुयामि वचस्त्वदीयं प्रीत्या प्रयच्छामि शिरोऽस्मदीयम् ।
को वाऽर्थिसात्माज्ञतमो नृकायं जानन्न कुर्यादिहि(ह?) बह्वपायम् ॥२५॥

पतत्यवश्यं हि विकृष्याणं कालेन यत्नादपि रक्ष्यमाणम् ।
वर्मामुना सिध्यति चेत्परार्थः स एव मर्त्यस्य परः पुमर्थः ॥२६॥

वर्ते विविक्तेऽधिसमाधि सिद्धिविन्मिथः समायाहि करोमि ते मतम् ।
नाहं प्रकाशं वितरीतुमुत्सहे शिरःकपालं विजनं समाश्रय ॥२७॥

शिष्या विदन्ति यदि चिन्तितकार्यमेतत्
योगिन् मदेकशरणा विहतिं विदध्युः ।
को वा सहेत वपुरेतदपोहितुं स्वं
को वा क्षमेत निजनाथशरीरमोक्षम् ॥२८॥

तौ संविदं वितनुतामिति सम्प्रदृष्टौ
योगी जगाम मुदितो निलयं मनस्वी ।
श्रीशङ्करोऽपि निजधामनि जोषमास
प्रोचे न किञ्चिदपि भावपसौ मनोगम् ॥२९॥

शूली त्रिपुण्ड्री पुरतोऽवलोकी कङ्कालमालाकृतगात्रभूषः ।
संरक्तनेत्रो मदघूर्णिताक्षो योगी ययौ देशिकवासभूमिम् ॥३०॥

शिष्येषु शिष्टेषु विदुग्गेषु स्नानादिकार्याय विविक्तभाजि ।
श्रीदेशिकेन्द्रे तु सनन्दनाख्यभीत्या स्वदेहं व्यवधाय गूढे ॥३१॥

तं भैरवाकारमुदीक्ष्य देशिकस्त्यक्तुं शरीरं व्यधित स्वयं मनः ।
आत्मानमात्मन्युदयुङक्त यो जपन् समाहितात्मा करणानि संहरन् ॥३२॥

तं भैरवोऽलोकत लोकपूज्यं स्वसौख्यतुच्छीकृतदेवराज्यम् ।
योगीशमासादितनिर्विकल्पं सनत्सुजातप्रभृतेरनल्पम् ॥३३॥

जत्रुप्रदेशे चिबुकं निधाय व्यात्तास्यमुत्तानकरौ निधाय
जानूपरि प्रेक्षितनासिकान्तं विलोचने सामि निमील्य कान्तम् ॥३४॥

आसीनमुच्चीकृतपूर्वगात्रं सिद्धासनं शेषितबोधमात्रम् ।
चिन्मात्रविन्यस्तहृषीकवर्गे समाधिविस्मारितविश्वसर्गम् ॥३५॥

विलोक्य तं हन्तुमपास्तशङ्कः स्वबुद्धिपूर्वार्जिततीव्रपङ्कः ।
प्रापोद्यतासिः सविधं स यावद्विज्ञातवान् पद्मपदोऽपि तावत् ॥३६॥

त्रिशूलमुद्य(म्य?)निहन्तुकामं गुरुं यतात्मा समुदैक्षतान्तः ।
स्थितश्चुकोप ज्वलिताग्निकल्पः स पद्मपादः स्वगुरोहितैषी ॥३७॥

स्मरन्नयैष स्मरदार्तिहारि प्रह्लादवश्यं परमं महस्तत् ।
स मन्त्रसिद्धो नृहरेर्नृसिंहो भूत्वा ददर्शोग्रदुरीहचेष्टाम् ॥३८॥

स तत्क्षणक्षुब्धनिजस्वभावः प्रवृद्धरुड् विस्मृतमर्त्यभावः ।
आविष्कृतात्युग्रनृसिंहभावः समुत्पपातातुलितप्रभावः ॥३९॥

सटाच्छटास्फोटितमेघसङ्घस्तीव्रारवत्रासितभूतसङ्घः
संवेगसम्मूर्च्छितलोकसङ्घः किमेतदित्याकुलदेवसङ्घः ॥४०॥

क्षुभ्यत्समुद्रं समुदूढरौद्रं रटन्निशाटं स्फुटदद्रिकूटम् ।
ज्वळद्दिशान्तं प्रचलद्धरान्तं प्रभ्रश्यदक्षं दलदन्तरिक्षम् ॥४१॥

जवादभिद्रुत्य शितस्वरूग्रैर्दैत्येश्वरस्येव पुरा नखाग्रैः ।
क्षिपत्रिशुलस्य स तस्य वक्षो ददार विक्षिप्तसुरारिपक्षः ॥४२॥

तत्तादृगत्युग्रनखायुधाग्र्यो दंष्टान्तरप्रोतदुरीहदेहः ।
निन्ये तदानीं नृहरिर्विदीर्णद्युपट्टनाट्टालिकमट्टहासम् ॥४३॥

आकर्णयंस्तं निनदं बहिर्गता उपागमन्नाकुलचित्तवृत्तयः ।
व्यलोकयन् भैरवमग्रतो मृतं ततो विमुक्तं च गुरुं सुखोषितम् ॥४४॥

प्रह्लदवश्यो (प्रह्लादवश्यो?) भगवान् कथं वा प्रसादितोऽयं नृहरिस्त्वयेति ।
सविस्मयैः स्निग्धजनैः स पृष्टः सनन्दनः सस्मितमित्यवादीत् ॥४५॥

पुरा किलाहं बलभूधराग्रे पुण्यं समाश्रित्य किमप्यरण्यम् ।
भक्तैकवश्यं भगवन्तमेनं ध्यायन्ननेकान् दिवसाननैषम् ॥४६॥

किमर्थमेको गिरिगह्वरेऽस्मिन् वाचंयम त्वं वससीति शश्वत् ।
केनापि पृष्टोऽत्र किरातयूना प्रत्युत्तरं प्रागहमित्यवोचम् ॥४७॥

आकण्ठमत्यद्भुतमर्त्यमूर्तिः कण्ठीरवात्मा परतश्च कश्चित् ।
मृगो वनेऽस्मिन् मृगयो वसन्मे भवत्यहो नाक्षिपथे कदापि ॥४८॥

इतीरयत्येव मयि क्षणेन वनेचरोऽयं प्रविशन् वनान्तम् ।
निबध्य गाढं नृहरिं लताभिः पुण्यैरगण्यैः पुरतो न्यधान्मे ॥४९॥

महर्षिभिस्त्वं मनसाप्यगम्यो वनेचरस्यैव कथं वशेऽभूः ।
इत्यद्भुताविष्टहृदा मयाऽसौ विज्ञाप्यमानो विभुरित्यवादीत् ॥५०॥

एकाग्रचित्तेन यथाऽमुनाहं ध्यातस्तथा घातृमुखैर्न पूर्वैः ।
नोपाळभेथास्त्वमितीरयन्मे कृत्वा प्रसादं कृतवांस्तिरोधिम् ॥५१॥

आकर्ण्य तां पद्मपदस्य वाणीमानन्दमग्नैरखिलैरभावि ।
जगर्ज चोच्चैर्जगदण्डभाण्डं भूम्ना स्वधाम्ना दलयन् नृसिंहः ॥५२॥

ततस्तदार्भाटचलत्समाधिः स्वात्मप्रबोधोन्मथितत्र्युपाधिः ।
उन्मील्य नेत्रे विकरालवक्त्रं व्यलोकयन्मानवपञ्चवक्त्रम् ॥५३॥

चन्द्रांशुसोदर्यसटाजटालं तार्तीयनेत्राब्जकनन्निटालम् ।
सहोद्यदुष्णांशुसहस्रभासं विध्यण्डविस्फोटकुदट्टहासम् ॥५४॥

नखाग्रनिर्भिन्नकपालिवक्षःस्थलोच्चलच्छोणितपङ्किलाङ्कम् ।
श्रीवत्सवत्सं गलवैजयन्तीश्रीरत्नसंस्पर्धितदन्त्रमालम् ॥५५॥

सुरासुरत्रासकरातिघोरस्वाकारसारव्यथिताण्डकोशम् ।
दंष्ट्र(ष्ट्रा?)करालानननिर्यदग्निज्वालालिसंलीढनभोवकाशम् ॥५६॥

स्वरोमकूपोद्गतविस्फुलिङ्गप्रचारसन्दीपितसर्वलोकम् ।
जम्भद्विडुज्जृम्भितशम्भुदम्भसंस्तम्भनारम्भकदन्तपेषम् ॥५७॥

मा भूदकाण्डे प्रलयो महात्मन् कोपं नियच्छेति गृणद्भिरारात् ।
ससाध्वसैः प्राञ्जलिभिः सगात्रकम्पैर्विरिञ्च्यादिभिरर्थ्यमानम् ॥५८॥

विलोक्य विद्युच्चपलोग्रजिह्वं यतिक्षितीशः पुरतो नृसिंहम् ।
अभीतिरैडिष्ट तदोपकण्ठं स्थितोऽपि हर्षाश्रुपिनद्धकण्ठः ॥५९॥

नरहरे हर कोपमनर्थदं तव रिपुर्निहतो भुवि वर्तते ।
कुरु कृपां मयि देव सनातनीं जगदिदं भयमेति भवदृशा ॥६०॥

तव वपुः किल सत्वमुदाहृतं तव हि कोपनमण्वपि नोचितम् ।
तदिह शान्तिमवाप्नुहि शर्मणे हरगुणं हरिराश्रयसे कथम् ॥६१॥

सकलभीतिषु दैवतम स्मरन् सकलभीतिमपोह्य सुखी पुमान् ।
भवति किं प्रवदामि तवेक्षणे परमदुर्लभमेव तवेक्षणम् ॥६२॥

स्मृतवतस्तव पादसरोरुहं मृतवतः पुरुषस्य विमुक्तता ।
तव कराभिहतोऽमृत भैरवो न हि स एष पुनर्भवमेष्यति ॥६३॥

दितिजसूनुममुं व्यसनार्दितं सकृदरक्षदुदारगुणो भवान् ।
सकलगत्वमुदीरितमस्फुटं प्रकटमेव विधित्सुरभूत्पुरः ॥६४॥

सृजसि विश्वमिदं रजसाऽऽवृतः स्थितिविधौ श्रितसत्व उदायुधः ।
अवसि तद्धरणे तमसाऽऽवृतो हरसि देव तदा हरसंज्ञितः ॥६५॥

तव जनिर्न गुणास्तव तत्त्वतो जगदनुग्रहणाय भवादिकम् ।
तव पदं खलु वाङ्मनसातिगं श्रुतिवचश्चकितं तव बोधकम् ॥६६॥

नरहरे तव नामपरिश्रवात् प्रमथगुह्यकदुष्टपिशाचकाः ।
अपसरन्ति विभोऽसुरनायका न हि पुरःस्थितये प्रभवन्त्यमी ॥६७॥

त्वमेव सर्गस्थितिहेतुरस्य त्वमेव नेता नृहरेऽखिलस्य ।
त्वमेव चिन्त्यो हृदयेऽनवद्ये त्वामेव चिन्मात्रमहं प्रपद्ये ॥६८॥

हतो वराको हि रुषं नियच्छ विश्वस्य भूमन्नभयं प्रयच्छ ।
एते हि देवाः शममर्थयन्ते निरीक्ष्य भीताः प्रतिखेदयन्ते ॥६९॥

द्रष्टुं न शक्या हि तवानुकम्पाहीनैर्जनैर्निहुतकोटिशम्पां
मूर्तिं तदात्मन्नुपसंहरेमां पाहि त्रीलोकीं समतीतसीमाम् ॥७०॥

कल्पान्तोज्जृम्भमाणप्रमथतरिवृढप्रौढलालाटवह्नि-
ज्ज्वालालीढत्रिलोकीजनितचटचटाध्वानधिक्कारधुर्यः ।
मध्ये ब्रह्माण्डभाण्डोदरकुहरमनैकान्त्यदुःस्थामवस्थां
स्त्यानस्त्यानो ममायं दलयतु दुरितं श्रीनृसिंहाट्टहासः ॥७१॥

मध्ये व्यानद्धवातन्धयगुणवलनाधानमन्थानभूभृ-
न्मन्थेनोत्क्षिप्तदुग्धोदधिलहरिमिथः(था?)स्फालनाचारघोरः ।
कल्पान्तोन्निद्ररुद्रोच्चतरडमरुकध्वानबद्धाभ्यसूयो
घोषोऽयं कर्णघोरः क्षपयतु नृहरे रंहसां संहतिं नः ॥७२॥

क्षुन्दानो मङ्क्षु कल्पावधिसमयसमुज्जम्भदम्भोदगुम्भ-
स्फुर्जद्दम्भोलिसङ्घस्फुरदुरुरटिताखर्वगर्वप्ररोहान् ।
क्रीडाक्रोडेन्द्रघोणासरभसविसरद्धोरघूर्घोरवश्री-
र्गम्भीरस्तेऽटृहासो हर हर नृहरे रहंसाऽहांसि हन्यात् ॥७३॥

एवं विशिष्टनुतिभिर्नृहरौ प्रशान्ते स्वं भावमेत्य मुनिरेष बभूव शान्तः ।
स्वभानुभूतमित्रव शान्तमनाः स्मरंस्तमात्मानमात्मगुरवे प्रणतिं चकार ॥७४॥

चारित्र्यमेतत्प्रयतस्त्रिसन्ध्यं भक्त्या पठेद्यः श‍ृणुयादवन्ध्यम् ।
तीर्त्वाऽपमृत्युं प्रतिपद्य भक्ति स भुक्तभोगः समुपैति मुक्तिम् ॥७५॥

इति श्रीमाधवीये तदुग्रभैरवनिर्जयः ।
सङ्क्षेपशङ्करजये सर्ग एकादशोऽभवत् ॥११॥

आदितः लोकाः १२२३।

N/A

References : N/A
Last Updated : January 23, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP