शङ्करदिग्विजयम् - अथ प्रथमः सर्गः

शङ्करदिग्विजयम्

प्रणम्य परमात्मानं श्रीविद्यातीर्थरूपिणम् ।
प्राचीनशङ्करजये सारः सङ्गृह्यते स्फुटम् ॥१॥

यद्वद्धटानां पटलो विशालो विलोक्यतेऽल्पे किल दर्पणेऽपि ।
तद्वन्मदीये लघुसङ्ग्रहेऽस्मिन्नुद्वीवीक्ष्यतां शाङ्करवाक्यसारः ॥२॥

यथाऽतिरुच्ये मधुरेऽपि रुच्युत्पादाय रुच्यान्तरयोजनाऽर्हा ।
तथेष्यतां प्राकू-कवि-हृद्य-पद्यष्वेषापि मत्पद्य-निवेशभङ्गी ॥३॥

स्तुतोऽपि सम्यक् कविभिः पुराणैः कृत्याऽपि नस्तुष्यतु भाष्यकारः ।
क्षीराब्धिवासी सरसीरुहाक्षः क्षीरं पुनः किं चकमे न गोष्ठे ॥४॥

पयोब्धिविवरीसुनिःसृतसुधाझरीमाधुरी-
धुरीणभणिताधरीकृतफणाधराधीशितुः ।
शिवशङ्कराभिधजगदूरोः प्रायशो
यशो हृदयशोधकं कलयितुं समीहामहे ॥५॥

क्वेमे शङ्करसद्गुरोर्गुणगणा दिग्जालकूलङ्कषाः
कालोन्मीलितमालतीपरिमलावष्टम्भमुषिटिन्धयाः ।
क्वाहं हन्त तथाऽपि सद्गुरुकृपापीयूषपारम्परी-
मग्नोन्मग्नकटाक्षवीक्षणबलादस्ति प्रशस्ताऽर्हता ॥६॥

धन्यम्मन्यविवेकशून्यसुजनम्मन्याब्धिकन्यानटी-
नृत्योन्मत्तनराधमाधमकथांसम्मर्ददुष्कर्दमैः ।
दिग्धां मे गिरमद्य शङ्करगुरुक्रीडासमुद्यद्यशः-
पारावारसमुच्चलज्जलझरैः सङ्क्षालयामि स्फुटम् ॥७॥

वन्ध्यासुनुखरी विषाणसदृशक्षुद्रक्षितीन्द्रक्षमा-
शौर्यौदार्यदयादिवर्णनकळादुर्वासनावासिताम् ।
मद्वाणीमधिवासयामि यमिनस्त्रैलोक्यरङ्गस्थली-
नृत्यत्कीर्तिनटीपटीरपटलीचूर्णैर्विकीर्णैः क्षितौ ॥८॥

पीयूषद्युतिखण्डमण्डनकृपारूपान्तर श्री गुरु-
प्रेमस्थेमसमर्हणार्हमधुरव्याहारसूनोत्करः ।
प्रौढोऽयं नवकालिदासकवितासन्तानसन्तानको
दयादद्य समुद्यतः सुमनसामामोदपारम्परीम् ॥९॥

सामोदरैरनुमोदिता मृगमदैरानन्दिता चन्दनै-
र्मन्दारैरभिवन्दिता प्रियगिरा काश्मीरजैः स्मेरिता ।
वागेषा नवकालिदासविदुषो दोषोज्झिता दुष्कवि-
व्रातैर्निष्करुणैः क्रियेत विकृता धेनुस्तुरुष्कैरिव ॥१०॥

यद्वा दीनदयालवः सहृदयाः सौजन्यकल्लोलिनी-
दोलान्दोलनखेलनैकरसिकस्वान्ताः समन्तादमी ।
सन्तः सन्ति परोक्तिमौक्तिकजुषः किं चिन्तयाऽनन्तया
यद्वा तुष्यति शङ्करः परगुरुः कारुण्यरत्नाकरः ॥११॥

उपक्रम्य स्तोतुं कतिचन गुणाञ्छङ्करगुरोः
प्रभग्नाः श्लोकार्धे कतिचन तदधर्धिरचने ।
अहं तुष्टूषुस्तानहह कलये शीतकिरणं
कराभ्यामाहर्तुं व्यवसितमतेः साहसिकताम् ॥१२॥

तथाऽप्युज्जृम्भन्ते मयि विपुलदुग्धाब्धिलहरी-
ललत्कल्लोलालीलसितपरिहासैकरसिकाः ।
अमी मूकान्वाचालयितुमपि शक्ता यतिपतेः
कटाक्षाः किं चित्रं भृशमघटिताभीष्टघटने ॥१३॥

अस्मज्जिहृवाग्रसिहासनमुपनयतु स्वोक्तिधारामुदारास
अद्वताचार्यपादस्तुतिकृतसुकृतोदारता शारदास्बा ।
नृत्यन्मृत्युञ्जयोच्चैर्मुकुटतटकुटीनिःख्रवत्स्वःस्रवन्ती-
कल्लोलोद्वेलकोलाहलमदलरीखण्डिपाण्डित्यहृद्याम् ॥१४॥

क्वेदं शङकरसद्गुरोः सुचरितं क्वाहं वराकी कथं
निबन्ध्नासि चिरार्जितं मम यशः किं मज्जयस्यम्बुघौ ।
इत्युक्त्वा चपलां पलायितवतीं वाचं नियुङ्क्ते बलात्
प्रत्याहृत्य गुणस्तुतौ कविगणश्चित्रं गुर्र्गौरवम ॥१५॥

रूक्षैकाक्षरवाङ्निघण्टुशरणैरौणादिकप्रत्यय-
प्रायैर्हन्त यङन्तदन्तुरतरैर्दुर्बोधदूरान्वयेः ।
क्रूराणां कवितावतां कतिपयैः कष्टेन कृष्टैः पदै-
र्हाहास्याद्वशगा किरातविततेरेणीव वाणी मम ॥१६॥

नेता यत्रोल्लसति भगवत्पादसंज्ञो महेशः
शान्तिर्यत्र प्रकचति रसः शेषवानुज्ज्वलाद्येः ।
यत्राविद्याक्षतिरपि फलं तस्य काव्यस्य कर्ता
धन्यो व्यासाचलकविवरस्तत्कृतिज्ञाश्च धन्याः ॥१७॥

तत्रादिम उपोद्धातो द्वितेये तु तदुद्भवः ।
तृतीये तत्तदमृतान्धोवतारनिरूपणम् ॥१८॥

चतुर्थसर्गे तच्छुद्धाष्टमप्राक्चरितं स्थितम् ।
पञ्चमे तयोग्यसुखाश्रमप्राप्तिनिरूपणम् ॥१९॥

महताऽनेहसा यैषा सम्प्रदायागता गता ।
तस्याः शुद्धात्मविद्यायाः षष्ठे सर्गे प्रतिष्ठितिः ॥२०॥

तद्व्यासाचार्यसन्दर्शविचित्रं सप्तमे स्थितम् ।
स्थितोऽष्टमे मण्डनार्यसंवादो नवमे मुनेः ॥२१॥

वाणीसाक्षिकसार्वज्ञनिर्वाहोपायचिन्तनम् ।
दशमे योगशक्त्या भूपतिकायप्रवेशनम् ॥२२॥

बुद्धवा मीनध्वजकलास्तत्प्रसङ्गप्रपञ्चनम् ।
सर्ग एकादशे तूग्रभैरवाभिधनिर्जयः ॥२३॥

द्वादशे हस्तधात्र्यार्यतोटकोभयसंश्रयः ।
वार्तिकान्तब्रह्मविद्याचालनं तु त्रयोदशे ॥२४॥

चतुर्दशे पद्मपादतीर्थयात्रानिरूपणम् ।
सर्गे पञ्चदशे तूक्तं तदाशाजयकौतुकम् ॥२५॥

षोडशे शारदापीठवासस्तस्य महात्मनः ।
इति षोडशभिः सर्गैर्व्युत्पाद्या शाङ्करी कथा ॥२६॥

सैषा कलिमलच्छेत्री सकृच्छ्रुत्याऽपि कामदा ।
नानाप्रश्नोत्तरै रम्या विदामारभ्यते मुदे ॥२७॥

एकदा देवता रूप्याचलस्थमुपतस्थिरे ।
देवदेवं तुषारांशुमिव पूर्वाचलस्थितम् ॥२८॥

प्रसादानुमितस्वार्थसिद्धयः प्रणिपत्य तम् ।
मुकुलीकृतहस्ताब्जा विनयेन व्यजिज्ञपन् ॥२९॥

विज्ञातमेव भगवन् विद्यते यद्धिताय नः ।
वञ्चयत् सुगतान् बुद्धवपुर्धारी जनार्दनः ॥३०॥

तत्प्रणीतागमालम्बैर्बौद्धैर्दर्शनदूषकैः ।
व्याप्तेदानीं प्रभो धात्री रात्रिः सन्तमसैरिव ॥३१॥

वर्णाश्रमसमाचाराद्विषन्ति ब्रह्मविद्विषः ।
ब्रुवन्त्याम्नायवचसां जीविकामात्रतां प्रभो ॥३२॥

न सन्ध्यादीनि कर्माणि न्यासं वा न कदाचन ।
करोति मनुजः कश्चित् सर्वे पाखण्डतां गताः ॥३३॥

*श्रुते पिदधति श्रोत्रे क्रतुरित्यक्षरद्वये ।
क्रियाः कथं प्रवर्तेरन् कथं क्रतुभुजो वयम् ॥३४॥

शिवविष्ण्वागमपरैर्लिंङ्गचक्रादिचिह्नितैः ।
पाखण्डैः कर्म संन्यस्तं कारुण्यमिव दुर्जनैः ॥३५॥

अनन्येनैव भावेन गच्छन्त्युत्तमपूरुषम् ।
श्रुतिः साध्वी मदक्षीबैः का वा शाक्यैर्न दूषिता ॥३६॥

सद्यः कृत्तद्विजशिरःपङ्कजार्चितभैरवैः ।
न ध्वस्ता लोकमर्यादा का वा कापालिकाधमैः ॥३७॥

अन्येऽपि बहवो मार्गाः सन्ति भूमौ सकण्टकाः ।
जनैर्येषु पदं दत्त्वा दुरन्तं दुःखमाप्यते ॥३८॥

तद्भवान् लोकरक्षार्थमुत्साद्य निखिलान् खलान् ।
वर्त्म स्थापयतु श्रौतं जगद्येन सुखं व्रजेत् ॥३९॥

इत्युक्त्वोपरन् देवानुवाच गिरिजाप्रियः ।
मनोरथं पूरयिष्ये मानुष्यमवलम्ब्य वः ॥४०॥

दुष्टाचारविनाशाय धर्मसंस्थापनाय च ।
भाष्यं कुर्वन्ब्रह्मसूत्रतात्पर्यार्थविनिर्णयम् ॥४१॥

मोहनप्रकृतिद्वैतध्वान्त ध्याह्नभानुभिः ।
चतुर्भिः सहितः शिष्यैश्चतुरैर्हरिवद्भुजैः ॥४२॥

यतीन्द्रः शङ्करो नाम्ना भविष्यामि महीतले ।
मद्वत्तथा भवन्तोऽपि मानुषीं तनुमाश्रिताः ॥४३॥

तं मामनुसरिष्यन्ति सर्वे त्रिदिववासिनः ।
तदा मनोरथः पूर्णो भवतां स्यान्न संशयः ॥४४॥

ब्रुवन्नेवं दिविषदः कटाक्षानन्यदुर्लभान् ।
कुमारे निदधे भानुः किरणानिव पङ्कजे ॥४५॥
(footnote कुत्सितो मारः यस्मात् सः कुमारः ।
अथवा कुत्सितान् मारयतीति कुमारः इति कुमारशब्दनिर्वचनम् ॥)

क्षीरनीरनिधेर्वीचिसचिवान प्राप्य तान् गुहः ।
कटाक्षान्मुमुदे रश्मीनुदन्यानैन्दवानिव ॥४६॥

अवदन्नन्दनं स्कन्दममन्दं चन्द्रशेखरः ।
दन्तचन्द्रातपानन्दिवृन्दारकचकोरकः ॥४७॥

श‍ृणु सौम्य वचः श्रेयो जगदुद्धारगोचरम् ।
काण्डत्रयात्मके वेदे प्रोद्धृते स्याद् द्विजोद्धृतिः ॥४८॥

तद्रक्षणे रक्षितं स्यात्सकलं जगतीतलम् ।
तदधीनत्वतो वर्णाश्रमधर्मततेस्ततः ॥४९॥

इदानीमिदमुद्धार्यमितिवृत्तमतः पुरा ।
मम गृहाशयविदौ विष्णुशेषौ समीपगौ ॥५०॥

मध्यमं काण्डमुद्धर्तुमनुज्ञातौ मयैव तौ ।
अवतीर्याशतो भूमौ सङ्कर्षणपतञ्जली ॥५१॥

मुनी भूत्वा मुदोपास्तियोगकाण्डकृतौ स्थितौ ।
अग्रिमं ज्ञानकाण्डं तूद्धरिष्यामीति देवताः ॥५२॥

सम्प्रति प्रतिजाने स्म जानात्येव भवानपि ।
जैमिनीयनयाम्भोधेः शरत्पर्वशशी भव ॥५३॥

विशिष्टं कर्मकाण्डं त्वमुद्धर ब्रह्मणः कृते ।
सुब्रह्मण्य इति ख्याति गमिष्यसि ततोऽधुना ॥५४॥

नैगमीं कुरु मर्यादामवतीर्य महीतले ।
निर्जित्य सौगतान्सर्वानाम्नायार्थविरोधिनः ॥५५॥

ब्रह्माऽपि ते सहायार्थं मण्डनो नाम भूसुरः ।
भविष्यति महेन्द्रोऽपि सुधन्वा नाम भूमिपः ॥५६॥

तथेति प्रतिजग्राह विधेरपि विधायिनीम् ।
बुधानीकपतिर्वाणीं सुधाधारामिव प्रभोः ॥५७॥

अथेन्द्रो नृपतिर्भूत्वा प्रजा धर्मेण पालयन् ।
दिवं चकार पृथिवीं स्वपुरीममरावतीम् ॥५८॥

सर्वज्ञोऽप्यसतां शास्त्रे कृत्रिमश्रद्धयाऽन्वितः ।
प्रतीक्षमाणः क्रौञ्चारिं मेलयामास सौगतान् ॥५९॥

ततः स तारकारातिरजनिष्ट महीतले ।
भट्टपादाभिधा यस्य भूषा दिक्सुदृशामभूत् ॥६०॥

स्फुटयन्वेदतात्पर्यमभाज्जैमिनिसूत्रितम् ।
सहस्रांशुरिवानूरुव्यञ्चितं भासयञ्जगत् ॥६१॥

राज्ञः सुधन्वनः प्राप नगरीं स जयन्दिशः ।
प्रत्युद्गम्य क्षितीन्द्रोऽपि विधिवत्तमपूजयत् ॥६२॥

सोऽभिनन्द्याशिषा भूपमासीनः काञ्चनासने ।
तां सभां शोभयामास सुरभिर्द्यवनीमिव ॥६३॥

सभासमीपविटपिश्रितकोकिलकूजितम् ।
श्रुत्वा जगाद तद्व्याजाद्राजानं पण्डिताग्रणीः ॥६४॥

मलिनैश्चेन्न सङ्गस्ते नीचैः काककुलैः पिक ।
श्रुतिदूषकनिर्ह्रादैः श्लाघनीयस्तदा भवेः ॥६५॥

षडभिज्ञा निशम्येमां वाचं तात्पर्यगर्भिताम् ।
नितरां चरणस्पृष्टा भुजङ्गा इव चुक्रुधुः ॥६६॥

छित्त्वा युक्तिकुठारेण बुद्धसिद्धान्तशाखिनम् ।
स तद्ग्रन्थेन्धनैश्चीर्णैः क्रोधज्वालामवर्धयत् ॥६७॥

सा सभा वदनैस्तेषां रोषपाटलकान्तिभिः ।
बभौ बालातपाताम्रैः सरसीव सरोरुहैः ॥६८॥

उपन्यस्यत्सु साक्षेपं खण्डयत्सु परस्परम् ।
तेषूदतिष्ठन्निर्घोषो भिन्दन्निव रसातलम् ॥६९॥

अधः पेतुर्बुधेन्द्रेण क्षताः पक्षेषु तत्क्षणम् ।
व्यूढकर्कशतर्केण तथागतधराधराः ॥७०॥

स सर्वज्ञपदं विज्ञोऽसहमान इव द्विषाम् ।
चकार चित्रविन्यस्तानेतान् मौनविभूषितान् ॥७१॥

ततः प्रक्षीणदर्पेषु बौद्धेषु वसुधाधिपम् ।
बोधयन् बहुधा वेदवचांसि प्रशशंस सः ॥७२॥

बभाषेऽथ घराधीशो विद्यायत्तौ जयाजयौ ।
यः पतित्वा गिरेः श‍ृङ्गादव्यग्रस्तन्मतं ध्रुवम् ॥७३॥

तदाकर्ण्य मुखान्यन्ये परस्परमलोकयन् ।
द्विजाग्र्यस्तु स्मरन् वेदानारुरोह गिरेः शिरः ॥७४॥

यदि वेदाः प्रमाणं स्युर्भूयात्काचिन्न मे क्षतिः ।
इति घोषयता तस्मान्न्यपाति सुमहात्मना ॥७५॥

किमु दौहित्रदत्तेऽपि पुण्ये विलयमास्थिते ।
ययातिश्च्यवते स्वर्गात्पुनरित्यूचिरे जनाः ॥७६॥

अपि लोकगुरुः शैलात्तूलपिण्ड इवापतत् ।
श्रुतिरात्मशरण्यानां व्यसनं नोच्छिनत्ति किम् ॥७७॥

श्रुत्वा तदद्भुतं कर्म द्विजा दिग्भ्यः समाययुः ।
घनघोषमिवाकर्ण्य निकुञ्जेभ्यः शिखावळाः ॥७८॥

दृष्ट्वा तमक्षतं राजा श्रद्धां श्रुतिषु सन्दधे ।
निनिन्द बहुधाऽऽत्मानं खलसंसर्गदूषितम् ॥७९॥

सौगतास्त्वब्रुवन्नेदं प्रमाणं मतिनिर्णये ।
मणिमन्त्रौषधैरेवं देहरक्षा भवेदिति ॥८०॥

दुर्विधैरन्यथा नीते प्रत्यक्षेऽर्थेऽपि पार्थिवः ।
भ्रुकुटीभीकरमुखः सन्धामुग्रतरां व्यधात् ॥८१॥

पृच्छामि भवतः किञ्चिद्वक्तुं न प्रभवन्ति ये ।
यन्त्रोपलेषु सर्वांस्तान् धातयिष्याम्यसंशयम् ॥८२॥

इति संश्रुत्य गोत्रेशो घटमाशीविषान्वितम् ।
आनीयात्र किमस्तीति पप्रच्छ द्विजसौगतान् ॥८३॥

वक्ष्यामहे वयं भूप श्वः प्रभातेऽस्य निर्णयम् ।
इति प्रसाद्य राजानं जग्मुर्भूसुरसौगताः ॥८४॥

पद्मा इव तपस्तेषुः कण्ठद्वयसपाथसि ।
द्युमणिं प्रति भूदेवाः सोऽपि प्रादुरभृत्ततः ॥८५॥

सन्दिश्य वचनीयांशमादित्येऽन्तर्हिते द्विजाः ।
आजग्मुरपि निश्चित्य सौगताः कलशस्थितम् ॥८६॥

ततस्ते सौगतः सर्वे भुजङ्गोऽस्तीत्यवादिषुः ।
भोगीशभोगशयनो भगवानिति भूसुराः ॥८७॥

श्रुतभूसुरवाक्यस्य वदनं पृथिवीपतेः ।
कासारशोषणम्लानसारसश्रियमाददे ॥८८॥

अथ प्रोवाच दिव्या वाक् संराजमशरीरिणी ।
तुदन्ती संशयं तस्य सर्वेषामेव श‍ृण्वताम् ॥८९॥

सत्यमेव महाराज ब्राह्मणा यद्वभाषिरे ।
मा कृथाः संशयं तत्र भव सत्यप्रतिश्रवः ॥९०॥

श्रुत्वाऽशरीरिणीं वाणीं ददर्श वसुधाधिपः ।
मूर्तिं मधुद्विषः कुम्भे सुधामिव सुराधिपः ॥९१॥

निरस्ताखिलसन्देहो विन्यस्तेतरदर्शनात् ।
व्यधादाज्ञां ततो राजा वधाय श्रुतिविद्विषाम् ॥९२॥

आसेतोरातुषाराद्रेर्बौद्धानावृद्धबालकम् ।
न हन्ति यः स हन्तव्यो भृत्यानित्यन्वशान्नृपः ॥९३॥

इष्टोऽपि दृष्टदोषश्चेद्वध्य एव महात्मनाम् ।
जननीमपि किं साक्षान्नावधीद् भृगुनन्दनः ॥९४॥

स्कन्दानुसारिराजेन जैना धर्मद्विषो हताः ।
योगीन्द्रेणेव किं योगघ्ना विघ्नास्तत्वावलम्बिना ॥९५॥

हतेषु तेषु दुष्टेषु परितस्तार कोविदः ।
श्रौतवर्त्म तमिस्रेषु नष्टेष्विव रविर्महः ॥९६॥

कुमारिलमृगेन्द्रेण हतेषु जिनहस्तिषु ।
निष्पत्यूहमवर्धन्त श्रुतिशाखाः समन्ततः ॥९७॥

प्रागित्थं ज्वनलभुवा प्रवर्तितेऽस्मिन्
कर्माध्वन्यखिलविदा कुमारिलेन ।
उद्धर्तुं भुवनमिदं भवाब्धिमग्नं
कारुण्याम्बुनिधिरियेष चन्द्रचूडः ॥९८॥

इति श्रीमाधवीये तदुपोद्धातकथापरः ।
सङ्क्षेपशङ्करजये सर्गोऽयं प्रथमोऽभवत् ॥१॥

आदितः श्लोकाः ९८ ।

N/A

References : N/A
Last Updated : January 23, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP