शङ्करदिग्विजयम् - अथ षष्ठः सर्गः

शङ्करदिग्विजयम्


अथागमद्ब्राह्मणसूनुरादरादधीतवेदो दलयन् स्वभासा ।
तेजांसि कश्चित्सरसीरुहाक्षो दिदृक्षमाणः किल देशिकेन्द्रम् ॥१॥

आगत्य देशिकपदाम्बुजयोरपप्तत् संसारवारिधिमनुत्तरमुत्तितीर्षुः ।
वैराग्यवानकृतदारपरिग्रहश्च कारुण्यनावमधिरुह्य दृढां दुरापाम् ॥२॥

उत्थाप्य तं गुरुरुवाच गुरुर्द्विजानां
कस्त्वं क्व धाम कुत आगत आत्तधैर्यः ।
बालोऽप्यबालधिषणः प्रतिभासि मे त्व-
मेकोऽप्यनेक इव नैकशरीरभावः ॥३॥

पृष्टो बभाण गुरुमुत्तरमुत्तरज्ञो
विप्रो गुरो मम गृहं बुध चोलदेशे ।
यत्रापगा वहति तत्र कवेरकन्या
यस्याः पयो हरिपदाम्बुजभक्तिमूलम् ॥४॥

अटाट्यमानो महतो दिदृक्षुः क्रमादिमं देशमुपागतोऽस्मि ।
बिभेमि मज्जन् भववारिराशौ तत्पारगं मां कृपया विधेहि ॥५॥

अपाङ्गैरुत्तुङ्गैरमृतझरभङ्गैः परगुरो
शुचा दूनं दीनं कलय दयया मामविमृशन् ।
गुणं वा दोषं वा मम किमपि सञ्चिन्तयसि चेत्
तदा कैव श्लाघा निरवधिकृपानीरधिरिति ॥६॥

स्यात्ते दीनदयालुताकृतयशोराशिस्त्रिलोकीगुरो
तूर्णं चेद्दयसे ममाद्य न तथा कारुण्यतः श्रीमति ।
वर्षन् भूरि मरुस्थलीषु जलभृत्सद्भिर्यथा पूज्यते
नैवं वर्षशतं पयोनिधिजले वर्षन्नपि स्तूयते ॥७॥

(१)त्वत्सारस्वतसारसारससुधाकूपारसत्सारस-
स्रोतःसम्भृतसन्ततोज्ज्वलजलक्रीडा मतिर्मे मुने ।
चञ्चत्पञ्चशरादिवञ्चनहतं न्यञ्चं प्रपञ्चं हित-
ज्ञानाकिञ्चनमा विरिञ्चमखिलं चालोचयन्त्यञ्चतु ॥८॥

(१ तव सरस्वत्याः साररूपः सारससुधाकूपारः चन्द्रसम्बन्धी
अमृतसमुद्रस्तस्य सतां सारसानां पक्षिणां कमलानां वा स्रोतोभिः
प्रवाहैः यत् सम्भृतं सम्मिश्रितं संश्रितं वा सन्ततमुज्ज्वलं
जलं तस्मिन् क्रीडा यस्यास्तथा भूता सती मे मतिः -इति व्याख्या ॥)
सौरं घाम सुधामरीचिनगरं पौरन्दरं मन्दिरं
कौबेरं शिबिरं हुताशनपुरं सामीरसद्मोत्तरम् ।
वैधं चाऽऽवसथं त्वदीयफणितिश्रद्धासमिद्धात्मनः
शुद्धाद्वैतविदो न दोग्धि कुतुकं विरतिश्रीधातुकं कौतुकम् ॥९॥

न भौमा रामाद्याः सुषमविषवल्लीफलसमाः
समारम्भन्ते नः किमपि कुतुकं जातु विषयाः ।
न गण्यं नः पुण्यं रुचिरतररम्भाकुचतटी-
परीरम्भारम्भोज्ज्वलमपि च पौरन्दरपदम् ॥१०॥

न चञ्चद्वैरिञ्चं पदमपि भवेदादरपदं
वचो भव्यं नव्यं यदकृत कृती शङ्करगुरुः ।
चकोरालीचञ्चूपुटदलितपूर्णेन्दुविगल-
त्सुधाधाराकारं तदिह वयमीहेमहि मुहुः ॥११॥

द्यावाभूमिशिवङ्करैर्नवयशःप्रस्तावसौवस्तिकैः
पूर्वारवर्वतपःपचोलिमफलैः सर्वाधिमुष्टिधयैः ।
दीनाढ्यङ्करणैर्भवाय नितरां वैरायमाणैरलं-
कर्मीणं प्रसितं त्वदीयभजनैः स्यान्मामकीनं मनः ॥१२॥

संसारबन्धामयदुःखशान्त्यै स एव नस्त्वं भगवानुपास्यः ।
भिषक्तमं त्वां भिषजां श‍ृणोमीत्युक्तस्य योऽभूदुदितावतारः ॥१३॥

इत्युक्तवन्तं कृपया महात्मा व्यदीपयत्संन्यसनं यथावत् ।
प्राहुर्महान्तः प्रथमं विनेयं तं देशिकेन्द्रस्य सनन्दनाख्यम् ॥१४॥

संसारघोरजलधेस्तरणाय शश्वत्सांयात्रिकीभवनमर्दयमानमेनम् ।
हन्तोत्तमाश्रमतरीमधिरोप्य पारं निन्ये निपातितकृपारसकेनिपातः ॥१५॥

येऽप्यन्येऽमुं सेवितुं देवतांशा यातास्तेऽपि प्राय एवं विरक्ताः ।
क्षेत्रे तस्मिन्नेव शिष्यत्वमस्य प्रापुः स्पष्टं लोकरीत्याऽपि गन्तुम् ॥१६॥

व्याख्या मौनमनुत्तराः परिदलच्छङ्काकलङ्कुरा-
श्छात्रा विश्वपवित्रचित्रचारितास्ते वामदेवादयः ।
तस्यैतस्य विनीतलोकतुतिमुद्घर्तुं धरित्रीतलं
प्राप्तस्याद्य विनेयतामुपगता धन्याः किलान्यादृशाः ॥१७॥

शेषः साधुभिरेव तोषयति नॄञ्छब्दैः पुमर्थार्थिनो
वाल्मीकिः कविराज एष वितथैरर्थैर्मुहुः कल्पितैः ।
व्याचष्टे किल दीर्घसूत्रसरणिर्वाचं चिरादर्शदां
व्यासः शङ्करदेशिकस्तु कुरुते सद्यः कृतार्थानहो ॥१८॥

चक्रितुल्यमहिमानमुपासाञ्चक्रिरे तमविमुक्तनिवासाः ।
वक्रसृत्यनुसृतामपि साध्वीं चक्रुरात्मधिषणां तदुपास्त्या ॥१९॥

चण्डभानुरिव भानुमण्डलैः पारिजात इव पुष्पजाततः ।
वृत्रशत्रुरिव नेत्रवारिजैश्छात्रपङ्क्तिभिरलं ललास सः ॥२०॥

एकदा खलु वियत्त्रिपुरद्विड्भाललोचनहुताशनभानोः
विस्फुलिङ्गपदवीं दधतीषु प्रज्ज्वलत्तपनकान्तिशिलासु ॥२१॥

दर्शयत्पुरुमरीचिसरस्वत्पूरसृज्यवरमायिनि* भानौ ।
(*परमायिनि -लोकविलक्षणैन्द्रजालिके -इति व्याख्या ॥)
साधुनैकमणि कुट्टिममूर्च्छद्रश्मिजालकशिखावलपिच्छम् ॥२२॥

पङ्कज्जावलिविलीनमराले पुष्करान्तरभिगत्वरमीने ।
शाखिकोटरशयालुशकुन्ते शैलकन्दरशरण्यमयूरे ॥२३॥

शङ्करो दिवसमध्यमभागे पङ्कजोत्पलपरागकषायाम् ।
जाह्नवीमभिययौ सह शिष्यैराह्निकं विधिवदेष विधित्सुः ॥२४॥

सोऽन्त्यज्ञं पथि निरीक्ष्य चतुर्भिर्भीषणैः श्वभिरनुद्रुतमारात् ।
गच्छ दूरमिति तं निजगाद प्रत्युवाच च स शङ्करमेनम् ॥२५॥

अद्वितीयमनवद्यमसङ्गं सत्यबोधसुखरूपमखण्डम् ।
आमनन्ति शतशो निगमान्तास्तत्र भेदकलना तव चित्रम् ॥२६॥

दण्डमण्डितकरा घृतकुण्डाः पाटलाभवसनाः पटुवाचः ।
ज्ञानगन्धरहिता गृहसंस्थान वञ्चयन्ति किल केचन वेषैः ॥२७॥

गच्छ दूरमिति देहमुनाहो देहिनं परिजिहीर्षसि विद्वन् ।
भिद्यतेऽन्नमयतोऽन्नमयं किं साक्षिणश्च यतिपुङ्गव साक्षी ॥२८॥

ब्राह्मणश्वपचभेद विचारः प्रत्यगात्मनि कथं तव युक्तः ।
बिम्बितेऽम्बरमणौ सुरनद्यामन्तरं किमपि नास्ति सुरायाम् ॥२९॥

शुचिर्द्विजोऽहं श्वपच व्रजेति मिथ्याग्रहस्ते मुनिवर्य कोऽयम् ।
सन्तं शरीरेष्वशरीरमेकमुपेक्ष्य पूर्ण पुरुषं पुराणम् ॥३०॥

अचिन्त्यमव्यक्तमनन्तमाद्यं विस्मृत्य रूपं विपलं विमोहात् ।
कलेवरेऽस्मिन्करिकर्णलोलाकृतिन्यहन्ता कथमाविरास्ते ॥३१॥

विद्यामवाप्यापि विमुक्तिपद्यां जागर्ति तुच्छा जनसङ्ग्रहेच्छा ।
अहो महान्तोऽपि महेन्द्रजाले मज्जन्ति मायाविवरस्य तस्य ॥३२॥

इत्युदीर्य वचनं विरतेऽस्मिन् सत्यवाक्तदनु विप्रतिपन्नः ।
अत्युदारचरितोऽन्त्यजमेनं प्रत्युवाच स च विस्मितचेताः ॥३३॥

सत्यमेव भवता यदिदानीं प्रत्यवादि तनुभृत्प्रवरैतत् ।
अन्त्यजोऽयमिति सम्पति बुद्धिं सन्त्यजामि वचसाऽऽत्मविदस्ते ॥३४॥

जानते श्रुतिशिरांस्यपि सर्वे मन्वते च विजितेन्द्रियवर्गाः ।
युञ्जते हृदयमात्मनि नित्यं कुर्वते न धिषणामपभेदाम् ॥३५॥

भाति यस्य तु जगद् दृढबुद्धेः सर्वमप्यनिशमात्मतयैव ।
स द्विजोऽस्तु भवतु श्वपचो वा वन्दनीय इति मे दृढनिष्ठा ॥३६॥

या चितिः स्फुरति विष्णुमुखे सा पुत्तिकावधिषु सैव सदाऽहम् ।
नैव दृश्यमिति यस्य मनीषा पुल्कसो भवतु वा स गुरुर्मे ॥३७॥

यत्र यत्र च भवेदिह बोधस्तत्तदर्थसमवेक्षणकाले ।
बोधमात्रमवशिष्टमहं तद्यस्य धीरिति गुरुः स नरो मे ॥३८॥

भाषमाण इति तेन कलावानेष नैक्षत तमन्त्यजमग्रे ।
धूर्जटिं तु समुदैक्षत मौलिस्फूर्जदैन्दवकलं सह वेदैः ॥३९॥

भयेन भक्त्या विनयेन धृत्या युक्तः स हर्षेण च विस्मयेन ।
तुष्टाव शिष्टानुमतः स्तवैस्तं दृष्ट्वा दृशोर्गोचरमष्टमूर्तिम् ॥४०॥

दासस्तेऽहं देहदृष्ट्याऽस्मि शम्भो जातस्तेंऽशो जीवदृष्ट्या त्रिदृष्टे ।
सर्वस्यात्मन्नात्मदृष्ट्या त्वमेवेत्येवं मे धीर्निश्चिता सर्वशास्त्रैः ॥४१॥

यदालोकादन्तर्बहिरपि च लोको वितिमिरो
न मञ्जूषा यस्य त्रिजगति न शाणो न च खनिः ।
यतन्ते चैकान्तं रहसि यतयो यत्प्रणयिनः
नमस्तस्मै स्वस्मै निखिलनिगमोत्तंसमणये ॥४२॥

अहो शास्त्रं शास्त्रात्किमिह यदि न श्रीगुरुकृपा
चिता सा किं कुर्यान्ननु यदि न बोधस्य विभवः ।
किमालम्बश्चासौ न यदि परतत्वं मम तथा
नमः स्वस्मै तस्मै यदवधिरिहाश्चर्यधिषणा ॥४३॥

इत्युदारवचनैर्भगवन्तं संस्तुवन्तमथ च प्रणमन्तम् ।
बाष्पपूर्णनयनं मुनिवर्यं शङ्करः सबहुमानमुवाच ॥४४॥

अस्मदादिपदवीमभजस्त्वं शोधिता तव तपोधननिष्ठा ।
बादरायण इव त्वमपि स्याः सद्वरेण्य मदनुग्रहपात्रम् ॥४५॥

संविभज्य सकळश्रुतिजालं ब्रह्मसूत्रमकरोदनुशिष्टः ।
यत्र काणभुजसाङ्ख्यपुर्गाण्युद्धृतानि कुमतानि समूलम् ॥४६॥

तत्र मूढमतयः कलिदोषाद् द्वित्रवेदवचनोद्बलितानि ।
भाष्यकाण्यरचयन् बहुबुद्धैर्दुष्यतामुपगतानि च कैश्चित् ॥४७॥

तद्भवान्विदितवेदशिखार्थस्तानि दुर्मतिमतानि निरस्य ।
सूत्रभाष्यमधुना विद्धातु श्रुत्युपोद्बलितयुक्त्यभियुक्तम् ॥४८॥

एतदेव विबुधैरपि सेन्द्रैरर्चनीयमनवद्यमुदारम् ।
तावकं कमलयोनिसभायामध्यवाप्स्यति वरां वरिवस्याम् ॥४९॥

भास्कराभिनवगुप्तपुरोगान्नीलकण्ठगुरुमण्डनमुख्यान् ।
पण्डितानथ विजित्य जगत्यां ख्यापयाद्वयमते परतत्वम् ॥५०॥

मोहसन्तमसवासरनाथांस्तत्र तत्र विनिवेश्य विनेयान् ।
पालनाय परतत्त्वसरण्या मामुपैष्यसि ततः कृतकृत्यः ॥५१॥

एवमेनमनुगृह्य कृपावानागमैः सह शिवोऽन्तरधत्त ।
विस्मितेन मनसा सह शिष्यैः शङ्करोऽपि सुरसिन्धुमयासीत् ॥५२॥

सन्निवर्त्य विधिमाह्निकमीशं ध्यायतो गुरुमथाऽखिलभाष्यम् ।
कर्तुमुग्रतमभूद् गुणसिन्धोर्मानसं निखिललोकहिताय ॥५३॥

कर्तृत्वशक्तिमधिगम्य स विश्वनाथात्
काशीपुरान्निरगमत्त्वविकासभाजः ।
प्रीतः सरोजमुकुलादिव चञ्चरीक\-
निर्वन्धतः सुखमवाप यथा द्विजेन्द्रः ॥५४॥

अद्वैतदर्शनविदां भुवि सार्वभौमो यात्येष इत्युडुपबिम्बसितातपत्रम् ।
अस्ताचले वहति चारु पुरः प्रकाशव्याजेन चामरमथादिव दिक्सुकान्ता ॥५५॥

शान्तां दिशं देवनृणां विहाय नान्या दिगस्मै समरोचताद्धा ।
तत्रत्यतीर्थानि निषेवमाणो गन्तुं मनोऽघाद्बदरीं क्रमात्सः ॥५६॥

तेनान्ववर्ति महता क्वचिदुष्णशालि
शीतं क्वचित्क्वचिदृजु क्वचिदप्यरालम् ।
उत्क्ण्टकं क्वचिदकण्टकवत्क्वचिच्च
तद्वर्त्म मूर्खजनचित्तमिवाव्यवस्थम् ॥५७॥

आत्मानमक्रियमपव्ययमीक्षितापि पान्थैः समं विचलितः पथि लोकरीत्या ।
आदत्फलानि मधुराण्यपिबत्पयांसि मायादुपाविशदशेत तथोदतिष्ठत् ॥५८॥

तेन व्यनीयत तदा पदवी दवीयस्यासादिता च बदरी वनपुण्यभूमिः ।
गौरीगुरुस्रवदमन्दझरीपरीता खेलत्सुरीयुतदरी परिभाति यस्याम् ॥५९॥

(१) स द्वादशे वयसि तत्र समाघिनिष्ठै
र्ब्रह्मर्षिभिः श्रुतिशिरो बहुधा विचार्य ।
षड्भिश्च सप्तभिरथो नवभिश्च
खिन्नैर्भव्यं गभीरमधुरं फणति स्म भाष्यम् ॥६०॥

(१ क्षुत्पिपासे जरामृत्यू शोकमोहो षडूर्मयः ।
त्वक् चर्ममांसास्थिमेदोमज्जारेतांसि सप्तधातवः, पञ्चज्ञानेन्द्रियाणि,
चत्वार्यन्तःकरण्यनीति नवकम्, अथवा, १) ज्ञानेन्द्रियपञ्चकम,
२) कर्मेन्द्रियपञ्चकम, ३) प्राणपञ्चकम, ४) अन्तःकरणचतुष्टयम्,
(᳚मनोबुद्धिरहङ्कारश्चित्तं करणमन्तरम् ।
संशयो निश्चयो गर्वः स्मरणं विषया इमे ॥''
(इति वृत्तिचतुष्टयभेदभिन्नम् ५) भूतपञ्चकं ६) अविद्या,
७) कामः, ८) कर्म, ९) वासना इति नव पदार्थाः, नवद्वारोपितं शरीरं वा ।
अथवा
१) चार्वाकः, २) आर्हतः, ३) सौत्रान्तिकः, ४) वैनाशिकः, ५) वैभाषिकः,
६) योगाचार इति षड् दर्शनकाराः
१) गौतमः, २) काणादः, ३) कपिलः, ४) पतञ्जलिः,
५) जैमिनिः,आस्तिकदर्शनकाराः पञ्च, ६) साख्यैकदेशिनः,
७) शाक्तमीमांसकाद्येकदशिनः इति आकलव्य सप्त ।
१) जीवेश्वरभेदः, २) ईश्वरजगद्भेदः, ३) जीवपरस्परभेदः,
४) जगत्परस्परमेदः, ५) जीवजगद्भेदः,
६) ७) ८) ९) पूर्वोक्तविद्यादिचतुष्टयम् ।
एतैः खेदं प्राप्तानां श्रेयः प्रदं भाष्यम् ॥)
करतलकलिताद्वयात्मतत्वं क्षपितदुरन्त चिरन्तनप्रमोहम् ।
उपचितमुदितोदितैर्गुणौघैरुपनिषदामयमुज्जहार भाष्यम् ॥६१॥

ततो महाभारतसारभूताः स व्याकरोद्भागवतीश्च गीताः ।
सनत्सुजातीयमसत्सुदुरं ततो नृसिंहस्य च तापनीयम् ॥६२॥

ग्रन्थानसङ्ख्यांस्तदनूपदेशसाहस्रिकादीन्व्यदधात्सुधीड्यः ।
श्रुत्वाऽर्थविद्यानविवेकपाशान्मुक्ता विरक्ता यतयो भवन्ति ॥६३॥

श्रीशङ्कराचार्यरवावदेत्य प्रकाशमाने कुमतिप्रणीताः ।
व्याख्यान्धकारा प्रलयं समीयुर्दुर्वादिचन्द्रप्रभयाऽवियुक्तात् ॥६४॥

अथ व्रतीन्दुर्विधिवद्विनेयानध्यापयामास स नैजभाष्यम् ।
तर्कै परेषां तरुणैर्विवस्वन्मरीचिभिः सिन्धुबदमशोष्यम् ॥६५॥

निजशिष्यहृदब्जभास्वतो गुरुवर्यस्य सनन्दनादयः ।
शमपूर्वगुणैरशुश्रुवन्कतिचिच्छिष्यगणेषु मुख्यताम् ॥६६॥

स नितरामितराश्रवतो लसन्नियममद्भुतमाप्य सनन्दनः ।
श्रुतनिजश्रुतिकोऽप्यभवत्पुनः पिपठिषुर्गहनार्थविवित्सया ॥६७॥

अध्वन्द्वभक्तिममुमात्मपदारविन्दद्वन्द्व् नितान्तदयमानमना मुनीन्द्रः ।
आम्नायशेखररहस्यनिधानकोशमात्मीयकोशमखिलं त्रिरपाठ्यत्तम् ॥६८॥

ईर्ष्याभराकुलहृदामितराश्रवाणां
प्रख्यापयन्ननुपमामदसीयभक्तिम् ।
अभ्रापगापरतटस्थममुं कदाचि-
दाकारयन्निगमशेखरदेशिकेन्द्रः ॥६९॥

सन्तारिकाऽनवधिसंसृतिसागरस्य
किं तारयेन्न सरितं गुरुपादभक्तिः ।
इत्यञ्जसा प्रविशतः सलिलं द्युसिन्धुः
पद्मान्युदञ्चयति तस्य पदे पदे स्म ॥७०॥

पाथोरुहेषु विनिवेश्य पदं क्रमेण
प्राप्तोपकण्ठममुमप्रतिमानभक्तिम् ।
आनन्दविस्मयनिरन्तनिरन्तरोऽसा-
वाश्लिष्य पद्मपदनामपदं व्यतानीत् ॥७१॥

तं पाठयन्तमनवद्यतमात्मविद्यां
ये तु स्थिताः सदसि तत्वविदां सगर्वाः
आचिक्षिपुः कुमतपाशुपताभिमानाः
केचिद्विवेकविटपोग्रदवायमानाः ॥७२॥

तद्विकल्पनमनल्पमनीषः श्रुत्युदाहरणतः स निरस्य ।
ईषदस्तमितगर्वभराणामागमानपि ममन्थ परेषाम् ॥७३॥

अद्वितीयनिरता सति भेदे मुक्तिरीशसमतैव कथं स्यात् ।
ध्यानजा किमिति सा न विनश्येद्भावकार्यमखिलं हि न नित्यम् ॥७४॥

किञ्च सङ्क्रमणमीशगुणानामिष्यते पशुषु मोक्षदशायाम् ।
तन्न साध्ववयवैर्विधुराणां सङ्क्रमो न घटते हि गुणानाम् ॥७५॥

पद्मगन्ध इव गन्धवहेऽस्मिन्नात्मनीश्वरगुणोऽस्त्विति चेन्न ।
तत्र गन्धसमवायि नभस्वत्संयुतं दिशति गन्धधियं यत् ॥७६॥

किञ्चैकदेशेन समाश्रयन्ते कार्त्स्न्येन वा शम्भुगुणा विमुक्तान् ।
पूर्वे तु पूर्वोदितदोषसङ्गस्त्वन्तेऽज्ञतादिः परमेश्वरे स्यात् ॥७७॥

इत्थं तर्कैः कुलिशकठिनैः पण्डितं मन्यमाना
भिद्यत्स्वार्थाः स्मयभरमदं तत्यजुस्तान्त्रिकास्ते ।
पक्षाघातैरिव रयभरैस्ताड्यमानाः फणासु
क्ष्वेडज्वालां खगकुलपतेः पन्नगाः साभिमानाः ॥७८॥

व्याख्याजृम्भितपाटवात्फणिपतेर्मन्दाक्षमुद्दीपयन्
सङ्ख्यालङ्धितशिष्यहृद्वनरुहेष्वादित्यतामुद्वहन् ।
उद्वेलस्वयशः सुमैः स भगवत्पादो जगद्भुषयन्
कुर्वन्वादिमृगेषु निर्भरमभाच्छार्दूलविक्रीडितम् ॥७९॥

वेदान्तकान्तारकृतप्रचारः सुतीक्ष्णसद्युक्तिनखाग्रदंष्ट्रः ।
भयङ्करो वादिमतङ्गजानां महर्षिकण्ठीरव उल्ललास ॥८०॥

अमानुषं तस्य यतीश्वरस्य विलोक्य बालस्य सतः प्रभावम् ।
अत्यन्तमाश्चर्ययुतान्तरङ्गाः काशीपुरस्था जगदुस्तदेत्थम् ॥८१॥

अस्मान्मुहुर्द्यौतितसर्वतन्त्रात्पराभवं पण्डितपुण्डरीकाः ।
प्रपेदिरे भास्करगुप्तमिश्रमुरारिविद्येन्द्रगुरुप्रधानाः ॥८२॥

अस्यात्मनिष्ठातिशयेन तुष्टः प्रादुर्भवन् कामरिपुः पुरस्तात् ।
चोदयामास किल प्रणेतुं वेदान्तशारीरकसूत्रभाष्यम् ॥८३॥

कुदृष्टितिमिरस्फुरत्कुमतपङ्कमग्नां पुरा
पराशरभुवा चिराद् बुधमुदे बुधेनोद्धृताम् ।
अहो बत जरद्गवीमनघभाव्यसूक्तामृतै-
रपङ्कयति शङ्करः प्रणतशङ्करः सादरम् ॥८४॥

त्रैलोक्यं ससुखं क्रियाफलपयो भुङ्क्ते ययाऽऽविष्कृतं
यस्या वृद्धतरे महीसुरगृहे वासः प्रवृद्धाध्वरे ।
तां पङ्कप्रसृते कुतर्ककुहरे ध्रैः खरैः पातितां
निष्पङ्कामकरोत्स भाष्यजलधेः प्रक्षाल्य सूक्तामृतैः ॥८५॥

मिथ्या वक्तीति कैश्चित्पुरुषमुपनिषद्दूरमुत्सारिताऽभू-
दन्यैरस्मिन्नियोज्यं परिचरितुमसावर्हतीति प्रणुन्ना ।
अर्थाभासं दधानैर्मृदुभिरिव परैर्वञ्चिता चोरितार्थे-
र्विन्दत्यानन्दमेषा सुचिरमशरणा शङ्करार्य प्रपन्ना ॥८६॥

हन्तुं बौद्धोऽन्वधावत्तदनु कथमपि स्वात्मलाभः कणादा-
ज्जातः कौमारिलार्यैर्निजपदगमने दर्शितं मार्गमात्रम् ।
साङ्ख्यैर्दुःखं विनीतं परमथ रचिता प्राणधृत्यर्हताऽन्यै-
रित्थं खिन्नं पुमांसं व्यधित करुणया शङ्करार्यः परेशम् ॥८७॥

ग्रस्तं भूतैर्न देवं कतिचन ददृशुः के च दृष्ट्वाऽप्यधीराः
केचिद्भूतैर्वियुक्तं व्यधुरथ कृतिनः केऽपि सर्वैर्विमुक्तम् ।
किन्त्वेतेषामसत्वं न विदधुरजहान्नैव भीति ततोऽसो
तेषामुच्छिद्य सत्ता(य)मभयमकृत तं शङ्करः शङ्करांशः ॥८८॥

चार्वाकैनिह्रूतः प्राग्बिलिभिरथ मृषा रूपमापाद्य गुप्तः
काणादैर्हा नियोज्यो व्यरचि बलवताऽऽकृष्य कौमारिलेन ।
साङ्ख्यैराकृष्य हृत्वा मलमपि रचितो यः प्रधानैकतन्त्रः
कृष्ट्वा सर्वेश्वरं तं व्यतनुत पुरुषं शङ्करः शङ्करांशः ॥८९॥

वाचः कल्पलताः प्रसूनसुमनःसन्दोहसन्दोहनाः
भाष्ये भूष्यतमे समीक्षितवतां श्रेयस्करे शाङ्करे ।
भाष्याभासगिरो दुरन्वयगिराऽऽश्लिष्टा विसृष्टा गुणै-
रिष्टाः स्युः कथमम्बुजासनवधूदौर्भाग्यगर्भीकृताः ॥९०॥

कामं कामकिरातकार्मुकलतापर्यायनिर्यातया
नाराचच्छटया विपाटितमनोधैर्यैर्घिया कल्पितान् ।
आचार्याननवर्यनिर्यदभिदासिद्धान्तशुद्धान्तरो
धीरो नानुसरीसरीति विरसान्ग्रन्थानचन्धापहान् ॥९१॥

सुधास्यन्दाहन्ताविजयिभगवत्पादरचना
समस्कन्धान् ग्रन्थान् रचयति निबद्धा यदि तदा ।
विशङ्कां भङ्गानां मृडमुकुटश‍ृङ्गाटसरितः
कृतौ तुल्या कुल्या नियतमुपशल्यादृतगतिः ॥९२॥

यया दीनाधीना घनकनकधारा समरचि
प्रतीर्ति नीताऽसौ शिवयुवतिसौन्दर्यलहरी ।
भुजङ्गो रौद्रोऽपि श्रुतभयहृदाधायि सुगुरो-
र्गिरां धारा सेयं कलयति कवेः कस्य न मुदम् ॥९३॥

गिरां धारा कल्पद्रुमकुसुमधारा परगुरो-
स्तदर्थाली चिन्तामणिकिरणवेण्या गुणनिका ।
अभङ्गव्यङ्ग्यौघः सुरसुरभिदुग्धोंर्मिसहभू-
र्दिवं भव्यैः काव्यैः सृजति विदुषां शङ्करगुरुः ॥९४॥

वाचा मोचाफलाभाः श्रमशमनविधौ ते समर्थास्तदर्था
व्यङ्ग्यं भङ्गयन्तरं तत्खलु किमपि सुधामाधुरीसाधुरीतिः ।
मन्ये धन्यानि गाढं प्रशमिकुलपतेः काव्यगव्यानि भव्या-
न्येकश्लोकोऽपि येषु प्रथितकविजनानन्दसन्दो हकन्दः ॥९५॥

वाग्गुम्भैः कुरुविन्दकन्दलनिभैरानन्दकन्दैः सता-
मरथौघैररविन्दन्दकुहरस्यन्दन्मरन्दोज्ज्वलैः ।
व्यङ्ग्यैः कल्पतरुप्रफुल्लसुमनःसौरभ्यगर्भीकृतै-
र्दत्ते कस्य मुदं न शङ्करगुरोर्भव्यार्थकाव्यावलिः ॥९६॥

तत्तादृग्यतिशेखरोद्धृतनिषद्भाष्यं निशम्येर्ष्यया
केचिद्देवनदीतटस्थविदुषामक्षाङ्घ्रिपक्षश्रिताः ।
मौर्खात्खण्डयितुं प्रयत्नमनुमानैकेक्षणा विक्षमा-
चक्रुर्भाव्यविचार्य चित्रकिरणं चित्राः पतङ्गा इव ॥९७॥

निघर्षणच्छेदनतापनाद्यैर्यथा सुवर्ण परभागमेति ।
विवादिभिः साधु विमथ्यमानं तथा मुनेर्भाष्यमदीपि भूयः ॥९८॥

स भाष्यचन्द्रो यतिदुग्धसिन्धोरुत्थाय दास्यन्नमृतं बुधेभ्यः ।
विधूय गोभिः कुमतान्धकारानतर्पयद्विप्रमनश्चकोरान् ॥९९॥

अनादिवाक्सागरमन्थनोत्था सेव्या बुधैर्धिक्कृतदुःसपत्नैः ।
विश्राणयन्ती विजरामरत्वं विदिद्युते भाष्यसुधा यतीन्दोः ॥१००॥

सतां हृदब्जानि विकासयन्ती तमांसि गाढानि विदारयन्ती ।
प्रत्यर्थ्युलूकान प्रविलापयन्ती भाष्यप्रभाऽभाद्यतिवर्यभानोः ॥१०१॥

न्यायमन्दरविमन्थनजाता भाष्यनुतनसुधा श्रुतिसिन्धोः ।
केवलश्रवणतो विबुधेभ्यश्चित्रमत्र वितरत्यमृतत्वम् ॥१०२॥

पादादासीत्पद्मनाभस्य गङ्गा शम्भोर्वक्त्राच्छाङ्करी भाष्यसूक्तिः ।
आद्या लोकान्दृश्यते मज्जयन्तीत्यन्या मग्नानुद्धरत्येष भेदः ॥१०३॥

व्यासो दर्शयति स्म सूत्रकलितन्यायौघरत्नावली-
रर्थलाभवशान्न कैरपि बुधैरेता गृहीताश्चिरम् ।
अर्थाप्त्या सुलभाभिराभिरघुना ते मण्डिताः पण्डिता
व्यासश्चाऽऽप कृतार्थतां यतिपतेरौदार्यमाश्चर्यकृत् ॥१०४॥

विद्वज्जालतपःफलं श्रुतिवधूधम्मिक्लमल्लीस्रजं
सद्वैयासकसूत्रमुग्धमधुरागण्यातिपुण्योदयम् ।
वाग्देवीचिरभोग्यभाग्यविभवप्राग्भारकोशालयं
भाष्यं ते निपिबन्ति हन्त न पुनर्येषां भवे सम्भवः ॥१०५॥

मन्थानाद्रिधुरन्धरा श्रुतिसुधासिन्धोर्यतिक्ष्मापते-
ग्रन्थानां फणितिः परावरविदामानन्दसङ्घायिनी ।
इन्धानैः कुमतान्धकारपटलैरन्धीभवच्चक्षुषां
पन्थानं स्फुटयन्त्यकाण्डकमभात्तकोर्कविद्योतितैः ॥१०६॥

आ सीतानाथनेतुः स्थलकृतसलिलद्वैतमुद्रात्समुद्रा-
दारुद्राकर्षणाद्द्रागवनतशिखराद्भोगसान्द्रान्नगेन्द्रात् ।
आ च प्राचीनभूमीघरमुकुटतटादा तात्पश्चिमाद्रे-
रद्वैताद्यापवर्गा जयति यतिधरापोद्धृता ब्रह्मविद्या ॥१०७॥

इति श्रीमाधवीये तद्ब्रह्मविद्यामतिष्ठितिः ।
सङ्क्षेपशङ्करजये षष्ठः सर्ग उपारमत् ॥६॥

आदितः श्लोकाः ६६३ ।

N/A

References : N/A
Last Updated : January 23, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP