संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|शङ्करदिग्विजयम्| अथ दशमः सर्गः शङ्करदिग्विजयम् अनुक्रमणिका अथ प्रथमः सर्गः अथ द्वितीयः सर्गः अथ तृतीयः सर्गः अथ चतुर्थः सर्गः अथ पञ्चमः सर्गः अथ षष्ठः सर्गः अथ सप्तमः सर्गः अथ अथाष्टमः सर्गः अथ नवमः सर्गः अथ दशमः सर्गः अथ एकादशः सर्गः अथ द्वादशः सर्गः अथ त्रयोदशः सर्गः अथ चतुर्दशः सर्गः अथ पञ्चदशः सर्गः अथ षोडशः सर्गः शङ्करदिग्विजयम् - अथ दशमः सर्गः शङ्करदिग्विजयम् Tags : shankar digvijayशङ्कर दिग्विजय राजदेहप्रवेशादि कथनम् Translation - भाषांतर अथ पुरोहितमन्त्रिपुरःसरैर्नरपतिः कृतशान्तिककर्मभिः ।विहितमाङ्गलिकः स यथोचितं नगरमास्थितभद्रगजो ययौ ॥१॥समधिगम्य पुरं परिसान्त्वितप्रियजनः सचिवैः सह सम्प्रतैः ।भुवमपालयदादृतशासनो नृपतिभिर्दिवमिन्द्र इवाघिराट् ॥२॥इति नृपत्वमुपेत्य वसुन्धरामवति संयमिभूभृति मन्त्रिणः ।तमधिकृत्य परं कृतसंशया इति जजलपुरनल्पधियो मिथः ॥३॥मृतिमुपेत्य यथा पुनरुत्थितः प्रकृतिभाग्यवशेन तथा त्वयम् ।नरपतिः प्रतिभाति न पूर्ववत्समुदिताखिलदिव्यगुणोदयः ॥४॥वसु ददाति ययातिवदर्थिने वदति गोष्पतिवद्गिरमर्थवित् ।जयति फाल्गुनवत्प्रतिपार्थिवान् सकलमप्यवगच्छति शर्ववत् ॥५॥अनुसवनविसृत्वरैरपूर्वैर्वितरणपौरुषशौर्यधैर्यपूर्वैः ।अनितरसुलभैर्गुणैर्विभाति क्षितिपतिरेष परः पुमानिवाद्यः ॥६॥अनृतुषु तरवः सुपुष्पिताग्रा बहुतरदुग्धदुधाश्च गोमहिष्यः ।क्षितिरभिमतवृष्टिराठ्यसस्या स्वविहितधर्मरताः प्रजाश्च सर्वाः ॥७॥कालस्तिष्यः सर्वदोषाकरोऽपि त्रेतामत्येत्यद्य राज्ञः प्रभावात्तस्मादस्मद्राजवर्ष्म प्रविश्य प्राप्तैश्वर्यः शास्ति कश्चिद्धरित्रीम् ॥८॥तदयं गुणवारिधिर्यथा प्रतिपद्येत न पूर्वकं वपुः ।करवाम तथेति निश्चयं कृतवन्तः सचिवाः परस्परम् ॥९॥अथ ते भुवि यस्य कस्यचिद्विगतासोर्वपुरस्ति देहिनः ।अविचार्य तदाशु दह्यतामिति भृत्यान् रहसि न्ययोजयन् ॥१०॥अथ राज्यधुरं घराधिपः परमाप्तेषु निवेश्य मन्त्रिषु ।बुभुजे विषयान् विलासिनीसचिवोऽन्यक्षितिपालदुर्लभान् ॥११॥स्फटिकफलके ज्योत्स्नाशुभ्रे मनोज्ञशिरोगृहेवरयुवतिभिर्दीव्यनक्षैर्दुरोदरकेलिषु ।अधरदशनं बाह्वावाहं महोत्पलताडनंरतिविनिमयं राजाऽकार्षीद्ग्लहं विजये मिथः ॥१२॥अधरजसुधाश्लेषाद्रुच्यं सुगन्धि मुखानिल-व्यतिकरवशात्कामं कान्ताकरात्तमतिप्रियम् ।मधु मदकरं पायं पायं प्रियाः समपाययत्-कनकचषकैरिन्दुच्छायापरिष्कृतमादरात् ॥१३॥मधुमदकलं मन्दस्विन्नं मनोहरभाषणंनिभृतपुलकं सीत्काराढ्यं सरोरुहसौरभम् ।दरमुकुलिताक्षीषलज्जं विसृत्वरमन्मथंप्रचरदलकं कान्तावक्त्रं निपीय कृती नृपः ॥१४॥विवृतजघनं सन्दष्टोष्ठं प्रणुन्नपयोधरंप्रसृतभणितं प्राप्तोत्साहं रणन्मणिमेखलम् ।निभृतकरणं नृत्यदूगात्रं गतेतरभावनंप्रसृमरसुखं प्रादुर्भूतं किमप्यपदं गिराम् ॥१५॥मनसिजकलातत्त्वाभिज्ञो मनोज्ञविचेष्टितःसकलविषयव्यावृत्ताक्षः सदानुसृतोत्तमः ।कृतकुचगुरूपास्त्याऽत्यन्तं सुनिर्वृतमानसोनिधुवनवरब्रह्मानन्दं निरर्गलमन्वभूत् ॥१६॥पुरेव भोगान् बुभुजे महीभृत्स भोगिनीभिः सहितोऽप्यरंस्त ।कन्दर्पशास्त्रानुगतः प्रवीणैर्वात्स्यायने तच्च निरैक्षताद्धा ॥१७॥वात्स्यायनप्रोदितसूत्रजातं तदीयभाष्यं च निरीक्ष्य सम्यक् ।स्वयं व्यधत्ताभिनवार्थगर्भं निबन्धमेकं नृपवेषधारी ॥१८॥पाराशर्यवनिभृति प्रविश्य राज्ञो वर्ष्मैवं विहरति तद्विलासिनीभिः ।दृष्ट्वा तत्समयमतीतमस्य शिष्या रक्षन्तो वपुरितरेतरं जजल्पुः ॥१९॥आचार्यैरवधिरकारि मासमात्रं सोऽतीतः पुनरपि पञ्चषाश्च घस्राः ।अद्यापि स्वकरणमेत्य नः सनाथान् कर्तुं तन्मनसि न जायतेऽनुकम्पा ॥२०॥किं कुर्मः क्व नु मृगयामहे क्व यामः को जानन्निह वसतीति नोऽभिदध्यात् ।विज्ञातुं कथमिममीश्महे विचिन्त्याप्या सिन्धु क्षितितलमन्यगात्रगूढम् ॥२१॥गुरुणा करुणानिधिना ह्यधुना यदि नो निहिता विहितास्त्यजिताः ।जगति क्व गतिर्भजतां त्यजतां स्वपदं विपदन्तकरं तदिदम् ॥२२॥निःशेषेन्द्रियजाडयहृन्नवनवाह्लादं मुहुस्तन्वतीनित्याश्लिष्टरजोयतीशचरणाम्भोजाश्रया श्रेयसी ।निष्पत्यूहविजृम्भमाणजिनस्योद्वासना वासनानिःसीमा हृदयेन कल्पितपरीरम्भा चिरं भाव्यते ॥२३॥फलितैरिव सत्वपादपैः परिणामैरिव योगसम्पदाम् ।समयैरिव वैदिकश्रियां सशरीरैरिव तत्वनिर्णयैः ॥२४॥सघनैर्निजलाभवैभवात् सकुटुम्बैरुपशान्तिकान्तया ।अतदन्यतयाऽखिलात्मकैरनुगृह्येय कदा नु धामभिः ॥२५॥अविनयं विनयन्नसतां सतामतिरयं तिरयन् भवपावकम् ।जयति यो यतियोगभृतां वरो जगति मे गतिमेष विधास्यति ॥२६॥विगतमोहतमोहतिमाप्य यं विधुतमायतमा यतयोऽभवन् ।अमृतदस्य तदस्य दृशः सृतवावतरेम तरेम शुगर्णवम् ॥२७॥शुभाशुभविभाजकस्फुरणदृष्टिमुष्टिन्धयःक्षपान्धमतपान्थ दुष्कथकदम्भकुक्षिम्भरिः ।कदा भवसि मे पुनःपुनरनाद्यविद्यातमःप्रमृद्य गलितद्वयं पदमुदञ्चयन्नद्वयम् ॥२८॥मर्त्यानां निजपादपङ्कजजुषामाचार्य वाचा ययारुन्धानो मतिकल्मषं त्वमिह किं कुर्वाणनिर्वाणया ।द्राङ् नायास्यसि चेत्सुधीकृतपरीहासस्य दसस्य तेदुःखान्तो न भवेदितीड्य स पुनर्जानीहि मीनीहि मा ॥२९॥इति खेदमुपेयुषि मित्रजने प्रतिपन्नयतिक्षितिभृन्महिमा ।शुचमर्थवता शमयन्वचसा निजगाद सरोरुहपाद इदम् ॥३०॥पर्याप्तं नः क्लैब्यमुपेत्यात्र सखायः कृत्वोत्साहं भूमिमशेषामपिघानात् ।अन्वेष्यामो भूविवराण्यप्यथ च द्यां यद्वद्देवं देवमनुष्यादिषु गूढम् ॥३१॥अनिर्विण्णचेताः समास्थाय यत्नं सुदुष्प्रापमप्यर्थमाप्नोत्यवश्यम् ।मुहुर्विघ्न जालैः सुरा हन्यमाना सुधामप्यवापुर्ह्यनिर्विण्णचित्ताः ॥३२॥यदप्यन्यगात्रप्रतिच्छन्नरूपो दुरन्वेषणः स्याद्गुरुर्नस्तथापि ।स्वभानुदरस्थः शशीव प्रकाशैस्तदीयैर्गुणैरेव वेत्तुं स शक्यः ॥३३॥इक्षुचापागमापेक्षया निर्गतो वर्ष्म तस्य्चितं कृष्णवर्त्मद्युतिः ।विभ्रमाणां पदं सुभ्रुवां भूपतेः प्राप्तुमर्हत्यकामाग्रणीः संयमी ॥३४॥नित्यतृप्ताग्रयाय्याश्रिते निर्वृताः प्राणिनो रोगशोकादिना नेक्षिताः ।दस्युपीडोज्झिताः स्वस्वधर्मे रताः कालवर्षी स्वराण्मेदिनी कामसूः ॥३५॥तदिहाऽऽस्यमपास्य विचेतुं निरवधिसंसृतिजलधेः सेतुम् ।देशिकवरपदकमलं यामो न वृथाऽनेहसमत्र नयामः ॥३६॥इति जलरुहपदवचनं सर्वे मनसि निघाय निराकृतगर्वे ।कांश्चित्तत्र निवेश्य शरीरं रक्षितुमन्ये निरगुरुदारम् ॥३७॥ते चिन्वन्तः शैलाच्छैलं विषयाद्विषयं भुवमनुवेलम् ।प्रापुर्धिक्कृतविबुधनिवेशान् स्फीतानमरुकनृपतेर्देशान् ॥३८॥मृत्वा पुनरप्युत्थितमेनं श्रुत्वा वैन्यदिलीपसमानम् ।त्यक्त्वा विरहजदैन्यममन्दं मत्वाऽऽचार्यं धैर्यमविन्दन ॥३९॥ते च ज्ञात्वा गानविलोलं तरुणीसक्तं धरणीपालम् ।विविशुः स्वीकृतगायकवेषा नगरं विदितसमस्तविशेषाः ॥४०॥राज्ञे ज्ञापितविद्यातिशयास्ते तत्सङ्ग्रहविघृतातिशयाः ।रमणीशतमध्यगमवनीन्द्रं ददृशुस्तारावृतमिव चन्द्रम् ॥४१॥वरचामरकरतरुणीकङ्कणरञ्जितमनोहरपश्चाद्भागम् ।गीतिगतिज्ञोद्गीतश्रुतिसुखतानसमुल्लसदग्रिमदेशम् ॥४२॥घृतचामीकरदण्डसितातपवारणरञ्जितरत्नकिरीटम् ।श्रितविग्रहमिव रतिपतिमाश्रितभुवमिव सान्तःपुरममरेशम् ॥४३॥रुचिरवेषाः समासाद्य तां संसदं नयनसंज्ञावितीर्णासना भूभुजा ।समतिसृष्टास्ततः सुखरं मुर्च्छनापदविदस्ते जगुर्मोहयन्तः सभाम् ॥४४॥भृङ्ग तव सङ्गतिमपास्य गिरिशृङ्गे तुङ्गविटपिनि सङ्गमजुषि त्वदङ्गे ।स्वाङ्गरचिताः सकलुषान्तरङ्गाः सङ्गमकृते भङ्गमुपयन्ति भृङ्गाः ॥४५॥पञ्चशरसमयसञ्चयकृते प्राञ्चं मुञ्चन्निवेह सञ्चरसि प्रपञ्चम् ।पञ्चजनमुख पञ्चमुखमप्यनञ्चंस्त्वं च गतिरिति किञ्च किल वञ्चितोऽसौ ॥४६॥पर्वशशिमुख सर्वमपहाय पूर्वे कुर्वदिह गर्वमनुसृत्य हृदपूर्वम् ।न स्मरसि वस्त्वस्मदीयमिति कस्मात्संस्मर तदस्मर परमस्मदुत्त्त्या ॥४७॥नेतिनेतीत्यादिनिगमवचनेन निपुणं निषिध्य मूर्तमूर्तराशिम् ।यदशक्यनिह्नवं स्वात्मरूपतया जानन्ति कोविदास्तत्त्वमसि तत्त्वम् ॥४८॥खाद्यमुत्पाद्य विश्वमनुप्रविश्य गूढमन्नमयादिकोशतुषजाले ।कवयो विविच्य युक्त्यवघाततो यत्तण्डुलवदाददति तत्वमसि तत्त्वम् ॥४९॥विषमविषयेषु सञ्चारिणोऽक्षाश्वान् दोषदर्शनकशाभिघाततः ।स्वैरं सन्निवर्त्य स्वान्तरश्मिभिर्धीरा बध्नन्ति यत्र तत्त्वमसि तत्त्वम् ॥५०॥व्यावृत्तजाग्रदादिष्वनुस्यूतं तेभ्योऽन्यदिव पुष्पेभ्य इव सुत्रम् ।इति यदौपाधिकत्रयपृथक्त्वेन विदन्ति सूरयस्तत्त्वमसि तवम् ॥५१॥पुरुष एवेदमित्यादिवेदेषु सर्वकारणतया यस्य ।सार्वात्म्यं हाटकस्येव मुकुटादितादाम्यं सरसमाम्नायते तत्त्वमसि तत्त्वम् ॥५२॥यश्चाहमत्र वर्ष्मणि भामि सोऽसौ योऽसौ विभाति रविमण्डले सोऽहमिति ।वेदवादिनो व्यतिहारतो यदध्यापयन्ति यत्नतस्तत्वमसि तत्त्वम् ॥५३॥वेदानुवचनसदानमुखघमः श्रद्धयाऽनुष्ठितैर्विद्यया युक्तैः ।विविदषन्त्यत्यन्त विमलस्वान्ता ब्राह्मणा यद्ब्रह्म तत्त्वमसि तत्त्वम् ॥५४॥शमदमोपरमादिसाधनैर्धीराः स्वात्मनाऽऽत्मनि यदन्विष्य कृतकृत्याः ।अधिगतामितसच्चिदानन्दरूपा न पुनरिह खिद्यन्ते तत्त्वमसि तत्त्वम् ॥५५॥अविगीतमेवं नरपतिराकर्ण्य वर्णितात्मार्थम् ।विससर्ज पूरिताशानेतान्निर्ज्ञातकर्तव्यः ॥५६॥उद्बोधितः सदसि तैरवलम्ब्य मूर्च्छां निर्गत्य राजतनुतो निजमाविवेश ।गात्रं पुरोदितनयेन स देशिकेन्द्रः संज्ञामवाप्य च पुरेव समुत्थितोऽभूत् ॥५७॥तदेनु कुहरमेत्य पूर्वदृष्टं नरपतिभृत्यविसृष्टपावकेन ।निजवपुरवलोक्य दह्यमानं झटिति स योगधुरन्धरो विवेश ॥५८॥सपदि दहनशान्तये महान्तं नरमृगरूपमधोक्षजं शरण्यम् ।स्तुतिभिरधिकलालसत्पदाभिस्त्वरितमतोषयदात्मवित्प्रधानः ॥५९॥नरहरिकृपया ततः प्रशान्ते प्रबलतरे स हुताशने प्रविष्टः ।निरगमदचलेन्द्रकन्दरान्ताद्विधुरिव वक्त्रबिलाद्विधुन्तुदस्य ॥६०॥तदनु शमधनाधिपो विनेयैश्चिरविरहादतिवर्धमानहार्दैः ।सनक इव वृतः सनन्दनाधैर्जिगमिषुराजनि मण्डनस्य गेहम् ॥६१॥तदनु सदनमेत्य पूर्वदृष्टं गगनपथाद्गलितक्रियाभिमानम् ।विषयविषनिवृत्ततर्षमुच्चैरतनुत मण्डनमिश्रमक्षिपात्रम् ॥६२॥तं समीक्ष्य नभश्च्युतं स च प्राञ्जलिः प्रणतपूर्वविग्रहः ।अर्हणाभिरभिपूज्य तस्थिवानीक्षणैरनिमिषैः पिबन्निव ॥६३॥स विश्वरूपो बत सत्यवादी पपात पादाम्बुजयोर्यतीशः ।गृहं शरीरं मम यच्च सर्वं तवेति वादी मुदितो महात्मा ॥६४॥प्रेयसा प्रथममर्चितं मुनिं प्राप्तविष्टरमुपस्थितं बुधैः ।प्रश्रयावनतमूर्तिरब्रवीच्छारदाऽभिवदने विशारदा ॥६५॥ईशानः सर्वविद्यानामीश्वरः सर्वदेहिनाम् ।ब्रह्मणोऽधिपतिर्ब्रह्मन् भवान् साक्षात्सदाशिवः ॥६६॥सदसि मामविजित्य तथैव यन्मदनशासन कामकलास्वपि ।तदवबोधकृते कृतिमाचरस्तदिह मर्त्यचरित्रविडम्बनम् ॥६७॥त्वया यदावां विजितौ परात्मन्न त्रपामावहतीड्य सर्वथा ।कृताभिभूतिर्न मयूखशालिना निशाकरादेरपकीर्तये खलु ॥६८॥आदावात्म्यं धाम कामं प्रयास्याम्यर्हस्यच्छं मामनुज्ञातुमर्हन् ।इत्यामन्त्र्यान्तर्हितां योगशक्त्या पश्यन् देवीं भाष्यकर्ता बभाषे ॥६९॥जानामि त्वां देवि देवस्य धातुर्भार्यामिष्टामष्टमूर्तेः सगर्भ्याम् ।वाचामाद्यां देवतां विश्वगुप्त्यै चिन्मात्रामप्यात्तलक्ष्म्यादिरूपाम् ॥७०॥तस्मादस्मत्कल्पितेष्वर्च्यमाना स्थानेषु त्वं शारदाख्या दिशन्ती ।इष्टानर्थानृष्यशृङ्गादिकेषु क्षेत्रेष्वास्स्व प्राप्तसत्सन्निधाना ॥७१॥तथेति संश्रुत्य सरस्वती सा प्रायात्प्रियं धाम पितामहस्य ।अदर्शनं तत्र समीक्ष्य सर्व आकस्मिकं विस्मयमीयुरुच्चैः ॥७२॥तस्या यतीशजितभर्तृयतित्वजातवैधव्यसम्भवशुचा भुवमस्पृशन्त्याः ।अन्तर्धिमेक्ष्य मुदितोऽजनि मण्डनोऽपि तत्साधु वीक्ष्य मुमुदे यतिशेखरश्च ॥७३॥मण्डनमिश्रोऽप्यथ विधिपूर्वं दत्वा वित्तं यागे सर्वम् ।आत्मारोपितशोचिष्केशो भेजे शङ्करमस्तमिताशः ॥७४॥संन्यासगृह्यविधिना सकलानि कर्माण्यह्नाय शङ्करगुरुर्विदुषोऽस्य कुर्वन् ।कर्णे जगौ किमपि तत्त्वमसीति वाक्यं कर्णेजपं निखिलसंसृतिदुःखहानेः ॥७५॥संन्यासपूर्वं विधिवद्बिभिक्षे पश्चादुपादिक्षदथाऽऽत्मतत्त्वम् ।आचार्यवर्यः श्रुतिमस्तकस्थं तदादिवाक्यं पुनरावभाषे ॥७६॥त्वं नासि देहो घटवद्ध्यनात्मा रूपादिमत्त्वादिह जातिमत्वात् ।ममेति भेदप्रथनादभेदसम्प्रत्ययं विद्धि विपर्ययोत्थम् ॥७७॥लोप्यो हि लोप्यव्यतिरिक्तलोपको दृष्टो घटादिः खलु तादृशी तनुः ।दृश्यत्वहेतोर्व्यतिरेकसाधने त्वत्तः शरीरं कथमात्मतागतिः ॥७८॥नापीन्द्रियाणि खलु तानि च साधनानिदात्रादिवत्कथममीषु तवाऽऽत्मभावः ।चक्षुर्मदीयमिति भेदगतेरमीषांस्वप्नादिभावविरहाच्च घटादिसाम्यम् ॥७९॥यद्यात्मतैषां समुदायगा स्यादेकव्ययेनापि भवेन्न तद्धीः ।प्रत्येकमात्मत्वमुदीर्यते चेन्नश्येच्छरीरं बहुनायकत्वात् ॥८०॥आत्मत्वमन्यतमगं यदि चक्षुरादेश्चक्षुर्विनाशसमये स्मरणं न हि स्यात् ।एकाश्रयत्वनियमात्स्मरणानुभूत्योर्दृष्टश्रुतार्थविषयावगतिश्च न स्यात् ॥८१॥मनोऽपि नाऽऽत्मा करणत्वहेतोर्मनो मदीयं गतमन्यतोऽभूत् ।इति प्रतीतेर्व्यभिचारितायाः सुप्तौ च तच्चिन्मनसोर्विविक्तता ॥८२॥अनयैव दिशा निराकृता न च बुद्धेरपि चाऽऽत्मता स्फुटम् ।अपि भेदगतेरनन्वयात्करणादाविव बुद्धिमुज्झ भोः ॥८३॥नाहङ्कृतिश्चरमधातुपदप्रयोगात् प्राणा मदीया इति लोकवादात् ।प्राणोऽपि नाऽऽत्मा भवितुं प्रगल्भः सर्वोपसंहारिणि सन् सुषुप्ते ॥८४॥एवं शरीराद्यविविक्त आत्मा त्वंशब्दवाच्योऽभिहितोऽत्र वाक्ये ।तदोदितं ब्रह्म जगन्निदानं तथा तथैक्यं पदयुग्मबोध्यम् ॥८५॥कथं तदैक्यं प्रतिपादयेद्वचः सर्वज्ञसम्मृढपदाभिषिक्तयोः ।न ह्येकता सन्तमसप्रकाशयोः सन्दृष्टपूर्वा न च दृश्यतेऽधुना ॥८६॥सत्यं विरोधगतिरस्ति तु वाच्यगेयं सोऽयं पुमानितिवदत्र विरोधहानेः ।आदाय वाच्यमविरोधि पदद्वयं तल्लक्ष्यैक्यबोधनपरं ननु को विरोधः ॥८७॥जहीहि देहादिगतामहन्धियं चिरार्जितां कर्मशठेः सुदुस्त्यजाम् ।विवेकबुद्धया परमेव सन्ततं ध्यायाऽऽत्मभावेन यतो विमुक्तता ॥८८॥साधारणे वपुषि काकशृगालवह्निमात्रादिकस्य ममतां त्यज दुःखहेतुम् ।तद्वज्जहीहि बहिरर्थगतां च विद्वंश्चित्तं बधान परमात्मनि निर्विशङ्कम् ॥८९॥तीरात्तीरं सञ्चरन् दीर्घमत्स्यस्तीराद्भिन्नो लिप्यते नापि तेन ।एवं देही सञ्चरजाग्रदादौ तस्माद्भिन्नो नापि तद्धर्मको वा ॥९०॥जाग्रत्स्वप्नसुषुप्तिलक्षणमदोऽवस्थात्रयं चित्तनौत्वय्येवानुगते मिथो व्यभिचरद्धीसंज्ञमज्ञानतः ।क्लृप्तं रज्ज्विदमंशके वसुमतीच्छिद्राहिदण्डादिवत्तद्ब्रह्मासि तुरीयमुज्झितभयं मा त्वं पुरेव भ्रमीः ॥९१॥प्रत्यक्तमं परपदं विदुषोऽन्तिकस्थंदूरं तदेव परिमूढमतेर्जनस्य ।अन्तर्बहिश्च चितिरस्ति न वेति कश्चि-चिचन्वन् बहिर्बहिरहो महिमाऽऽत्मशक्तेः ॥९२॥यथा प्रपायां बहवो मिलन्ते क्षणे द्वितीये बत भिन्नमार्गाः ।प्रयान्ति तद्वद्बहुनामभाजो गृहे भवन्त्यत्र न कश्चिदन्ते ॥९३॥सुखाय यद्यत् क्रियते दिवानिशं सुखं न किञ्चिद्धहुदुःखमेव तत् ।विना न हेतुं सुखजन्म दृश्यते हेतुश्च हेत्वन्तरसन्निधौ भवेत् ॥९४॥परिपक्वमतेः सकृच्छ्रुतं जनयेदात्मधियं श्रुतेर्वचः ।परिमन्दमतेः शनैः शनैर्गुरुपादाब्जनिषेवणादिना ॥९५॥प्रणवाभ्यसनोक्तकर्मणोः करणेनापि गुरोर्निषेवणात् ।अपगच्छति मानसं मलं क्षमते तत्त्वमुदीरितं ततः ॥९६॥मनोऽनुवर्तेत दिवानिशं गुरौ गुरुर्हि साक्षाच्छिव एव तत्त्ववित् ।निजानुवृत्या परितोषितो गुरुर्विनेयववक्त्रं कृपया हि वीक्षते ॥९७॥सा कल्पवल्लींव निजेष्टमर्थं फलत्यवश्यं किमकार्यमस्याः ।आज्ञा गुरोस्तत्परिपालनीया सा मोदमानीय विधातुमिष्टा ॥९८॥गुरूपदिष्टा निजदेवता चेत्कुप्येत्तदा पालयिता गुरुः स्यात् ।रुष्टे गुरौ पालयिता न कश्चिद्गुरौ न तस्माज्जनयेत कोपम् ॥९९॥पुमान् पुमर्थं लभतेऽपि चोदितं भजजन्निवृत्तः प्रतिषिद्धसेवनात् ।विधिं निषेधं च निवेदयत्यसौ गुरोरनिष्टच्युतिरिष्टसम्भवः ॥१००॥आराधितं दैवतमिष्टमर्थं ददाति तस्याधिगमो गुरोः स्यात् ।नो चेत्कथं वेदितुमीश्वरोऽयमतीन्द्रियं दैवतमिष्टदं नः ॥१०१॥तुष्टे गुरौ तुष्यति देवतागणो रुष्टे गुरौ रुष्यति देवतागणः ।सदाऽऽत्मभावेन सदात्मदेवताः पश्यन्नसौ विश्वमयो हि देशिकः ॥१०२॥एवं पुराणगुरुणा परमात्मतत्त्वं शिष्टो गुरोश्चरणयोर्निपपात तस्य ।धन्योऽस्म्यहं तव गुरो करुणाकटाक्षपातेन पातिततमा इति भाषमाणः ॥१०३॥ततः स सम्प्राप्य सुरेश्वराख्यां दिगङ्गनाभिः क्रियमाणसख्याम् ।सच्छिष्यतां भाष्यकृतश्च मुख्यामवाप तुच्छीकृतधातृसौख्याम् ॥१०४॥निखिलनिगमचूडाचिन्तया हन्त यावत्स्वमनवधिकसौख्यं निर्विशन्निर्विशङ्कम् ।बहुतिथमभितोऽसौ नर्मदां नर्मदां तांमगधभुवि निवासं निर्ममे निर्ममेन्द्रः ॥१०५॥इति वशीकृतमण्डनपण्डितः प्रणतसत्करणत्रयदण्डितः ।सकलसद्गुणमण्डलमण्डितः स निरगात् कृतदुर्मतखण्डितः ॥१०६॥कुसुमितविविधपलाशभ्रमदलिकुलगीतमधुरस्वनम् ।पश्यन् विपिनमयासीदाशां कीनाशपालितामेषः ॥१०७॥तत्र महाराष्ट्रमुखे देशे ग्रन्थान् प्रचारयन् प्राज्ञतमः ।शमितपतान्तरमानः शनकैः सनकोपमोऽगमच्छ्रीशैलम् ॥१०८॥प्रफुल्लमल्लिकावनप्रसङ्गसङ्गतामितप्रकाण्ड गन्धबन्धुरप्रवातधूतपादपम् ।सदामदद्विपाधिपप्रहारशूरकेसरिव्रजं भुजङ्गभूषणप्रियं स्वयम्भुकौशलम् ॥१०९॥कलिकल्मषभङ्गायां सोऽद्रेराराच्चलत्तरङ्गायाम् ।अधरीकृततुङ्गायां सस्नौ पातालगामिगङ्गायाम् ॥११०॥नमन्मोहभङ्गं नमोलेहिशृङ्गं त्रुटत्पापसङ्गं रटत्पक्षिभृङ्गम् ।समाश्लिष्टगङ्गं प्रहृष्टान्तरङ्गं तमारुह्य तुङ्गं ददर्शेशलिङ्गम् ॥१११॥प्रणमद्भवबीजभर्जनं प्रणिपत्यामृतसम्पदार्जनम् ।प्रमुमोद स मल्लिकार्जुनं भ्रमराम्बासचिवं नतार्जुनम् ॥११२॥तीररुहैः कृष्णायास्तीरेऽवात्सीत्तिरोहितोष्णायाः ।आवर्जिततृष्णाया आचार्येन्द्रो निरस्तकार्ष्यायाः ॥११३॥तत्रातिचित्रपदमत्रभवान् पवित्रकीर्तिर्विचित्रसुचरित्रनिधिः सुधीन्द्रान् ।अग्राहयत्कृतमसद्ग्रहनिग्रहार्थमग्र्यान् समग्रसुगुणान् महदग्रयायी ॥११४॥अध्यापयन्तमसदर्थनिरासपूर्वं किन्त्वन्यतीर्थयशसं श्रुतिभाष्यजातम् ।आक्षिप्य पाशुपतवैष्णववीरशैवमाहेश्वराश्च विजिता हि सुरेश्वराद्यैः ॥११५॥के चद्विसृज्य मतमात्म्यममुष्य शिष्य-भावं गता विगतमत्सरमानदोषाः ।अन्ये तु मन्युवशमेत्य जघन्यचित्तानिन्युः क्षणं निधनमस्य निरीक्षमाणाः ॥११६॥वेदान्तीकृतनीचशूद्रवचसो वेदाः स्वयं कल्पनाःपापिष्ठाः स्वमपि त्रयीपथमपि प्रायो दहन्तः खलाः ।साक्षाद्ब्रमणि शङ्करे विदधति स्पर्धानिबद्धां मतिंकृष्णे पौण्ड्रकवत्तथा न चरमां किं ते लभन्ते गतिम् ॥११७॥वाणी काणभुजी च नैव गणिता लीना क्वचित्कापिलीशैवं चाशिवभावमेति भजते गर्हापदं चार्हतम् । -दौगं दुर्गतिमश्नुते भुवि जनः पुष्णाति को वैष्णवंनिष्णातेषु यतीशसूक्तिषु कथाकेलीकृतासूक्तिषु ॥११८॥तथागतकथा गता तदनुयायि नैयायिकंवचोऽजनि न चोदितो वदति जातु तौतातितः ।विदग्धति न दग्धघीर्विदितचापलं कापिलंविनिर्दयविनिर्दलद्विमतसङ्करे शङ्करे ॥११९॥इति श्रीमाधवीये तत्कलाज्ञत्वप्रपञ्चनम् ।सङ्क्षेपशङ्करजये सर्गोऽयं दशमोऽभवत् ॥१०॥आदितः श्लोकाः ११४८ N/A References : N/A Last Updated : January 23, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP