शङ्करदिग्विजयम् - अथ द्वादशः सर्गः

शङ्करदिग्विजयम्


अथैकदाऽसौ यतिसार्वभौमस्तीर्थानि सर्वाणि चरन् सतीर्थ्यैः ।
घोरात् कलेर्गोपितधर्ममागाद्गोकर्णमभ्यर्णचलार्णवौघञ्चिम् ॥१॥

विरिञ्चिनाम्भोरुहनाभवन्द्यं प्रपञ्चनाट्याद्भुतसूत्रधारम् ।
तुष्टाव वामार्धवधूटिमस्तदुष्टावलेपं प्रणमन् महेशम् ॥२॥

वपुः स्मरामि क्वचन स्मरारेर्बलाहकाद्वैतवदावदश्रि ।
सौदामिनीसाघितसम्प्रदायसमर्थनादेशिकमन्यतश्च ॥३॥

वामाङ्गसीमाङ्कुरदंशुतृण्याचञ्चन्मृगाञ्चत्तरदक्षपाणि ।
सव्यान्यशोभाकलमाग्रभक्षसाकाङ्क्षकीरान्यकरं महोऽस्मि ॥४॥

महीघ्रकन्यागलसङ्गतोऽपि माङ्गल्यतन्तुः किल हालहालम् ।
यत्कण्ठदेशेऽकृत कुण्ठशक्तिमैक्यानुभावादहमस्मि भूमा ॥५॥

गुणत्रयातीतविभाव्यमित्थं गोकर्णनाथं वचसाऽर्चयित्वा ।
तिस्रः स रात्रीस्त्रिजगत्पवित्रे क्षेत्रे मुदैष क्षिपति स्म कालम् ॥६॥

वैकुण्ठकैलासविवर्तभूतं हरन्नताघं  हरिशङ्कराख्यम् ।
दिव्यस्थलं देशिकसार्वभौमस्तीर्थप्रवासी नचिरादयासीत् ॥७॥

भ्रमापनोदाय भिदावदानामद्वैतमुद्रामिह दर्शयन्तौ ।
आराध्य देवौ हरिशङ्करौ स द्वयर्थाभिरित्यर्चयति स्म वाग्भिः ॥८॥

वन्द्यं महासोमकलाविलासं गामादरेणाऽऽकलयन्ननादिम् ।
मैनं महःकिञ्चन दिव्यमङ्गीकुर्वन् विभुर्मे कुशलानि कुर्यात् ॥९॥

यो मन्दरागं दधदादितेयान सुधाभुजः स्माऽऽतनुते विषादी ।
स्वामद्रिलोलोचितचारुमूर्ते कृपामपारां स भवान् विधत्ताम् ॥१०॥

उल्लासयन्यो महिमानमुच्चैः स्फुरद्वराहीशकलेवरोऽभूत् ।
तस्मै विदध्मः करयोरजस्रं सायन्तनाम्भोरुहसामरस्यम् ॥११॥

समावहन्  केसरितां वरां यः सुरद्विषत्कुञ्जरमाजघान ।
प्रह्लादमुल्लासितमादधानं पञ्चाननं तं प्रणुमः पुराणम् ॥१२॥

उदैत्तु बल्याहरणाभिलाषो यो वामनं हार्यजिनं वसानः ।
तपांसि कान्तारहितो व्यतानीदायोऽवतादाश्रमिणामयं नः ॥१३॥

येनाधिकोद्यत्तरवारिणाऽऽशु जितोऽर्जुनः संङ्गररङ्गभूमौ ।
नक्षत्रनाथस्फुरितेन तेन नाथेन केनापि वयं सनाथाः ॥१४॥

विलासिनाऽलीकभवेन धाम्ना कामं द्विषन्तं स दशास्यमस्यन् ।
(दशास्यमस्यन् दशेन्द्रियवारकं कामम्)
देवो घरापत्यकुचोष्मसाक्षी देयादमन्दात्मसुखानुभूतिम् ॥१५॥

उत्तालकेतुः स्थिरधर्ममूर्तिर्हालाहलस्वीकरणोग्रकण्ठः ।
स रोहिणीशानिशचुम्ब्यमाननिजोत्तमाङ्गोऽवतु कोऽपि भूमा ॥१६॥

विनायकेनाऽऽकलिताहितापं निषेदुषोत्सङ्गभुवि प्रहृष्यन् ।
यः पूतनामोहकचित्तवृत्तिरव्यादसौ कोऽपि कलापभूषः ॥१७॥

पाठीनकेतोर्जयिने प्रतीतसर्वज्ञभावाय दयैकसीम्ने ।
प्रायः क्रतुद्वेषकृतादराय बोधैकधाम्ने स्पृहयामि भूम्ने ॥१८॥

व्यतीत्य चेतोविषयं जनानां विद्योतमानाय तमोनिहन्त्रे ।
भूम्ने सदावासकृताशयाय भूयांसि मे सन्तुतमां नमांसि ॥१९॥

वृषाकपायीवरयोः सपर्यां वाचाऽतिमोचारसयेति तन्वन् ।
मुनिप्रवीरो मुदितात्मकामो मूकाम्बिकायाः सदनं प्रतस्थे ॥२०॥

अङ्के निधाय व्यसुमात्मजातं महाकुलौ हन्त मुहुः प्ररुद्य ।
तदेकपुत्रौ द्विजदम्पतीं स दृष्ट्वा दयाधीनतया शुशोच ॥२१॥

अपारमञ्चत्यथ शोकमस्मिन्नभूयतोच्चैरशरीवा वा ।
जायेत संरक्षितुमक्षमस्य जनस्य दुःखाय परं दयेति ॥२२॥

आकर्ण्य वाणीमशरीरिणीं तामसाविति व्याहरति स्म विज्ञः ।
जगत्त्रयीरक्षणदक्षिणस्य सत्यं तवैकस्य तु शोभते सा ॥२३॥

इतीरयत्येव यतौ द्विजातेः सुतः सुखं सुप्त इवोदतिष्ठत् ।
समीपगैः सर्वजनीनमस्य चारित्र्यमालोक्य विसिष्मिये च ॥२४॥

रम्योपशल्यं कृतमालसालरसालहिन्तालतमालशालैः ।
सिद्धिस्थलं साधकसम्पदां तन्मूकाम्बिकायाः सदनं जगाहे ॥२५॥

उच्चावचानन्दजबाष्पमुच्चैरुद्गीर्णरोमाञ्चमुदारभक्तिः ।
अम्बामिहापारकृपावलम्बां सम्भावयन्नस्तुत निस्तुलं सः ॥२६॥

पारेपरार्धं पदपद्मभाःसु षष्ट्युत्तरं ते त्रिशतं तु भासः ।
आविश्य वह्न्यर्कसुधामरीचीनालोकवन्त्यादधते जगन्ति ॥२७॥

अन्तश्चतुःषष्ट्युपचारभेदैरन्तेवसत्काण्डपटप्रदानैः ।
आवहनाद्यैस्तत्र देवि नित्यमाराधनामादधते महान्तः ॥२८॥

अम्बोपचारेष्वधिसिन्धुषष्टि शुद्धाज्ञयोः शुद्दिदमेकमेकम् ।
सहस्रपत्रे द्वितये च साधु तन्वन्ति धन्यास्तव तोषहेतोः ॥२९॥

आराधनं ते बहिरेव केचिदन्तर्बहिश्चैकतमेऽन्तरेव ।
अन्ये परे त्वम्ब कदापि कुर्युर्नैव त्वदैक्यानुभवैकनिष्ठाः ॥३०॥

अष्टोत्तरत्रिंशति याः कलास्ताः स्वर्ध्याः कलाः पञ्च निवृत्तिमुख्याः ।
तासामुपर्यम्ब तवाङ्घ्रिपद्मं विद्योतपानं विबुधा भजन्ते ॥३१॥

कालाग्निरूपेण जगन्ति दग्ध्वा सुधात्मनाऽऽप्लाव्य समुत्सृजन्तीम् ।
ये त्वामवन्तीममृतात्मनैव ध्यायन्ति ते सृष्टिकृतो भवन्ति ॥३२॥

ये प्रत्यभिज्ञामतपारविज्ञा धन्यास्तु ते प्राग्विदितां गुरूक्त्या ।
सैवाहमस्मीति समाधियोगात् त्वां क्यत्यभिज्ञाविषयं विदध्युः ॥३३॥

आधारचक्रे च तदुत्तरस्मिन्नाराधयन्त्यैहिकभोगलुब्धाः ।
उपासते ये मणिपूरके त्वां वासस्तु तेषां नगराद्बहिस्ते ॥३४॥

अनाहते देवि भजन्ति ये त्वामन्तःस्थितिस्त्वन्नगरे तु तेषाम् ।
शुद्धाज्ञयोर्ये तु भजन्ति तेषां क्रमेण सामीप्यसमानभोगौ ॥३५॥

सहस्रपत्रे ध्रुवमण्डलाख्ये सरोरुहे त्वामनुसन्दधानः ।
चतुर्विधैक्यानुभवास्तमोहः सायुज्यमम्बाञ्चति साधकेन्द्रः ॥३६॥

श्री चक्रषट्चक्रकयोः पुरोऽथ श्रीचक्रमन्वोरपि चिन्तितैक्यम् ।
चक्रस्य मन्त्रस्य ततस्तवैक्यं क्रमाद्नुध्यायति साधकेन्द्रः ॥३७॥

इति तां वचनैः प्रपूज्य भैक्षौदनमात्रेण स तुष्टिमान् कृतार्थः ।
बहुसाधकसंस्तुतः कियन्तं समयं तत्र निनाय शान्तचेताः ॥३८॥

श्रयति स्म ततोऽग्रहारकं श्रीबलिसंज्ञं स कदाचन स्वशिष्यैः ।
अनुगेहहुताग्निहोत्रदुग्धधप्रसरत्पावनगन्धलोभनीयम् ॥३९॥

यतोऽपमृत्युर्बहिरेव याति भ्रान्त्वा प्रदेशं शनकैरलब्ध्वा ।
दृष्ट्वा द्विजातीन्निजकर्मनिष्ठान दुरान्निषिद्धं त्यजतोऽप्रमत्तान् ॥४०॥

यस्मिन् सहस्रद्वितयं जनानामग्न्याहितानां श्रुतिपाठकानाम् ।
वसत्यवश्यं श्रुतिचोदितासु क्रियासु दक्षं प्रथितानुभावम् ॥४१॥

मध्ये वसन् यस्य करोति भूषां पिनाकपाणिर्गिरिजासहायः ।
हारस्य यष्टेस्तरलो यथा वै रात्रेरिवेन्दुर्गगनाधिरूढः ॥४२॥

हस्तामलङ्कादीनां शिष्यत्वेन ग्रहणं
तत्र द्विजः कश्चन शास्त्रवेदी प्रभाकराख्यः प्रथितानुभावः ।
प्रवृत्तिशास्त्रैकरतः सुबुद्धिरास्ते क्रतून्मीलितकीर्तिबृन्दः ॥४३॥

गावो हिरण्यं धरणी समग्रा सद्बान्धवा ज्ञातिजनाश्च तस्य ।
सन्त्येव किं तैर्न हि तोष एभिः पुत्रो यदस्याजनि मुग्धचेष्टः ॥४४॥

न वक्ति किञ्चिन्न श‍ृणोति किञ्चित् ध्यायन्निवास्ते किल मन्दचेष्टः ।
रूपेषु मारो महसा महस्वान् मुखेन चन्द्रः क्षमया महीसमः ॥४५॥

ग्रहग्रहात् किं जडवद्विचेष्टते किं वा स्वभावादुत पूर्वकर्मणः ।
सञ्चिन्तयं स्तिष्ठति तत्पिताऽनिशं समागतान प्रष्टुमना बहुश्रुतान् ॥४६॥

शिष्यैः प्रशिष्यैर्बहुपुस्तभारैः समागतं कञ्चन पूज्यपादम् ।
शुश्राव तं ग्राममनिन्दितात्मा निनाय सुनुं निकटं स तस्य ॥४७॥

न शून्यहस्तो नृपमिष्टदैवं गुरुं च यायादिति शास्त्रवित् स्वयम् ।
सोपायनः प्राप गुरुं व्यशिश्रणत् फलं ननामास्य च पादपङ्कजे ॥४८॥

अनीनमत्तं च तदीयपादयोर्जडाकृतिं भस्मनिगूढवह्निवत् ।
स नोदतिष्ठत् पतितः पदाम्बुजे प्रायः स्वजाड्यं प्रकटं विधित्सति ॥४९॥

उपात्तहस्तः शनकैरवाङ्मुखं तं देशिकेन्द्रः कृपयोदतिष्ठिपत् ।
उत्थापिते स्वे तनये पिताब्रवीत् वद प्रभो जाड्यममुष्य किङ्कृतम् ॥५०॥

वर्षाण्यतीयुर्भगवन्ननुष्य पञ्चाष्ट जातस्य विनाऽवबोधम् ।
नाध्यैष्ट वेदानलिखच्च नार्णानचीकरं चोपनयं कथञ्चित् ॥५१॥

क्रीडापरः क्रोशति बालवर्गस्तथाऽपि न क्रीडितुमेष याति ।
बालाः शठा मुग्धमिमं निरीक्ष्य सन्ताडयन्तेऽपि न रोषमेति ॥५२॥

भुङ्क्ते(ङ्के?) कदाचिन्न तु जातु भुङ्गे स्वेच्छाविहारी न करोति चोक्तम् ।
तथापि रुष्टेन न ताड्यतेऽयं स्वकर्मणा वर्धत एव नित्यम् ॥५३॥

इतीरयित्वोपरते च विप्रे पप्रच्छ तं शङ्करदेशिकेन्द्रः ।
कस्त्वं किमेवं जडवत् प्रवृत्तः स चाब्रवीद्बालवपुर्महात्मा ॥५४॥

नाहं जडः किन्तु जडः प्रवर्तते मत्सन्निधानेन न सन्दिहे गुरो ।
षडूर्मिषड्भावविकारवर्जितं सुखैकतानं परमस्मि तत्पदम् ॥५५॥

(१ जन्म, २ मरणम्, ३ क्षुत्, ४ पिपासा, ५ शोकः,६ मोहः इति षडूर्मयः ।
१ जायते, २ अस्ति, ३ वर्धते, ४ परिणमते,५ अपक्षीयते, ६ नश्यति इति षट्भावविकाराः ॥)
ममेव भूयादनुभूतिरेषा मुमुक्षुवर्गस्य निरूप्य विद्वन् ।
पद्यैः परैर्द्वाद(रैर्द्वि?)दिशभिर्बभाषे चिदात्मतत्वं विधुतप्रपञ्चम् ॥५६॥

प्रकाशयन्ते परमात्मतत्त्वं करस्थधात्रीफलवद्यदेकम् ।
श्लोकास्तु हस्तामलकाः प्रसिद्धास्तत्कर्तुराख्यापि तथैव वृत्ता ॥५७॥

विनोपदेशं स्वत एव जातः परात्मबोधो द्विजवर्यसूनोः
व्यस्मेष्ट सम्प्रेक्ष्य स देशिकेन्द्रो न्यधात्स्वहस्तं कृपयोत्तमाङ्गे ॥५८॥

सुते निवृत्ते वचनं बभाषे स देशिकेन्द्रः पितरं तदीयम् ।
वस्तुं न योग्यो भवता सहायं न तेऽमुनाऽर्थो जडिमास्पदेन ॥५९॥

पुराभवाभ्यासवशेन सर्वं(?) स वेत्ति सम्यङ् न च वक्ति किञ्चित् ।
नो चेत्कथं स्वानुभवैकगर्भपद्यानि भाषेत निरक्षरास्यः ॥६०॥

न सक्तिरस्यास्ति गृहादिगोचरा नात्मीयदेहे भ्रमतोऽस्य विद्यते ।
तादात्म्यताऽन्यत्र ममेति वेदनं यदा न सा स्वे किमु बाह्यवस्तुषु ॥६१॥

इतीरयित्वा भगवान् द्विजात्मजं ययौ गृहीत्वा दिशमीप्सितां पुनः ।
विप्रोऽप्यनुव्रज्य ययौ स्वमन्दिरं कियत्प्रदेशं स्थिरधीबहुश्रुतः ॥६२॥

ततः शतानन्दमहेन्द्रपूर्वैः सुपर्वबृन्दैरुपगीयमानः ।
पद्माङ्घ्रिमुख्यैः सममाप्तकामक्षोणीपतिः श‍ृङ्गगिरिं प्रतस्थे ॥६३॥

यत्राधुनाऽप्युत्तममृष्यश‍ृङ्गस्तपश्चरत्यात्मभृदन्तरङ्गः ।
संस्पर्शमात्रेण वितीर्णभद्रा विद्योतते यत्र च तुङ्गभद्रा ॥६४॥

अभ्यागतार्चाल्पितकल्पशाखाः कूलङ्कषाधीतसमस्तशाखाः
इज्याशतैर्यत्र समुल्लसन्तः शान्तन्तराया निवसन्ति सन्तः ॥६५॥

अध्यापयामास स भाष्यमुख्यान् ग्रन्थान्निजांस्तत्र मनीषिमुख्यान ।
आकर्णनप्राप्यमहापुमर्थानादिष्ट विद्याग्रहणे समर्थान् ॥६६॥

मन्दाक्षनम्रं कलयन्नशेषं पराणुदत् प्राणितमांस्यशेषम् ।
निरस्तजीवेश्वरयोर्विशेषं व्याचष्ट वाचस्पतिनिर्विशेषम् ॥६७॥

प्रकल्प्य तन्त्रेन्द्रविमानकल्पं प्रासादमाविष्कृतसर्वशिल्पम् ।
प्रवर्तयामास स देवतायाः पूजामजाद्यैरपि पूजितायाः ॥६८॥

या शारदेत्यभिधां वहन्ती कृतां प्रतिज्ञां प्रतिपालयन्ती ।
अद्यापि श‍ृङ्गेरिपुरे वसन्ती प्रद्योततेऽभीष्टवरान् दिशन्ती ॥६९॥

चित्तानुवर्ती निजधर्मचारी भूतानुकम्पी तनुवाग्विभूतिः ।
कश्चिद्विनेयोऽजनि देशिकस्य यं तोडकाचार्यमुदाहरन्ति ॥७०॥

स्नात्वा पुरा क्षिपति कम्बलवस्खमुख्यैरुच्चासनं मृदु समं स ददाति नित्यम् ।
संलक्ष्य दन्तपरिशोधनकाष्ठमग्र्यं बाह्यादिकं गतवते सलिलादिकं च ॥७१॥

श्रीदेशिकाय गुरवे तनुमार्जवस्त्रं विश्राणयत्यनुदिनं विनयोपपन्नः ।
श्रीपादपद्मयुगमर्दनकोविदश्च छायेव देशिकमसौ भृशमन्वयाद्यः ॥७२॥

गुरोः समीपे न तु जातु जृम्भते प्रसारयन्नो चरणौ निषीदति ।
नोपेक्षते वा बहु वा न भाषते न पृष्ठदर्शी पुरतोऽस्य तिष्ठति ॥७३॥

तिष्ठन् गुरौ तिष्ठति सम्प्रयाते गच्छन् ब्रुवाणे विनयेन श‍ृण्वन् ।
अनुच्यमानोऽपि हितं विधत्ते यच्चाहितं तच्च तनोति नास्य ॥७४॥

तस्मिन् कदाचन विनेयवरे स्वशाटीप्रक्षालनाय गतवत्यपवर्तनीगाः ।
व्याख्यानकर्मणि तदागममीक्षमाणो भक्तेषु वत्सलतया विललम्ब एषः ॥७५॥

शान्तिपाठमथ कर्तुमसङ्ख्येषूद्यतेषु स विनेयवरेषु ।
स्थीयतां गिरिरपि क्षणमात्रादेष्यतीति समुदीरयति स्म ॥७६॥

तां निशम्य निगमान्तगुरूक्तिं मन्दधीरनधिकार्यपि शास्त्रे ।
कि प्रतीक्ष्यत इति स्म ह भित्तिः पद्मपादमुनिना समदर्शि ॥७७॥

तय गर्वमपहर्तुमखर्वं  स्वाश्रयेषु करुणातिशयाच्च ।
व्यादिदेश स चतुर्दश विद्याः सद्य एव मनसा गिरिनाम्ने ॥७८॥

सोऽधिगम्य तदनुग्रहमग्र्यं तत्क्षणेन विदिताखिलविद्यः ।
ऐट्ट(ष्ट?)देशिकवरं परतत्त्वव्यञ्जकैर्ललिततोटकवृत्तैः ॥७९॥

श्रीमद्देशिकपादपङ्कजयुगीमूला तदेकाश्रया
तत्कारुण्यसुधावसेकसहिता तद्भक्तिसद्वल्लरी ।
हृद्यं तोटकवृत्तवृन्तरुचिरं पद्यात्मकं सत्फलं
लेभे भोक्तुमनोतिसत्तमशुकैरास्वायमानं मुहुः ॥८०॥

येनौन्नत्यमवापिता कृतपदा कामं क्षमायामियं
निःश्रेणिः पदमुन्नतं जिगमिषोर्व्योम स्पृशन्ती परम् ।
वंश्या काप्यधरीकृतत्रिभुवनश्रेणी गुरूणां कथं
सेवा तस्य यतीशितुर्न विरलं कुर्वीत गुर्वी तमः ॥८१॥

अथ तोटकवृत्तपद्यजातैरयमज्ञातसुपर्वसूक्तिकोऽपि ।
दययैव गुरोस्त्रयीशिरोऽर्थं स्फुटयन्नैक्षि विचक्षणः सतीर्थ्यैः ॥८२॥

अथ तस्य बुधस्य वाक्यगुम्भं निशमय्यामृतमाधुरीधुरीणम् ।
जलजाङ्घ्रिमुखाः सतीर्थ्यवर्याः स्मयमन्वस्य सविस्मया बभूवुः ॥८३॥

भक्त्युत्कर्षात् प्रादुरासन्यतोऽस्मात्पद्यान्येवं तोटकाख्यानि सन्ति ।
तस्मादाहुस्तोटकाचार्यमेनं लोके शिष्टाः शिष्टवंश्य मुनीन्द्रम् ॥८४॥

अद्यापि तत्प्रकरणं प्रथितं पृथिव्यां
तत्संज्ञया लघु महार्थमनल्पनीति ।
शिष्टैर्गृहीतमतिशिष्टपदानुविद्धं
वेदान्तवेद्यपरतत्त्वनिवेदनं यत् ॥८५॥

तोटकाह्वयमवाप्य महर्षेः ख्यातिमाप स दिशासु तदादि ।
पद्मपादसदृशप्रतिभावान् मुख्यशिष्यपदवीमपि लेभे ॥८६॥

पुमर्थाश्चत्वारः किमुत निगमा ऋक्प्रभृतयः
प्रभेदा वा मुक्तेर्विमलतरसालोक्यमुखराः ।
मुखान्याहों धातुश्चिरमिति विमृश्याथ विबुधा
विदुः शिष्यान् हस्तामलकमुखराञ्छङ्करगुरोः ॥८७॥

स्फारद्वारप्रघाणद्विरदमदसमुल्लोलकल्लोलभृङ्गी-
सङ्गीतोल्लासभङ्गीमुखरितहरितः सम्पदोऽकिम्पचानैः ।
निष्ठीव्यन्तेऽतिदुरादधिगतभगवत्पादसिद्धान्तकाष्ठा-
निष्ठासम्पद्विजृम्भन्निरवधिसुखदस्वात्मलाभैकलोभैः ॥८८॥

समिन्धानो मन्थाचलमथित सिन्धूदरभव-
त्सुधाफेनाभेनामृतरुचिनिभेनाऽऽत्मयशसा ।
निरुन्धानो दृष्ट्या परमहह पन्थानमसतां
पराधृष्यैः शिष्यैररमत विशिष्यैष मुनिराट् ॥८९॥

इति श्रीमाधवीये तद्धस्तधात्र्यादिसंश्रयः ।
सङ्क्षेपशङ्करजये सर्गोऽयं द्वादशोऽभवत् ॥१२॥

आदितः श्लोकाः १३१२

N/A

References : N/A
Last Updated : January 23, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP