संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|शङ्करदिग्विजयम्| अथ द्वितीयः सर्गः शङ्करदिग्विजयम् अनुक्रमणिका अथ प्रथमः सर्गः अथ द्वितीयः सर्गः अथ तृतीयः सर्गः अथ चतुर्थः सर्गः अथ पञ्चमः सर्गः अथ षष्ठः सर्गः अथ सप्तमः सर्गः अथ अथाष्टमः सर्गः अथ नवमः सर्गः अथ दशमः सर्गः अथ एकादशः सर्गः अथ द्वादशः सर्गः अथ त्रयोदशः सर्गः अथ चतुर्दशः सर्गः अथ पञ्चदशः सर्गः अथ षोडशः सर्गः शङ्करदिग्विजयम् - अथ द्वितीयः सर्गः शङ्करदिग्विजयम् Tags : shankar digvijayशङ्कर दिग्विजय आचार्यजन्मादिकथनम् Translation - भाषांतर ततो महेशः किल केरलेषु श्रोमद्वृषाद्रौ करुणासमुद्रः ।पूर्णानदीपुण्यतटे स्वयम्भूलिङ्गात्मनाऽनङ्गधगाविरासीत् ॥१॥तच्चोदितः कश्चन राजशेखरः स्वप्ने मुहुर्दृष्टतदीयवैभवः ।प्रासादमेकं परिकल्प्य सुप्रभं प्रावर्तयत्तस्य समर्हणं विभोः ॥२॥तस्येश्वरस्य प्रणतार्तिहर्तुः प्रसादतः प्राप्त निरीतिभावः ।कश्चित्तदभ्याशगतोऽग्रहारः कालट्यभिख्योऽस्ति महान्मनोज्ञः ॥३॥कश्चिद्विपश्चिदिह निश्चलधीर्विरेजे विद्याधिराज इति विश्रुतनामधेयः ।रुद्रो वृषाद्रिनिलयोऽवतरीतुकामो यत्पुत्रमात्मपितरं समरोचयत्सः ॥४॥पुत्रोऽभवत्तस्य पुरात्तपुण्यैः सुब्रह्मतेजाः शिवगुर्वभिख्यः ।ज्ञाने शिवो यो वचने गुरुस्तस्यान्वर्थनामाकृत लब्धवर्णः ॥५॥स ब्रह्मचारी गुरुगेहवासी तत्कर्यकारी विहितान्नभोजी ।सायम्प्रभातं च हुताशसेवी व्रतेन वेदं निजमध्यगीष्ट ॥६॥क्रियाद्यनुष्ठानफलोऽर्थबोधः स नोपजायेत विना विचारम् ।अधीत्य वेदानथ तद्विचारं चकार दुर्बोधतरो हि वेदः ॥७॥वेदेष्वधीतेषु विचारितेऽर्थं शिष्यानुरागी गुरुराह तं स्म ।अपाठि मत्तः सषडङ्गवेदो व्यचारि कालो बहुरत्यगात्ते ॥८॥भक्तोऽपि गेहं व्रज सम्प्रति त्वं जनोऽपि ते दर्शनलालसः स्यात् ।गत्वा कदाचित्स्वजनप्रमोदं विधेहि मा तात विलम्बयस्व ॥९॥विधातुमिष्टं यदिहापराह्णे विज्ञानता तत्पुरुषेण पूर्वम् ।विधेयमेवं यदिह श्व इष्टं कर्तुं तद्द्येति विनिश्चितोऽर्थः ॥१०॥कालोतबीजादिह यादृशं स्यात्सस्यं न तादृग्विपरीतकालात् ।तथा विवाहादि कृतं स्वकाले फलाय कल्पेत न चेद्वृथा स्यात् ॥११॥आ जन्मनो गणयतो ननु तान्गताब्दान्माता पिता परिणयं तव कर्तुकामौ ।पित्रोरियं प्रकृतिरेव पुरोपनीतिं यद्धयायतस्तनुभवस्य ततो विवाहम् ॥१२॥तत्तत्कुलीनपितरः स्पृहयन्ति कामं तत्तत्कुलीनपुरुषस्य विवाहकर्म ।पिण्डप्रदातृपुरुषस्य ससन्ततित्वे पिण्डाविलोपमुपरि स्फुटमीक्षमाणाः ॥१३॥अर्थावबोधनफलो हि विचार एष तच्चापि चित्रबहुकर्मविधानहेतोः ।अत्राधिकारमधिगच्छति सद्वितीयः कृत्वा विवाहमिति वेदविदां प्रवादः ॥१४॥सत्यं गुरो न नियमोऽस्ति गुरोरधीतवेदो गृही भवति नान्यपदं प्रयाति ।वैराग्यवान्व्रजति भिक्षुपदं विवेकी नो चेद्गृही भवति राजपदं तदेतत् ॥१५॥श्रीनैष्ठिकाश्रममहं परिगृह्य यावज्जीवं वसामि तव पार्श्वगतश्चिरायुः ।दण्डाजिनी सविनयो बुध जुहृदग्नौ वेदं पठन् पठितविस्मृतिहानिमिच्छन् ॥१६॥दारग्रहो भवति तावदयं सुखाय यावत्कृतोऽनुभवगोचरतां गतः स्यात् ।पञ्चाच्छनैर्विरसतामुपयाति सोऽयं किं निहनुषे त्वमनुभूतिपदं महात्मन् ॥१७॥यागोऽपि नाकफलदो विधिना कृतश्चेत्प्रायः समग्रकरणं भुवि दुर्लभं तत् ।बष्ट्यादिवन्न हि फलं यदि कर्मणि स्यात्दिष्टया यथोक्तविरहे फलदुर्विधत्वम् ॥१८॥निःस्खो भवेद्यदि गृही निरयी स नूनंभोक्तुं न दातुमपि यः क्षमतेऽणुमात्रम् ।पूर्णेपि पूर्तिमभिमन्तुमशक्नुवन्योमोहेन शं न मनुते खलु तत्र तत्र ॥१९॥यावत्सु सत्सु परिपूर्तिरथो अमीषां साधो गृहोपकरणेषु सदा विचारः ।एकत्र संहतवतः स्थितपूर्वनाशस्तच्चापयाति पुनरप्यपरेण योगः ॥२०॥एवं गुरौ वदति तज्जनको निनीषुरागच्छदत्र तनयं स्वगृहं गृहेशः ।तेनानुनीय बहुलं गुरवे प्रदाप्य यत्नान्निकेतनमनायि गृहीतविद्यः ॥२१॥आचार्यजन्मादिकथनंगत्वा निकेतनमसौ जननीं ववन्दे साऽऽलिङ्ग्य तद्विरहजं परितापमौज्झत् ॥प्रायेण चन्दनरसादपि शीतलं तद्यत्पुत्रगात्रपरिरम्भणनामधेयम् ॥२२॥श्रुत्वा गुरोः सदनतश्चिरमागतं तं तद्बन्धुरागमदथ त्वरितेक्षणाय ।प्रत्युद्गमादिभिरसावपि बन्धुतायाः सम्भावनां व्यधितवित्तकुलानुरूपाम् ॥२३॥वेदे पदक्रमजटादिषु तस्य बुद्धिं संवीक्ष्य तज्जनयिता बहुशोऽप्यपृच्छत् ।यस्याभवत्प्रथितनाम वसुन्धरायां विद्याधिराज इति सङ्गतवाच्यमस्य ॥२४॥भट्टे नये गुरुमते कणभुङ्मतादौप्रश्नं चकार तनयस्य मतिं बुभुत्सुः ।शिष्योऽप्युवाच नतपुर्वगुरुः समा धिधिंपित्रोदितः स्मितमुखो हसिताम्बुजास्यः ॥२५॥वेदे च शास्त्रे च निरीक्ष्य बुद्धिं प्रश्नोत्तरादावपि नैपुणीं ताम् ।दृष्ट्वा तुतोषातितरां पिताऽस्य स्वतः सुखा या किमु शास्त्रतो वाकू ॥२६॥कन्यां प्रदातुमनसो बहवोऽपि विप्रास्तन्मन्दिरं प्रति ययुर्गुणपाशकृष्टाः ।पूर्वं विवाहसमयादपि तस्य गेहं सम्बन्धवत्किल बभूव वरीतुकामैः ॥२७॥बह्वर्थदायिषु बहुष्वपि सत्सु देशे कन्यामदातृषु परीक्ष्य विशिष्टजन्म ।कन्यामयाचत सुताय स विप्रवर्यो विप्रं विशिष्टकुलजं प्रथितानुभावः ॥२८॥कन्यापितुर्वरपितुश्च विवाद आसीदित्थं तयोः कुलजुषोः प्रथितोरुभूत्योः ।कार्यस्त्वया परिणयो गृहमेत्य पुत्रीमानीय सद्म तनयाय सुता प्रदेया ॥२९॥सङ्कल्पिताद् द्विगुणमर्थमहं प्रदास्ये मद्गेहमेत्य परिणीतिरियं कृता चेत् ।अर्थं विना परिणयं द्विज कारयिष्ये पुत्रेण मे गृहगता यदि कन्यका स्यात् ॥३०॥कश्चित्तु तस्याः पितरं बभाण मिथः समाहूय विशेषवादी ।अस्मासु गेहं गतवत्स्वमुष्मै विगृह्य कन्यामपरः प्रदद्यात् ॥३१॥तेनानुनीतो वरतातभाषितं द्विजोऽनुमेने वररूपमोहितः ।दृष्ट्वा गुणः संवरणाय कल्पते मन्त्रोऽभिजापाच्चिरकालभावितः ॥३२॥विद्याधिराजमघपण्डितनामधेयौ सम्प्रत्ययं व्यतनुतामभिपूज्य दैवम् ।सम्यङमुहूर्तमवलम्ब्य विचारणीया मौहूर्तिका इति परस्परमूचिवांसौ ॥३३॥उद्वाह्य शास्त्रविधिना विहिते मुहूर्ते तौ सम्मुदं बहुमवापतुराप्तकामौ ।तत्रागतो भृशममोदत बन्धुवर्गः किं भाषितेन बहुना मुदमाप वर्गः ॥३४॥तौ दम्पती सुवसनौ शुभदन्तपङ्क्ती सम्भूषितौ विकसिताम्बुजरम्यवक्त्रौ ।सव्रीडहासमुखवीक्षणसम्प्रहृष्टौ देवाविवापतुरनुत्तमशर्म नित्यम् ॥३५॥अग्नीनथाधित महोत्तरयागजातं कर्तुं विशेषकुशलैः सहितो द्विजेशः ।तत्तत्फलं हि यदनाहितहव्यवाहः स्यादुत्तरेषु विहितेष्वपि नाधिकारी ॥३६॥यागैरनेकेर्बहुवित्तसाध्यैर्विजेतुकामो भुवनान्ययष्ट ।व्यस्मारि देवैरमृतं तदाशैर्दिने दिने सेवितयज्ञभागैः ॥३७॥सन्तर्पयन्तं पितृदेवमानुषांस्तत्तत्पदार्थैरभिवाञ्छितैः सह ।विशिष्टवित्तैः सुमनोभिरञ्चितं तं मेनिरे जङ्गमकल्पपादपम् ॥३८॥परोपकारव्रतिनो दिने दिने व्रतेन वेदं पठतो महात्मनः ।श्रुतिस्मृतिप्रोदितकर्म कुर्वतः समा व्यतीयुर्दिनमाससम्मिताः ॥३९॥रूपेषु मारः क्षमया वसुन्धरा विद्यासु वृद्धो घनिनां पुरःसरः ।गर्वानभिज्ञो विनयी सदा नतः स नोपलेभे तनयाननं जरन् ॥४०॥गावो हिरण्यं बहुसस्यमालिनी वसुन्धरा चित्रपदं निकेतनम् ।सम्भावना बन्धुजनैश्च सङ्गमो न पुत्रहीनं बहवोऽप्यमूमुहन् ॥४१॥अस्यामजाता मम सन्ततिश्चेच्छरद्यवश्यं भवितोपरिष्टात् ।तत्राप्यजाता तत उत्तरस्यामेवं स कालं मनसा निनाय ॥४२॥खिन्दन्मनाः शिवगुरुः कृतकार्यशेषो जायामचष्ट सुभगे किमतः परं नौ ।साङ्गं वयोऽर्धमगमत्कुलजे न दृष्टं पुत्राननं यदिहलोक्यमुदाहरन्ति ॥४३॥एवं प्रिये गतवतोः सुतदर्शनं चेत्पञ्चत्वमैष्यदथ नौ शुभमापतिष्यत् ।अस्याभ्युपायमनिशं भुवि वीक्षमाणो नेक्षे ततः पितृजनिर्विफला ममाभूत् ॥४४॥आचार्यजन्मादिकथनंभद्रे सुतेन रहितौ भुवि के वदन्ति नौ पुत्रपौत्रसरणिक्रमतः प्रसिद्धिः ।लोके न पुष्पफलशुन्यमुदाहरन्ति वृक्षं प्रवालसमये फलितं विहाय ॥४५॥इतीरिते प्राह तदीयभार्या शिवायकल्पद्रुममाश्रयावः ।तत्सेवनान्नौ भविता सुनाथ फलं स्थिरं जङ्गमरूपमैशम् ॥४६॥भक्तेप्सितार्थपरिकल्पनकल्पवृक्षं देवं भजाव कमितः सकलार्थसिद्धयै ।तत्रोपमन्युमहिमा परमं प्रमाणं नो देवतासु जडिमा जडिमा मनुष्ये ॥४७॥इत्थं कलत्रोक्तिमनुत्तमां च श्रुत्वा सुतार्थी प्रणतैकवश्यम् ।इयेष सन्तोषयितुं तपोभिः सोमार्धमूर्धानमुमार्धमीशम् ॥४८॥तस्योपधाम किल सन्निहिताऽऽपगैकास्नात्वा सदाशिवमुपास्त जले स तस्याः ।कन्दाशनः कतिचिदेव दिनानि पूर्वंपश्चात्तदा स शिवपादयुगाब्जभृङ्गः ॥४९॥जायाऽपि तस्य विमला नियमोपतापैश्चिक्लेश कायमनिशं शिवमर्चयन्ती ।क्षेत्रे वृषस्य निवसन्तमजं स भर्तुः कालोऽत्यगादिति तयोस्तपतोरनेकः ॥५०॥देवः कृपापरवशो द्विजवेषधारी प्रत्यक्षतां शिवगुरुं गत आत्तनिद्रम् ।प्रोवाच भोः किमभिवाञ्छसि किं तपस्ते पुत्रार्थितेति वचनं स जगाद विप्रः ॥५१॥देवोऽप्यपृच्छदथ तं द्विज विद्धि सत्यं सर्वज्ञमेकमपि सर्वगुणोपपन्नम् ।पुत्रं ददान्यथ बहून्विपरीतकांस्ते भूर्यायुषस्तनुगुणानवदद् द्विजेशः ॥५२॥पुत्रोऽस्तु मे बहुगुणः प्रथितानुभावः सर्वज्ञतापदमितीरित आबभाषे ।दद्यामुदीरितपदं तनयं तपो मा पूर्णो भविष्यसि गृहं द्विज गच्छ दारैः ॥५३॥आकर्णयन्निति बुबोध स विप्रवर्यस्तं चाब्रवीन्निजकलत्रमनिन्दितात्मा ।स्वप्नं शशंस वनितामणिरस्य भार्या सत्यं भविष्यति तु नौ तनयो महात्मा ॥५४॥तौ दम्पती शिवपरौ नियतौ स्मरन्तौ स्वप्नेक्षितं गृहगतौ बहुदक्षिणान्नेःसन्तर्प्य विप्रनिकरं तदुदीरिताभिराशीर्भिरापतुरनल्पमुदं विशुद्धौ ॥५५॥तस्मिन्दिने शिवगुरोरुपभोक्ष्यमाणे भक्ते प्रविष्टमभवत्किल शैवतेजः ।भुक्तान्न विप्रवचनादुपभुक्तशेषं सोऽभुङक्त साऽपि निजभर्तृपदाब्जभृङ्गी ॥५६॥गर्भं दधार शिवगर्भमसौ मृगाक्षी गर्भोऽप्यवर्धत शनैरभवच्छरीरम् ।तेजोऽतिरेकविनिवारितदृष्टिपातविश्वं रवेर्दिवसमध्य इवोग्रतेजः ॥५७॥गर्भालसा भगवती गतिमान्द्यमीषदापेति नाद्भुतमिदं धरते शिवं या ।यो विष्टपानि विभृते हि चतुर्दशापि यस्यापि मूर्तय इमा वसुधाजलाद्याः ॥५८॥संव्याप्तवानपि शरीरमशेषमेव नोपास्तिमाविरसकावकृतात्र काञ्चित् ।यत्पूर्वमेव महसा दुरतिक्रमेण व्याप्तं शरीरमदसीयममुष्य हेतोः ॥५९॥रम्याणि गन्धकुसुमान्यपि गर्धिमस्यै नाधातुमैशत भरात्किमु भूषणानि ।यद्यद्गुरुत्वपदमस्ति पदार्थजातं तत्तद्विधारणविधावलसा बभूव ॥६०॥तां दौहृदं भृशमबाघत दुःशरारिः प्रायः परं किल न मुञ्चति मुञ्चतेऽपि ।आनीतदुर्लभमपोहति याचतेऽन्यत्तच्चाप्यपोह्य पुनरर्दति साऽन्यवस्तु ॥६१॥तां बन्धुताऽऽगमदुपश्रुतदोहदार्तिरादाय दुर्लभमनर्घ्यमपूर्ववस्तु ।आस्वाद्य बन्धुजनदत्तमसौ जहर्ष हा हन्त गर्भधरणं खलु दुःखहेतुः ॥६२॥मानुष्यधर्ममनुसृत्य मयेदमुक्तं काऽपि व्यथा शिवमहोमरणे न बध्वाः ।सर्वव्यथाव्यतिकरं परिहर्तुकामा देवं भजन्त इति तत्त्वविदां प्रवादः ॥६३॥उक्ष्णा निसर्गधवलेन महीयसा सा स्वात्मानमैक्षत समूढमुपात्तनिद्रा ।सङ्गीयमानमपि गीतविशारदाढ्यैर्विद्याधरप्रभृतिभिर्विनयोपयातैः ॥६४॥आकर्णयज्जय जयेति वरं दधानारक्षेति शब्दमवलोकय मा दृशेति ।आकर्ण्य नोत्थितवती पुनरुक्तशब्दंसा विस्मिता किल मृणोति निरीक्षमाणा ॥६५॥नर्मोक्तिकृत्यामपि खिद्यमाना किञ्चापि चञ्चत्तरमञ्चरोहे ।जित्वा मुदाऽन्यानतिहृद्यविद्यासिंहासनेऽसौ स्थितिमीक्षते स्म ॥६६॥समानता सात्विकवृत्तिभाजां विरागता वैषयिकप्रवृत्तौ ।तस्याः स्त्रिया गर्भगपुत्रचित्रचरित्रशंसिन्यजनिष्ट चेष्टा ॥६७॥तद्रोमवल्ली रुरुचे कुचाद्रयावृण्वत्प्रभाधुन्युरुशैवलालिः ।यत्नाच्छिशोरस्य कृते प्रशस्तो न्यस्तो त्रिधात्रेव नवीनवेणुः ॥६८॥पयोधरद्वन्द्वमिषादमुष्याः पयः पित्रत्यर्थविधानयोग्यौ ।कुम्भौ नवीनामृतपूरितौ द्वावम्भोजयोनिः कलयाम्बभूव ॥६९॥द्वैतप्रवादं कुचकुम्भमध्ये मध्ये पुनर्माध्यमिकं मतं च ।सुभ्रूमणेर्गर्भग एव सोऽर्भो द्राग्गर्हयामास महात्मगर्ह्यम् ॥७०॥लग्ने शुभे शुभयुते सुषुवे कुमारंश्रीपार्वतीव सुखिनी शुभवीक्षिते च ।जाया सती शिवगुरोर्निजतुङ्गसंस्थेसूर्ये कुजे रविसुते च गुरौ च केन्द्रे ॥७१॥दृष्ट्वा सुतं शिवगुरुः शिववारिराशौमग्नोऽपि शक्तिमनुसृत्य जले न्यमाङ्क्षीत् ।व्यश्राणयद् बहु धनं वसुधाश्च गाश्चजन्मोक्तकर्मविधये द्विजपुङ्गवेभ्यः ॥७२॥तस्मिन्दिने मृतकरीन्द्रतरक्षुसिंहसर्पाखुमुख्यबहुजन्तुगणा द्विषन्तः ।वैरं विहाय सह चेरुरतीव हृष्टाः कण्डूमपाकृषत साधुतया निघृष्टाः ॥७३॥वृक्षा लताः कुसुमाराशिफलान्यमुञ्चन् नद्यः प्रसन्नसलिला निखिलास्तथैव ।जाता मुहुर्जलघरोऽपि निजं विकारं भूभृद्गणादपि जलं सहसोत्पपात ॥७४॥अद्वैतवादिविपरीतमतावलम्बिहस्ताग्रवर्तिवरपुस्तकमप्यकस्मात् ।उच्चैः पपात जहसुः श्रुतिमस्तकानि श्रीव्यासचित्तकमलं विकचीबभूव ॥७५॥सर्वाभिराशाभिरलं प्रसेदे वातैरभाव्यद्भुतदिव्यगन्धैः ।प्रजज्वलेऽपि ज्वलनैस्तदानीं प्रदक्षिणीभूतविचित्रकीलैः ॥७६॥सुमनोहरगन्धिनी सतां सुमनोवद्विमला शिवङ्करी ।सुमनोनिकरप्रचोदिता सुमनोवृष्टिरभूत्तदाऽद्भुतम् ॥७७॥लोकत्रयी लोकदृशेव भास्वता महीधरेणेव मही सुमेरुणा ।विद्या विनीत्येव सती सुतेन सा रराज तत्तादृशराजतेजसा ॥७८॥सत्कारपूर्वमभियुक्तमुहूर्तवेदिविप्राः शशंसुरभिवीक्ष्य सुतस्य जन्म ।सर्वज्ञ एव भविता रचयिष्यते च शास्त्रं स्वतन्त्रमथ वागधिपांश्च जेता ॥७९॥कीर्तिं स्वकां भुवि विधास्यति यावदेषाकिं बोधितेन बहुना शिशुरेष पूर्णः ।नापृच्छि जीवितमनेन च तैर्न चोक्तंप्रायो विदन्नपि न वक्त्यशुभं शुभज्ञः ॥८०॥तज्ज्ञातिबन्धुसुहृदिष्टजनाङ्गनास्तास्तं सूतिकागृहनिविष्टमथो निदध्युः ।सोपायनास्तमभिवीक्ष्य यथा निदाघे चन्द्रं मुदं ययुरतीव सरोजवक्त्रम ॥८१॥तत्सुतिकागृहमवैक्षत न प्रदीपं तत्तेजसा यदवभातमभूत् क्षपायाम् ।आश्चर्यमेतदजनिष्ट समस्तजन्तोस्तन्मन्दिरं वितिमिरं यदभूददीपम् ॥८२॥यत्पश्यतां शिशुरसौ कुरुते शमग्न्यं तेनाकृतास्य जनकः किल शङ्कराख्याम् ।यद्वा चिराय किल शङ्करसम्प्रसादाज्जातस्ततो व्यधित शङ्करनामधेयम् ॥८३॥सर्वं विदन्सकलशक्तियुतोऽपि बालो मानुष्यजातिमनुसृत्य चचार तद्वत् ।बालः शनैर्हसितुमारभत क्रमेण स्रप्तुं शशाक गमनाय पदाम्बुजाभ्याम् ॥८४॥बालेऽथ मञ्चे किल शायितेऽस्मिन्सतां प्रसन्नं हृदयं बभूव ।संवीक्षमाणे मणिगुच्छवर्यं विद्वन्मुखं हन्त विलीनमासीत् ॥८५॥सन्ताडयन् हन्त शनैः पदाभ्यां पर्यङ्कवर्यं कमनीयशय्यम् ।बिभेद सद्यः शतधा समूहान् विभेदवादीन्द्रमनोरथानाम् ॥८६॥द्वित्राणि वर्णानि वदत्यमुष्मिन्द्वैतिप्रवीरा दधुरेव मौनम् ।मुदा चलत्यङ्घ्रिसरोरुहाभ्यां दिशः पलायन्त दशापि सद्यः ॥८७॥उदचारयदर्भको गिरः पदचारानतनोदनन्तरम् ।विकलोऽभवदादिमात्तयोः पिकलोकश्वरमान्मरालकः ॥८८॥नवविद्रुमपल्लवस्तृतामिव काश्मीरपरागपाटलाम् ।रचयन्नचलां पदत्विषा स चचारेन्दुनिभः शनैः शनैः ॥८९॥मूर्धनि हिमकरचिह्नं निटिले नयनाङ्कमंसयोः शूलम् ।वपुषि स्फटिकसवर्णं प्राज्ञास्तं मेनिरे शम्भुम् ॥९०॥राज्यश्रीरिव नयकोविदस्य राज्ञो विद्येव व्यसनदवीयसो बुधस्य ।शुभ्रांशोश्छविरिव शारदस्य पित्रोः सन्तोषैः सह ववृधे तदीयमूर्तिः ॥९१॥नागेनोरसि चामरेण चरणे बालेन्दुना फालकेपाण्योश्चक्रगदाधनुर्डमरुकैर्मूर्ध्नि त्रिशूलेन च ।तत्तस्याद्भुतमाकलय्य ललितं लेखाकृते लाञ्छितंचित्रं गात्रममंस्त तत्र जनता नेत्रैर्निमेषोज्झितैः ॥९२॥सर्गे प्राथमिके प्रयाति विरतिं मार्गे स्थिते दौर्गतेस्वर्गे दुर्गमतामुपेयुषि भृशं दुर्गेऽपवर्गे सति ।वर्गे देहभृतां निसर्गमलिने जातोपसर्गेऽखिलेसर्गे विश्वसृजस्तदीयवपुषा भर्गोऽवतीर्णो भुवि ॥९३॥इति श्रीमाधवीये तदवतारकथापरः ।सङ्क्षेपशङ्करजये सर्गः पूर्णो द्वितीयकः ॥२॥आदितः श्लोकाः १९१ N/A References : N/A Last Updated : January 23, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP