संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|शङ्करदिग्विजयम्| अथ नवमः सर्गः शङ्करदिग्विजयम् अनुक्रमणिका अथ प्रथमः सर्गः अथ द्वितीयः सर्गः अथ तृतीयः सर्गः अथ चतुर्थः सर्गः अथ पञ्चमः सर्गः अथ षष्ठः सर्गः अथ सप्तमः सर्गः अथ अथाष्टमः सर्गः अथ नवमः सर्गः अथ दशमः सर्गः अथ एकादशः सर्गः अथ द्वादशः सर्गः अथ त्रयोदशः सर्गः अथ चतुर्दशः सर्गः अथ पञ्चदशः सर्गः अथ षोडशः सर्गः शङ्करदिग्विजयम् - अथ नवमः सर्गः शङ्करदिग्विजयम् Tags : shankar digvijayशङ्कर दिग्विजय श्रीमदाचार्यसरस्वतीसंवादः Translation - भाषांतर अथ संयमिक्षितिपतेर्वचनैर्निगमार्थनिर्णयकरैः सनयेः ।शमिताग्रहोऽपि पुनरप्यवदत् कृतसंशयः सपदि कर्मजडः ॥१॥यतिराज सम्प्रति ममाभिनवान्न विषादितोऽस्म्यपजयादपि तु ।अपि जैमिनीयवचनान्यहहोन्मथितानि हीति भृशमस्मि कृशः ॥२॥स हि वेत्त्यनागतमतीतमपि प्रियकृत्समस्तजगतोऽधिकृतः ।निगमप्रवर्तनविधौ स कथं तपसां निधिर्वितथसूत्रपदः ॥३॥इति सन्दिहानमवदत्तमसौ न हि जैमिनावपनयोऽस्ति मनाक् ।प्रमिमीमहे न वयमेव मुनेर्हृदयं यथावदनभिज्ञतया ॥४॥यदि विद्यते कविजनाविदितं हृदयं मुनेस्तदिह वर्णय भोः ।यदि युक्तमत्र भवता कथितं हृदि कुर्महे दलदहङ्कृतयः ॥५॥अभिसन्धिमानपि परे विषयप्रसन्मतीननुजिघृक्षुरसौ ।तदवाप्तिसाधनतया सकलं सुकृतं न्यरूपयदिति स्म परम् ॥६॥वचनं तमेतमिति धर्मचयं विदधाति बोधजनिहेतुतया ।तदपेक्षयैव स च मोक्षपरो निरधारयन्न परथेति वयम् ॥७॥श्रुतयः क्रियार्थकतया सफला अतदर्थकानि तु वचांसि वृथा ।इति सूत्रयन्ननु कथं मुनिराडपि सिद्धवस्तुपरतां मनुते ॥८॥श्रुतिराशिरद्वयपरोऽपि परम्परयाऽऽत्मबोधफलकर्मणि च ।प्रसरत्कटाक्ष इति कार्यपरत्वमसूचि तत्प्रकरणस्थगिराम् ॥९॥ननु सच्चिदात्मपरताऽभिमता यदि कृत्स्नवेदनिचयस्य मुनेः ।फलदातृतामपुरुषस्य वदन् स कथं निराह परमेशमपि ॥१०॥ननु कर्तृपूर्वकमिदं जगदित्यनुमानमागमवचांसि विना ।परमेश्वरं प्रथयति श्रुतयस्त्वनुवादमात्रमिति काणभुजाः ॥११॥न कथञ्चिदौपनिषदं पुरुषं मनुते बृहन्तमिति वेदवचः ।कथयत्यवेदविदगोचरतां गमयेत् कथं तमनुमानमिदम् ॥१२॥इति भावमात्मनि निधाय मुनिः स निराकरोन्निशितयुक्तिशतैः ।अनुमानमीश्वरपरं जगतः प्रभवं लयं फलमपीश्वरतः ॥१३॥तदिहास्मदुक्तविधया निषदा न विरुद्धमण्वपि मुनेर्वचसि ।इति गूढभावमनवेक्ष्य बुधास्तमनीशवाद्ययमिति ब्रुवते ॥१४॥किमु तावतैव स निरीश्वरवाद्यभवत् परात्मविदुषां प्रवरः ।न निशाटनाहिततमः कचिप्यदहनि प्रभां मलिनयेत्तरणेः ॥१५॥इति जैमिनीयवचसां हृदयं कथितं निशम्य यतिकेसरिणा ।मनसा ननन्द कविराण्णितरां सह शारदाश्च सदसस्पतयः ॥१६॥विदिताशयोऽपि परिवर्तिमनाग्विशयः स जैमिनिमवाप हृदा ।अवगन्तुमस्य वचसाऽपि पुनः स च संस्मृतः सविधमाप कवेः ॥१७॥अवदच्च शृण्विति स भाष्यकृति प्रजहाहि संशयमिमं सुमते ।यदवोचदेष मम सूत्रततेर्हृदयं तदेव मम नापरथा ॥१८॥न ममैव वेद हृदयं यमिराडपि तु श्रुतेः सकलशास्त्रततेः ।यदभूद्भविष्यति भवत्तदपि ह्ययमेव वेद न तथा त्वितरः ॥१९॥गुरुणा चिदेकरसतत्परता निरणायि हि श्रुतिशिरोवचसाम् ।कथमेकसूत्रमपि तद्विमतं कथयाम्यहं तदुपसादितधीः ॥२०॥अलमाकलय्य विशयं सुयशः शृणु मे रहस्यमिममेव परम् ।त्वमवेहि संसृतिनिमग्नजनोत्तरणे गृहीतत्रपुषं पुरुषम् ॥२१॥आधे सत्वमुनिः सतां वितरति ज्ञानं द्वितीये युगेदत्तो द्वापरनामके तु सुमतिर्व्यासः कलौ शङ्करः ।इत्येवं स्फुटमीरतोऽस्य महिमा शैवे पुराणे यत-स्तस्य त्वं सुमते मते त्ववतरेः संसारवार्धिं तरेः ॥२२॥इति बोधितद्विजवरोऽन्तरधान्मनसोपगुह्य यमिनामृषभम् ।स च यायजूकपरिषत्प्रमुखः प्रणिपत्य शङ्करमवोचदिदम् ॥२३॥विदितोऽस्ति सम्प्रति भवाञ्जगतः प्रकृतिर्निरस्तसमतातिशयःअवबोधमात्रवपुरप्यबुधोद्धरणाय केवलमुपात्ततनुः ॥२४॥यदेकमुदितं पदं यतिवर त्रयीमस्त कै-स्तदस्य परिपालकस्त्वमसि तत्त्वमस्यायुधः ।परं गलितसौगतप्रलपितान्धकूपान्तरेपतत्कथमिवान्यथा प्रलयमद्य नापत्स्यते ॥२५॥प्रबुद्धोऽहं स्वप्नादिति कृतमतिः स्वप्नमपरंयथा मूढः स्वप्ने कलयति तथा मोहवशगाः ।विमुक्तिं मन्यन्ते कतिचिदिह लोकान्तरगतिंहसन्त्येतान् दासास्तव गलितमायाः परगुरोः ॥२६॥मुहुर्धिग्धिग्भेदिप्रलपितविमुक्तिं यदुदयेऽप्य-सारः संसारो विरमति न कर्तृत्वमुखरः ।भृशं विद्वन्मोदे स्थिरतमविमुक्तिं त्वदुदितांभवातीता येयं निरवधिचिदानन्दलहरी ॥२७॥अविद्याराक्षस्या गिलितमखिलेशं परगुरोपिचण्डं भित्त्वास्याः सरभसममुष्मादुदहरः ।वृतां पश्यन् रक्षोयुवतिभिरमुष्य प्रियतमांहनूमांल्लोकेड्यस्तव तु कियती स्यान्महितता ॥२८॥जगदार्तिहन्ननवगम्य पुरा महिमानमीदृशमचिन्त्यमहम् ।तव यत्पुरोऽब्रवमसाम्प्रतमप्यखिलं क्षमस्व करुणाजलधे ॥२९॥कपिलाक्षपादकणभुक्प्रमुखा अपि मोहमीयुरमितप्रतिभाः ।श्रुतिभावनिर्णयविधावितरः प्रभवेत्कथं परशिवांशमृते ॥३०॥समेतैरेतैः किं कपिलकणभुग्गौतमवच-स्तमस्तोमैश्चेतोमलिनिमसमारम्भणचणैः ।सुधाधारोद्गारप्रचुरभगवत्पादवदन-प्ररोहद्वयाहारामृतकिरणपुञ्जे विजयिनि ॥३१॥भिन्दानैरदेवमेतैरभिनवयवनैः सद्गवीभञ्जनोत्कै-र्व्याप्ता सर्वेयमुर्वी क्व जगति भजतां कैव मुक्तिप्रसक्तिः ।यद्वा सद्वादिराजा विजितकलिमला विष्णुतत्त्वाचुरक्ताउज्जृम्भन्ते समन्तादृशि दिदि कृतिनः किं तया चिन्तया मे ॥३२॥कथमल्पबुद्धिविवृतिप्रचयप्रचलोरगक्षतिहताः श्रुतयः ।न यदि त्वदुक्त्यमृतसेकधृता विहरेयुरात्मविधृतानुशयाः ॥३३॥भवदुक्तसूक्त्यमृतथानुकरा न चरेयुरार्य यदि कः शमयेत् ।अतितीव्रदुःसहभवोष्णकरप्रचुरातपप्रभवतापमिमम् ॥३४॥बत कर्मयन्त्रमधिरुह्य तपःश्रुतगेहदारसुतभृत्यधनैः ।अतिरूढमानभरितः पतितो भवतोद्धृतोऽस्मि भवकूपबिलात् ॥३५॥अहमचरं बहुतपोऽसुकरं ननु पूर्वजन्मसु न चेदधुना ।जगदीश्वरेण करुणानिधिना भवता कथा मम कथं घटते ॥३६॥शान्तिप्राक्सुकृताङकुरं दमसमुल्लासोल्लसत्पल्लवंवैराग्यद्रुमकोरकं सहनतावल्लीप्रसूनोत्करम् ।ऐकाग्रीसुमनोमरन्दविसृतिं श्रद्धासमुद्यत्फलंविन्देयं सुगुरोर्गिरां परिचयं पुण्यैरगण्यैरहम् ॥३७॥त्रिदिवौकसामपि पुमर्थकरीमिह संसरज्जनविमुक्तिकरीम् ।करुणोर्मिलां तव कटाक्षझरीमवगाहतेऽत्र खलु धन्यतमः ॥३८॥केचिच्चञ्चललोचनाकुचतटीचेलाञ्चलोच्चालन-स्पर्शद्राक्परिरम्भसम्भ्रमकलालीलासु लोलाशयाः ।सन्त्वेते कृतिनस्तु निस्तुलयशः कोशादयः श्रीगुरु-व्याहारक्षरितामृताब्धिलहरीदोलासु खेलन्त्यमी ॥३९॥चिन्तासन्तानतन्तुग्रथितनवभवत्सुक्तिमुक्ताफलौघै-रुद्यद्वैशद्यसद्यःपरिहृततिमिरैर्हारिणो हारिणोऽमी ।सन्तः सन्तोषवन्तो यतिवर किमतो मण्डनं पण्डितानांविद्या हृद्या स्वयं तान् शतमखमुखरान् वारयन्ती वृणीते ॥४०॥सन्तः सन्तोषपोषं दधतु तव कृताम्नायशोभैर्यशोभिःसौरालोकैरुलूका इव निखिलखला मोहमाहो वहन्तु ।धीरश्रीशङ्करार्यप्रणतिपरिणतिभ्रश्यदन्तर्दुरन्त -ध्वान्ताः सन्तो वयं तु प्रचुरतरनिजानन्दसिन्धौ निमग्नाः ॥४१॥चिन्तासन्तानशाखी पदसरसिजयोर्वन्दनं नन्दनं तेसङ्कल्पः कल्पवल्ली मनसि गुणनुतेर्वर्णना स्वर्णदीयम् ।स्वर्गो दृग्गोचरस्त्वत्पदभजनमतः संविचार्येदमार्यामन्यन्ते स्वर्गमन्यं तृणवदतिलघुं शङ्करार्य त्वदीयाः ॥४२॥तदहं विसृज्य सुतदारगृहं द्रविणानि कर्म च गृहे विहितम् ।शरणं वृणोमि भगवच्चरणावनुशाधि किङ्करममुं कृपया ॥४३॥इति सूनृतोक्तिभिरुदीर्णगुणः सुधियाऽऽत्मवाननुजिघृक्षुरसौ ।समुदैक्षतास्य सहधर्मचरीं विदिताशया मुनिमवोचत सा ॥४४॥यतिपुण्डरीक तव वेद्मि मनो ननु पूर्वमेव विदितं च मया ।इह भावि तापसमुखादखिलं तदुदीर्यते शृणु ससभ्यजनः ॥४५॥मयि जातु मातुरुपकण्ठजुषि प्रभया तडित्प्रतिभटोच्चजटः ।सितभूतिरूषितसमस्ततनुः श्रमणोऽभ्ययादपरसूर्य इव ॥४६॥परिगृह्य पाद्यमुखयाऽर्हणया रचिताञ्जलिर्नमितपूर्वतनुःजननी तदाऽऽत्तवरिवस्यममुं मुनिमन्वयुङत मम भाव्यखिलम् ॥४७॥भगवन्न वेद्मि दुहिर्तुमम भाव्यखिलं च वेत्ति तपसा हि भवान् ।प्रणते जने हि सुधियः कथयन्त्यपि गोप्यमार्यसदृशाः कृपया ॥४८॥कियदायुरवाप्स्यति सुतान् कति वा दयितं कथंविधमुपैष्यति च ।अथ च क्रतूनपि करिष्यति मे दुहिता प्रभूतधनधान्यवती ॥४९॥इति पृष्टभाविचरितः प्रसुवा क्षणमात्रमीलितविलोचनकः ।सकलं क्रमेण कथयन्निदमप्यपरं जगाद सुरहस्यमपि ॥५०॥निगमाध्वनि प्रबलबाह्यमतैरमितैरधिक्षिति खिले द्रुहिणः ।पुनरुद्दिधीर्षुरवतीर्य खलु प्रतिभाति मण्डनकवीन्द्रमिषात् ॥५१॥तमवाप्य रुद्रमिव साऽद्रिसुता दुहिता तवाच्युतमिवाब्धिसुता ।अनुरूपमाहृतसमस्तमखा ससुता भविष्यति चिरं मुदिता ॥५२॥अथ नष्टमौपनिषदं प्रबलैः कुमतैः कृतान्तमिह साधयितुम् ।ननु मानुषं वपुरुपेत्य शिवः समलङ्करिष्यति धरां स्वपदैः ॥५३॥सह तेन वादमुपगम्य चिरं दुहितुः पतिस्तु यतिवेषजुषा ।विजितस्तमेव शरणं जगतां शरणं गमिष्यति विसृष्टगृहः ॥५४॥इति गामुदीर्य स मुनिः प्रययौ सकलं यथातथमभूच्च मम ।भवदीयशिष्यपदमस्य कथं वितथं भविष्यति मुनेर्वचसि ॥५५॥अपि तु त्वयाऽद्य न समग्रजितः प्रथिताग्रणीर्मम पतिर्यदहम् ।वपुरर्धमस्य न जिता मतिमन्नपि मां विजित्य कुरु शिष्यमिमम् ॥५६॥यदपि त्वमस्य जगतः प्रभवो ननु सर्वविच्च परमः पुरुषः ।तदपि त्वयैव सह वादकृते हृदयं बिभर्ति मम तूत्कलिकाम् ॥५७॥इति यायजूकसहधर्मचरीकथितं वचोर्थवगर्ह्यपदम् ।मधुरं निशम्य मुदितः सुतरां प्रतिवक्तुमैहत यतिप्रवरः ॥५८॥यदवादि वादकलहोत्सुकतां प्रतिपद्यते हृदयमित्यबले ।तदसासाम्प्रतं न हि महायशसो महिलाजनेन कथयन्ति कथाम् ॥५९॥स्वमतं प्रभेत्तुमिह यो यतते स वधूजनोऽस्तु यदि वाऽस्त्वितरः ।यतितव्यमेव खलु तस्य जये निजपक्षरक्षणपरैर्भगवन् ॥६०॥अत एव गार्ग्यभिधया कलहं सह याज्ञवल्क्यमुनिराडकरोत् ।जनकस्तथा सुलभयाऽबलया किममी भवन्ति न यशोनिधयः ॥६१॥इति युक्तिमद्गदितमाकलयन्मुदितान्तरः श्रुतिसरिज्जलधिः ।स तया विवादमधिदेवतया वचसामियेष विदुषां सदसि ॥६२॥अथ सा कथा प्रववृते स्म तयोरुभयोः परस्परजयोत्सुकयोः ।मतिचातुरीरचितशब्दझरी श्रुतिविस्मयीकृतविचक्षणयोः ॥६३॥अनयोर्विचित्रपदयुक्तिभरैर्निशमय्य सङ्कथनमाकलितम् ।न फणीशमप्यतुलयन्न पपीं न गुरुं कविं किमपरं जगति ॥६४॥न दिवा न निश्यपि च वादकथा विरराम नैयमिककालमृते ।इति जल्पतोः सममनल्पधियोर्दिवसाश्च सप्त दश चात्यगमन् ॥६५॥अथ शारदाऽकृतकवाक्प्रमुखेष्वखिलेषु शास्त्रनिचयेषु परम् ।तमजय्यमात्मनि विचिन्त्य मुनिं पुनरप्यचिन्तयदिदं तरसा ॥६६॥अतिबाल्य एव कृतसंन्यसनो नियमैः परैरविधुरश्च सदा ।मदनागमेष्वकृतबुद्धिरसौ तदनेन सम्प्रति जयेयमहम् ॥६७॥इति सम्प्रधार्य पुनरप्यमुना कथने प्रसङ्गमथ सङ्गतितः ।यमिनं सदस्यमुमपृच्छदसौ कुसुमास्त्रशास्त्रहृदयं विदुषी ॥६८॥कलाः कियन्त्यो वद पुष्पधन्वनः किमात्मिकाः किञ्च पदं समाश्रिताः ।पूर्वे च पक्षे कथमन्यथा स्थितिः कथं युवत्यां कथमेव पुरुषे ॥६९॥नेतीरितः किञ्चिदुवाच शङ्करो विचिन्तयन्नत्र चिरं विचक्षणः ।तासामनुक्तौ भविताऽल्पवेदिता भवेत्तदुक्तौ मम धर्मसङ्क्षयः ॥७०॥इति संविचिन्त्य स हृदाऽऽशु तदाऽनवबुद्धपुष्पशरशास्त्र इव ।विदितागमोऽपि सुरिरक्षयिषुर्नियमं जगाद जगति व्रतिनाम् ॥७१॥इह मासमात्रमवधिः क्रियतामनुमन्यते हि दिवसस्य गणः ।तदनन्तरं सुदति हास्यसि भोः कुसुमास्त्रशास्त्रनिपुणत्वमपि ॥७२॥उररीकृते सति तथेति तयाऽऽक्रमते स्म योगिमृगराड् गगनम् ।श्रुतविग्रहः श्रुतविनेययुतो दधदभ्रचारमथ योगदृशा ॥७३॥स ददर्श कुत्रचिदमर्त्यमिव त्रिदिवच्युतं विगतसत्त्वमपि ।मनुजेश्वरं परिवृतं प्रलपत्प्रमदाभिरार्तिमदमात्यजनम् ॥७४॥अथो निशाखेटवशादटव्यां मूले तरोर्मोहवशात्परासुम् ।तं वीक्ष्य मार्गेऽमरुकं नृपालं सनन्दनं माह स संयमीन्द्रः ॥७५॥सौन्दर्यसौभाग्यनिकेतसीमाः परःशता यस्य पयोरुहाक्ष्यः ।स एव राजाऽमरुकाभिधानः शेते गतासुः श्रमतो धरण्याम् ॥७६॥प्रविश्य कायं तमिमं परासोर्नृपस्य राज्येऽस्य सुतं निवेश्य ।योगानुभावात्पुनरप्युपैतुमुत्कण्ठते मानसमस्मदीयम् ॥७७॥अन्यादृशानामदसीयानाकुशेशयाक्षीकिलकिञ्चितानाम् ।सर्वज्ञतानिर्वहणाय सोऽहं साक्षित्वमप्याश्रयितुं समीहे ॥७८॥इत्यूचिवांसं यतितल्लजं तं सनन्दनः प्राह ससान्त्वमेनम् ।सर्वज्ञ नैवाविदितं तवास्ति तथाऽपि भक्तिर्मुखरं तनोति ॥७९॥मत्स्येन्द्रनामा हि पुरा महात्मा गोरक्षमादिश्य निजाङ्गगुप्त्यै ।नृपस्य कस्यापि तनुं परासोः प्रविश्य तत्पत्तनमाससाद ॥८०॥भद्रासनाध्यासिनि योगिवर्ये भद्राण्यनिद्राण्यभववन्प्रजानाम् ।ववर्ष कालेषु बलाहकोऽपि सस्यानि चाशास्यफलान्यभूवन् ॥८१॥विज्ञाय विज्ञाः सचिवा नृपस्य काये प्रविष्टं कमपीह दिव्यम् ।समादिशन् राजसरोरुहाक्षीः सर्वात्मना तस्य वशीक्रियायै ॥८२॥सङ्गीतलास्याभिनयादिकेषु संसक्तचेता ललितेषु तासाम् ।स एष विस्मृत्य पुनः समाधिं सर्वात्मना प्राकृतवद्बभूव ॥८३॥गोरक्ष एषोऽथ गुरोः प्रवृत्तिं विज्ञाय रक्षन् बहुधाऽस्य देहम् ।निशान्तकान्तानटनोपदेष्टा नितान्तमस्याभवदन्तरङ्गः ॥८४॥तत्रैकदा तत्वनिबोधनेन निवृत्तरागं निजदेशिकं सः ।योगानुपूर्वीमुपदिश्य निन्ये यथापुरं प्राक्तनमेव देहम् ॥८५॥हन्तेदृशोऽयं विषयानुरागः किञ्चोर्ध्वरेतोव्रतखण्डनेन ।किं नोदयेत्किल्बिषमुल्बणं ते कृत्यं भवानेव कृतीं विवेक्तुम् ॥८६॥व्रतमस्मदीयमतुलं क्व महत् क्व च कामशास्त्रमतिगर्ह्यमिदम् ।तदपीष्यते भगवतैव यदि ह्यनवस्थितं जगदिहैव भवेत् ॥८७॥अधिमेदिनि प्रथयितुं शिथिलं घृतकङ्कणस्य यतिधर्ममिमम् ।भवतः किमस्त्य विदितं तदपि प्रणयान्मयोदितमिदं भगवन् ॥८८॥स निशम्य पद्मचरणस्य गिरं गिरति स्म गीष्पतिसमप्रतिभः ।अविगीतमेव भवता फणितं शृणु सौम्य वच्मि परमार्थमिदम् ॥८९॥असङ्गिनो न प्रभवन्ति कामा हरेरिवाभीरवधूसखस्य ।वज्रोलियोगप्रतिभूः स एष वत्सावकीर्णित्वविपर्ययो नः ॥९०॥सङ्कल्प एवाखिलकाममूलं स एव मे नास्ति समस्य विष्णोः ।तन्मूलहानौ भवपाशनाशः कर्तुः सदा स्याद्भवदोषदृष्टेः ॥९१॥अविचार्य यस्तु वपुराद्यहमित्यभिमन्यते जडमतिः सुदृढम् ।तमबुद्धतत्त्वमधिकृत्य विधिप्रतिषेधशास्त्रमखिलं सफलम् ॥९२॥कृतधीस्त्वनाश्रममवर्णमजात्यववोधमात्रमजमेकरसम् ।स्वतयाऽवगत्य न भजेन्निवसन्निगमस्य मूर्ध्नि विधिकिङ्करताम् ॥९३॥कलशादि मृत्प्रभवमस्ति यथा मृदमन्तरा न जगदेवमिदम् ।परमात्मजन्यमपि तेन विना समयत्रयेऽपि न समस्ति खलु ॥९४॥कथमज्यते जगदशेषमिदं कलयन्मृषेति हृदि कर्मफलैः ।न फलाय हि स्वपनकालकृतं सुकृतादि जात्वनृतबुद्धिहतम् ॥९५॥तदयं करोतु हयमेधशतान्यमितानि विप्रहननान्यथवा ।परमार्थविन्न सुकृतैर्दुरितैरपि लिप्यतेऽस्तमितकर्तृतया ॥९६॥अवधीत्त्रिशीर्षमददाच्च यतीन् वृकमण्डलाय कुपितः शतशः ।बत लोमहानिरपि तेन कृता न शतक्रतोरिति हि बह्वृचगीः ॥९७॥बहुदक्षिणैरयजत क्रतुभिर्विबुधानतर्पयदसङ्ख्यधनैः ।जनकस्तथाऽप्यभयमाप परं न तु देहयोगमिति काण्ववचः ॥९८॥न विहीयतेऽहिरिपुवदुरितैर्न च वर्धते जनकवत्सुकृतैः ।न स तापमेत्यकरवं दुरितं किमहं न साध्वकरवं त्विति च ॥९९॥तदनङ्गशास्त्रपरिशीलनमप्यमुनैव सौम्य करणेन कृतम् ।न हि दोषकृत्तदपि शिष्टसरण्यवनार्थमन्यवपुरेत्य यते ॥१००॥इति सत्कथः स कथनीययशा भवभीतिभञ्जनकरीः कययन् ।सुदुरासदं चरणचारिजनैर्गिरिशृङ्गमेत्य पुनरेव जगौ ॥१०१॥अधिसानु पश्यत विभाति गुहा पुरतःशिला समतला विपुला ।सरसी च तत्परिसरेऽच्छजला फलभारनम्रतरुरभ्यतटा ॥१०२॥परिपालयतामिह वसद्भिरिदं वपुरप्रमादमनवद्यगुणाः ।अहमास्थितस्तदुचितं करणं कलयामि यावदसमेषुकलाम् ॥१०३॥इति शिष्यवर्गमनुशास्य यतिमवरो विसृष्टकरणोऽधिगुहम् ।महिपस्य वर्ष्म गुरुयोगवलोऽविशदातिवाहिकशरीरयुतः ॥१०४॥अङ्गुष्टमारभ्य समीरणं नयन् करन्ध्रमार्गाद्बहिरेत्य योगवित् ।करन्ध्रमार्गेण शनैः प्रविष्टवान् मृतस्य यावच्चरणाग्रमेकधीः ॥१०५॥गात्रं गतासोर्वसुधाधिपस्य शनैः समास्पन्दत हृत्प्रदेशे ।तथोदमीलन्नयनं क्रमेण तथोदतिष्ठत्स यथापुरैव ॥१०६॥आदौ तदङ्गमुदयन्मुखकान्ति पश्चान्नासान्तनिर्यदनिलं शनकैः परस्तात् ।उन्मीलदङ्घ्रिचलनं तदनुद्यदक्षिव्याकोचमुत्थितमुपात्तबलं क्रमेण ॥१०७॥तं प्राप्तजीवमुपलभ्य पतिं प्रभूतहर्षस्वनाः प्रमुदिताननपङ्कजास्ताः ।नार्यो विरेजुररुणोदयसम्प्रफुल्लपद्माः ससारसरवा इव वारिजिन्यः ॥१०८॥हर्षं तासामुदितमतुलं वीक्ष्य वामेक्षणाना-मात्तप्राणं नृपमपि महामात्यमुख्याः प्रहृष्टाः ।दध्मुः शङ्खान् पणवपटहान् दुन्दुभीश्चाभिजघ्नु-स्तेषां घोषाः सपदि बधिरीचक्रिरे द्यां भुवं च ॥१०९॥इति श्रीमाधवीये तत्सार्वज्ञ्योपायगोचरः ।सङ्क्षेपशङ्करजये सर्गोऽयं नवमोऽभवत् ॥९॥आदितः श्लोकाः १०२९ N/A References : N/A Last Updated : January 23, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP