शङ्करदिग्विजयम् - अथ सप्तमः सर्गः
शङ्करदिग्विजयम्
स जातु शारीरकसूत्रभाष्यमध्यापयन्नभ्रसरित्समीपे ।
शिष्यालिशङ्काः शमयन्नुवास यावन्नभोमध्यमितो विवस्वान् ॥१॥
श्रान्तेष्वथाधीत्य शनैर्विनेयेष्वाचार्य उत्तिष्ठति यावदेषः ।
तावद् द्विजः कश्चन वृद्धरूपः कस्त्वं किमध्यापयसीत्यपृच्छत् ॥२॥
शिष्यास्तमूचुर्भगवानसौ नो गुरुः समस्तोपनिषत्स्वतन्त्रः ।
अनेन दुरीकृतभेदवादमकारि शारीरकसुलभाष्यम् ॥३॥
स चाब्रवीद्भाष्यकृतं भवन्तमेते वदन्त्यद्भुतमेतदास्ताम् ।
अथैकमुच्चारय पारमार्षं यतेऽर्थतस्त्वं यदि वेत्थ सूत्रम् ॥४॥
तमब्रवीद्भाष्यकृदग्र्यवाचं सुत्रार्थविद्भ्य्ऽस्तु नमो गुरुभ्यः ।
सूत्रज्ञताहङ्कृतिरस्ति नो मे तथाऽपि यत्पृच्छसि तद्ब्रवीमि ॥५॥
पप्रच्छ सोऽध्यायमथाधिकृत्य तृतीयमारम्भगतं यतीशम् ।
``तदन्तरे''त्यादिकमस्ति सूत्रं ब्रह्येतदर्थं यदि वेत्थ किञ्चित् ॥६॥
स प्राह जीवः करणावसादे संवेष्टितो गच्छति भूतसूक्ष्मैः ।
ताण्डिश्रुतौ गौतमजैवलीयप्रश्नोत्तराभ्यां प्रथितोऽयमर्थः ॥७॥
इत्युक्तमर्थं निशमय्य तेन स वावदूकः शतधा विकल्प्य ।
अखण्डयत्पण्डितकुञ्जराणां मध्ये महाविस्मयमादधानः ॥८॥
अनुद्य सर्वं फणितं तदीयं सहस्रधा तीर्थकरश्चखण्ड ।
तयाः सुराचार्यफणीन्द्रवाचोर्दिनाष्टकं वाक्कलहो जजृम्भे ॥९॥
एवं वदन्तौ यतिराद्विजेन्द्रौ विलोक्य पार्श्वस्थितपद्मपादः ।
आचार्यमाहेति महीसुरोऽयं व्यासो हि वेदान्तरहस्यवेत्ता ॥१०॥
त्वं शङ्करः शङ्कर एव साक्षात् व्यासस्तु नारायण एव नूनम् ।
तयोर्विवादे सततं प्रसक्ते कि किङ्करोऽहं करवाणि सद्यः ॥११॥
इतीदमाकर्ण्य वचो विचित्रं स भाष्यकृत्सूत्रकृतं दिदृक्षुः ।
कृताञ्जलिस्तं प्रयतः प्रणम्य बभाण वाणीं नवपद्यरूपाम् ॥१२॥
भवांस्तडिच्चारुजटाकिरीटप्रवर्षुकाम्भोधरकान्तिकान्तः ।
शुभ्रोपवीती घृतकृष्णचर्मा कृष्णो हि साक्षात्कलिदोषहन्ता ॥१३॥
भावत्कसूत्रप्रतिपाद्यतादृक्परापरार्थप्रतिपादकं सत् ।
अद्वैतभाव्यं तव सम्मतं चेत्सोढ्वा ममाऽगः पुरतो भवाऽऽशु ॥१४॥
एवं वदन्नयमथैक्षत कृष्णमाराच्चामीकरव्रततिचारुजटाकलापम् ।
विद्युल्लतावलयवेष्टितवारिदाभं चिन्मुद्रया प्रकटयन्तमभीष्टमर्थम् ॥१५॥
गाढोपगूढमनुरागजुषा रजन्या गर्हापदं विदधतं शरदिन्दुबिम्बम् ।
तापिच्छरीतितनुकान्तिझरीपरीतं कान्तेन्दुकान्तघटितं करकं दधानम् ॥१६॥
सप्ताधिकाच्छदरविंशतिमौक्तिकाढ्यां
सत्यस्य मूर्तिमिव बिभ्रतमक्षमालाम् ।
तत्तादृशस्वपतिवंशविवर्धनात्प्रा-
क्तारावलीमुपगतामिव चानुनेतुम् ॥१७॥
शार्दूलचर्मोद्वहनेन भूतेरुद्धूलनेनापि जटाच्छटाभिः ।
रुद्राक्षमालावलयेन शम्भोरर्धासनाध्यासनसख्यपात्रम् ॥१८॥
अद्वैतविद्यासृणितीक्ष्णधारावशीकृताहङ्कृतिकुञ्जरेन्द्रम् ।
स्वशास्त्रशङ्कूज्ज्वलसूत्रदामनियन्त्रिताकृत्रिमगोसहस्रम् ॥१९॥
तत्तादृगत्युज्ज्वलकीर्तिशालिशिष्यालिसंशोभितपार्श्वभागम् ।
कटाक्षबीक्षामृतवर्षधारानिवारिताशेषजनानुतापम् ॥२०॥
विलोक्य वाचंयमसार्वभौमं स शङ्करोऽशङ्कितदर्शनं तम् ।
गुरुं गुरूणामपि हृष्टचेताः प्रत्युद्ययौ शिष्यगणैः समेतः ॥२१॥
अत्यादराच्छात्रगणैः सहासौ प्रत्युद्गतस्तच्चरणौ प्रणम्य ।
यत्यग्रगामी विनयी प्रहृष्यन्नित्यब्रवीत्सत्यवतीसुतं सः ॥२२॥
द्वैपायन स्वागतमस्तु तुभ्यं दृष्ट्वा भवन्तं चरिता मयार्थाः ।
युक्तं तदेतत्त्वयि सर्वकालं परोपकारव्रतदीक्षितत्वात् ॥२३॥
मुने पुराणानि दशाष्ट साक्षाच्छ्रुत्यर्थगर्भाणि सुदुष्कराणि ।
कृतानि पद्यद्वयमत्र कर्तुं को नाम शक्नोति सुसङ्गतार्थम् ॥२४॥
वेदार्णवं व्यतियुतं व्यदधाश्चतुर्धा
शाखाप्रभेदनवशादपि तान् विभक्तान् ।
मन्दाः कलौ क्षितिसुरा जनितार एते
वेदान् ग्रहीतुमलसा इति चिन्तयित्वा ॥२५॥
एष्यद्विजानासि भवन्तमर्थं गतं च सर्वं न न वेत्सि यत्तत् ।
नो चेत्कथं भूतभवद्भविष्यत्कथाप्रबन्धान् रचयेरजानन् ॥२६॥
आभासयन्नन्तरमङ्गमान्ध्यं स्थूलं च सृक्ष्मं बहिरन्तरं च ।
अपानुदन् भारतशीतरश्मिरभूदपूर्वी भगवत्पयोधेः ॥२७॥
वेदाः षडङ्गं निखिलं च शास्त्रं महान् महाभारतवारिराशिः ।
त्वत्तः पुराणानि च सम्बभूवुः सर्वं त्वदीयं खलु वाङ्मयाख्यम् ॥२८॥
द्वीपे क्वचित् समुदयन्नृतमेव धाम शाखासहस्रसचिवः शुकसेव्यमानः ।
उल्लासयत्यहह यस्तिलको मुनीर्थन्नामुच्चैः फलानि सुदृशां निजपादभाजाम् ॥२९॥
धत्से सदाऽऽर्तिशमनाय हृदा गिरीशं गोपाय सेऽधिवदनं च चिरन्तनीर्गाः ।
दूरीकरोषि नरकं च दयार्द्रदृष्टया कस्ते गुणान् गदितुमद्भुतकृष्ण शक्तः ॥३०॥
यमामनन्ति श्रुतयः पदार्थं न सन्न चासन्न बहिर्न चान्तः ।
स सच्चिदानन्दघनः परात्मा नारायणस्त्वं पुरुषः पुराणः ॥३१॥
इति स्तुतस्तेन यथाविधानमासेदिवान् विष्टरमात्मनिष्ठः ।
द्वैपायनः प्रश्रयनम्रपूर्वकायं यतीशानमिदं बभाषे ॥३२॥
त्वमस्मदादेः पदवीं गतोऽभूरखण्डपाण्डित्यमबोधयं ते ।
शुकर्षिवत् प्रीतिकरोऽसि विद्वन् पुरेव शिष्यैः सह मा भ्रमीस्त्वम् ॥३३॥
कृतं त्वया भाष्यमितीन्दुमौलेः सभाङ्गणे सिद्धमुखान्निशम्य ।
हृदा प्रहृष्टेन दिदृक्षया ते दृगध्वनीनः प्रशमिन्नभूवम् ॥३४॥
इत्थं मुनीन्द्रवचनश्रवणोत्थहर्षं
रोमाञ्चपूरमिषतो बहिरुत्प्लवन्तं
बिभ्रत्तमभ्ररुचिमाख्यददभ्रशक्तिं
श्रीशङ्करः शुकमतार्णवपूर्णचन्द्रः ॥३५॥
सुमन्तुपैलप्रथमा मुनीन्द्रा महानुभावा ननु यस्य शिष्याः ।
तृणाल्लघीयानपि तत्र कोऽहं तथाऽपि कारुण्यमदर्शि दीने ॥३६॥
सोऽहं समस्तार्थविवेचकस्य कृत्वा भवत्सूत्रसहस्ररश्मेः ।
भाष्यप्रदीपेन महर्षिमान्य नीराजनं धृष्टतया लज्जे ॥३७॥
अकारि यत्साहसमात्मबुद्ध्या भवत्प्रशिष्यव्यपदेशभाजा ।
विचार्य तत्सूक्तिदुरुक्तिजालमर्हः समीकर्तुमिदं कृपालुः ॥३८॥
इत्थं निगद्योपरतस्य हस्ताद्धस्तद्वयेनाऽऽदरतः स भाष्यम् ।
आदाय सर्वत्र निरैक्षतासौ प्रसादगाम्भीर्यगुणाभिरामम् ॥३९॥
सूत्रानुकारिमृदुवाक्यनिवेदितार्थं स्वीयैः पदैः सह निराकृतपूर्वपक्षम् ।
सिद्धान्तयुक्तिविनिवेशिततत्स्वरूपं दृष्ट्वाऽभिनन्द्य परितोषवशादवोचत् ॥४०॥
न साहसं तात भवानकार्षीद्यत्सूत्रभाष्यं गुरुणा विनीतः ।
विचार्यतां सूत्रदुरुक्तमत्रेत्येतन्महत्साहसमित्यवैमि ॥४१॥
मीमांसकानामपि मुख्यभूतो वेत्थाखिलव्याकरणानि विद्वन् ।
विनिःसरेत्ते वदनाद्यतीन्दो गोविन्दशिष्यस्य कथं दुरुक्तम् ॥४२॥
न प्राकृतस्त्वं सकलार्थदर्शी महानुभावः पुरुषोऽसि कश्चित् ।
यो ब्रह्मचर्याद्विषयान्निवार्य पर्यव्रजः सूर्य इवान्धकारान् ॥४३॥
बह्वर्थगर्भाणि लघूनि यानि निगूढभावानि च मत्कृतानि ।
त्वामेवमित्थं विरहय्य नास्ति यस्तानि सम्यग्विवरीतुमीष्टे ॥४४॥
निसर्गदुर्ज्ञानतमानि को वा सूत्राण्यलं वेदितुमर्थतः सन् ।
क्लेशस्तु तावान् विवरीतुरेषां यावान् मणेतुर्विबुधा वदन्ति ॥४५॥
भावं मदीयमवबुध्य यथावदेवं
भाष्यं प्रणेतुमनलं भगवानपीशः ।
साङ्ख्यादिनाऽन्यथयितं श्रुतिमूर्धवर्मो-
द्धर्तुं कथं परशिवांशमृते प्रभुः स्यात् ॥४६॥
रोषानुषङ्गकलयाऽपि सुदूरमुक्तो
धत्सेऽधिमानसमहो सकलाः कलाश्च ।
सर्वात्मना गिरिजयोपहितस्वरूपः
शक्यो न वर्णयितुमद्भुतशङ्करस्त्वम् ॥४७॥
व्याख्याप्यसङ्ख्यैः कविभिः पुरैतद्वयाख्यास्यते कैश्चिदितः परं च ।
भवानिवास्मद्धृदयं किमेते सर्वज्ञ विज्ञातुमलं निगूढम् ॥४८॥
व्याख्याहि भूयो निगमान्तविद्यां विभेदवादान् विदुषो विजित्य ।
ग्रन्थान् भुवि ख्यापय सानुबन्धानहं गमिष्यामि यथाभिलाषम् ॥४९॥
इत्युक्तवन्तं तमसाववोचत् कृतानि भाष्याण्यपि पाठितानि ।
ध्वस्तानि सम्यक्कुमतानि धैर्यादितः परं किं करणीयमस्ति ॥५०॥
मुहूर्तमात्रं मणिकर्णिकायां विधेहि सद्वत्सल सन्निधानम् ।
चिराद्यतेऽहं परमायुषोऽन्ते त्यजामि यावद्वपुरद्य हेयम् ॥५१॥
इतीदमाकर्ण्य वचो विचिन्त्य स शङ्करं माह कुरुष्व मैवम् ।
अनिर्जिताः सन्ति वसुन्धरायां त्वया बुधाः केचिदुदारविद्याः ॥५२॥
जयाय तेषां कति हायनानि वस्तव्यमेव स्थिरधीस्त्वयाऽपि ।
नो चेन्मुमुक्षा भुवि दुर्लभा स्यात् स्थितिर्यथा मातृधुतस्य बाल्ये ॥५३॥
प्रसन्नगम्भीरभवत्प्रणीतप्रबन्धसन्दर्भभवः प्रहर्षः ।
प्रोत्साहत्यात्मविदामृषीणां वरेण्य विश्राणयितुं वरं ते ॥५४॥
अष्टौ वयांसि विधिना तत्र वत्स दत्ता-
न्यन्यानि चाष्ट भवता सुधियाऽऽर्जितानि ।
भूयोऽपि षोडश भवन्तु भवाज्ञया ते
भूयाच्च भाष्यमिदमारविचन्द्रतारम् ॥५५॥
त्वमायुषाऽनेन विरोधिवादिगर्वाङ्कुरोन्मूलनजागरूकैः ।
वाक्यैः कुरुष्व्ज्झितभेदबुद्धीनद्वैतविद्यापरिपन्थिनोऽन्यान् ॥५६॥
इतीरयन्तं प्रति वाचमूचे स शङ्करः पावितसर्वलोकः ।
त्वत्सूत्रसम्बन्धवशान्मदीयं भाष्यं प्रचारं भुवि यातु विद्वन् ॥५७॥
इतीरयित्वा चरणौ ववन्दे यतिर्मुनेः सर्वविदो महात्मा ।
प्रदाय सम्भाव्य वरं मुनीशो द्वैपायनः सोऽन्तरधाद्यतात्मा ॥५८॥
इत्थं निगद्य ऋषिवृष्णि तिरोहितेऽस्मिन्नन्तर्विवेक निधिरप्यथ विव्यथे सः ।
हृत्तापहारिनिरुपाधिकृपारसानां तत्तादृशां कथमह् विरहो विषह्यः ॥५९॥
तत्पादपद्मे निजचित्तपद्मे पश्यन् कथञ्चिद्विरहं विषह्य ।
यतिक्षितीशोऽपि गुरोर्नियोगान्मनो दधे दिग्विजये मनीषी ॥६०॥
भाष्यस्य वार्तिकमथैष कुमारिलेन भट्टेन कारयितुमादरवान् मुनीन्द्रः ।
वन्ध्यायमानदरविन्ध्यमहीधरेण वाचंयमेन चरितां हरितं प्रतस्थे ॥६१॥
ततः स वेदान्तरहस्यवेत्ता भेत्ताऽमतानां तरसा मतानाम् ।
प्रयागमागात्मथमं जिगीषुः कुमारिलं साधितकर्मजालम् ॥६२॥
आमज्जतां किल तनुमसितां सितां च कर्तुं कलिन्दसुतया कलितानुषङ्गाम् ।
अह्नाय जह्नुतनयामथ निह्नुताघां मध्ये प्रयागमगमन्मुनिरर्थमार्गम् ॥६३॥
गङ्गाप्रवाहैरूपरुद्धवेगा कलिन्दकन्या स्तिमितप्रवाहा ।
अपूर्वसख्यागतलज्जयेव यत्राधिकं भाति विचित्रपाथाः ॥६४॥
अन्तेवसद्भिरमलच्छविसम्पदायमध्येतुमाश्रितजलां कुहचिन्मरालैः ।
चक्रद्वयेन रजनीसहवाससौख्यसंशीलनाथ किल संवलितां परत्र ॥६५॥
यत्राप्लुता दिव्यशरीरभाज आचन्द्रतारं दिवि भोगजातम् ।
सम्भुञ्जते व्याधिकथानभिज्ञाः प्राहेममर्थं श्रुतिरेव साक्षात् ॥६६॥
अज्ञातसम्भवतिरोधिकथाऽपि वाणी यस्याः सितासिततयैव गृणाति रूपम् ।
भागीरथीं यमुनया परिचर्यमाणामेतां विगाह्य मुदितो मुनिरित्यभाणीत् ॥६७॥
सिद्धापगे पुरविरोधिजटोपरोधक्रुद्धा कुतः शतमदःसदृशान् विधत्से ।
बद्धा न किं नु भवितासि जटाभिरेषामद्धा जडप्रकृतयो न विदन्ति भावि ॥६८॥
सन्मार्गवर्तनपराऽपि सुरापगे त्वमस्थीनि नित्यमशुचीनि किमादसि ।
आ ज्ञातमम्ब हृदयं तव सज्जनानां प्रायः प्रसाधनकृते कृतमज्जनानाम् ॥६९॥
स्वापानुषङ्गजडताभरिताञ्जनौघान् स्वापानुषङ्गजडताविधुरान्विधत्से ।
दूरीभवद्विषयरागहृदोऽपि तूर्णं धूर्तावतंसंयसि देवि क एष मार्गः ॥७०॥
इति स्तुवंस्तापसराट् त्रिवेणीं शाट्या समाच्छाद्य कटीं कृपीटे ।
दोर्दण्डयुग्मोद्धृतवेणुदण्डोऽघमर्षणस्नानमना बभूव ॥७१॥
सस्त्रौ प्रयागे सह शिष्यसन्धैः स्वयं कृतार्थो जनसङ्ग्रहार्थी ।
अस्मारि माताऽपि च सा पुपोष दधार या दुःखमसोढ भूरि ॥७२॥
अनुष्ठितिं द्रागवसाय्य वातैः कल्हारशीतैरुपसेव्यमानः ।
तीरे विशश्राम तमालमालिन्यत्रान्तरेश्रूयत लोकवार्ता ॥७३॥
गिरेरवप्लुत्य गतिः सतां यः प्रामाण्यमाम्नाय गिरामवादीत् ।
यस्य प्रसादात्त्रिदिवौकसोऽपि प्रपेदिरे प्राक्तनयज्ञभागान् ॥७४॥
सोऽयं गुरोरुन्मथनप्रसक्तं महत्तरं दोषमपाकरिष्णुः ।
अशेषवेदार्थविदास्तिकत्वात्तुषानलं प्राविशदेष धीरः ॥७५॥
अयं ह्यधीताखिलवेदमन्त्रः कूलङ्कषालोडितमर्वतन्त्रः ।
नितान्तदूरीकृतदुष्टतन्त्रस्त्रैलोक्यविभ्रामितकीर्तियन्त्रः ॥७६॥
श्रुत्वेति तां सत्वरमेष गच्छन् व्यालोकयत्तं तुषराशिसंस्थम् ।
प्रभाकराध्यैः प्रथितप्रभावैरुपस्थितं साश्रुमुखैर्विनेयैः ॥७७॥
धूमायमानेन तुषानलेन सण्ढह्यमानेऽपि वपुष्यशेषे ।
सादृश्यमानेन मुखेन वाष्पपरीतपद्मश्रियमादधानम् ॥७८॥
दुरे विधूताघमपाङ्गभङ्ग्या तं देशिकं दृष्टिपथावतीर्णम् ।
ददर्श भट्टो ज्वलदग्निकल्पो जुगोप यो वेदपथं जितारिः ॥७९॥
अष्टपूर्वं श्रुतपूर्ववृत्तं दृष्ट्वाऽतिमोदं स जगाम भट्टः ।
अचीकरच्छिष्यगणैः सपर्यामुपाददे तामपि देशिकेन्द्रः ॥८०॥
उपात्तभिक्षः परितुष्टचित्तः प्रदर्शयामास स भाष्यमस्मै ।
सर्वो निबन्धो ह्यमलोऽपि लोके शिष्टेक्षितः सञ्चरणं प्रयाति ॥८१॥
दृष्ट्वा भाष्यं हृष्टचेताः कुमारः प्रोचे वाचं शङ्करं देशिकेन्द्रम् ।
लोके त्वल्पो मत्सरग्रामशाली सर्वज्ञानो नाल्पभावस्य पात्रम् ॥८२॥
अष्टौ सहस्राणि विभान्ति विद्वन् सद्वार्तिकानां प्रथमेऽत्र भाष्ये ।
अहं यदि स्यामगृहीतदीक्षो ध्रुवं विधास्ये सुनिबन्धमस्य ॥८३॥
भवादृशां दर्शनमेव लोके विशेषतोऽस्मिन् सपये दुरापम् ।
पुराऽऽर्जितैः पुण्यचयैः कथञ्चित्त्वमद्य मे दृष्टिपथं गतोऽभूः ॥८४॥
असारसंसारपयोब्धिमध्ये निमज्जतां सद्भिरुदारवृत्तैः ।
भवादृशैः सङ्गतिरेव साध्या नान्यस्तदुत्तारविधावुपायः ॥८५॥
चिरं दिदृक्षे भगवन्तमित्थं त्वमद्य मे दृष्टिपथं गतोऽभूः ।
नह्यत्र संसारपथे नराणां स्वेच्छाविधेयोऽभिमतेन योगः ॥८६॥
युनक्ति कालः क्वचिदिष्टवस्तुना क्वचित्त्वरिष्टेन च नीचवस्तुना ।
तथैव संयोज्य वियोजयत्यसौ सुखासुखे कालकृते प्रवेद्म्यतः ॥८७॥
कृतो निबन्धो निरणायि पन्था निरासि नैयायिकयुक्तिजालम् ।
तथाऽन्वभूवं विषयोत्थजातं न कालमेनं परिहर्तुमीशे ॥८८॥
निरास्थमीशं श्रुतिलोकसिद्धं श्रुतेः स्वतोमात्वमुदाहरिष्यन् ।
न निह्नुवे येन विना प्रपञ्चः सौख्याय कल्पेत न जातु विद्वन् ॥८९॥
तथागताक्रान्तमभूदशेषं स वैदिकोऽध्वा विरलीबभूव ।
परीक्ष्य तेषां विजयाय मार्गं प्रावर्तिषि त्रातुमनाः पुराणम् ॥९०॥
सशिष्यसङघाः प्रविशन्ति राज्ञां गेहं तदादि स्ववशे विधातुम् ।
राजा मदीयोजिरमस्मदीयं तदाद्रियध्वं न तु वेदमार्गम् ॥९१॥
वेदोऽप्रमाणं बहुमानबाधात् परस्परव्याहतवाचकत्वात् ।
एवं वदन्तो विचरन्ति लोके न काचिदेषां प्रतिपत्तिरासीत् ॥९२॥
अवादिषं वेदविघातदक्षैस्तन्नाशकं जेतुमबुध्यमानः ।
तदीयसिद्धान्तरहस्यवार्धीर्न्निषेध्यबोधाद्धि निषेध्यबाधः ॥९३॥
तदा तदीयं शरणं प्रपन्नः सिद्धान्तमश्रौषमनुद्धतात्मा ।
अदूदुषद्वैदिकमेव मार्गं तथागतो जातु कुशाग्रबुद्धिः ॥९४॥
तदाऽपतन्मे सहसाऽश्रुबिन्दुस्तच्चाविदुः पार्श्वनिवासिनोऽन्ये ।
तदा प्रभृत्येव विवेश शङ्का मय्याप्तभावं परिहृत्य तेषाम् ॥९५॥
विपक्षपाठी बलवान् द्विजातिः प्रत्याददद्दर्शनमस्मदीयम् ।
उच्चाटनीयः कथमप्युपायैर्न्नैतादृशः स्थापयितुं हि योग्यः ॥९६॥
सम्मन्त्र्य चेत्थं कृतनिश्चयास्ते ये चापरेऽहिंसनवादशीलाः ।
न्यपातयन्नुच्चतरात् प्रमत्तं मामग्रसौधाद्विनिपातभीरुम् ॥९७॥
पतन् पतन् सौधतलान्यरोहं यदि प्रमाणं श्रुतयो भवन्ति ।
जीवेयमस्मिन् पतितोऽसमस्थले मज्जीवने तच्छ्रुतिमानता गतिः ॥९८॥
यदीह सन्देहपदप्रयोगाद्व्याजेन शास्त्रश्रवणाच्च हेतोः ।
ममोच्चदेशात्पततो व्यनङ्क्षीत्तदेकचक्षुर्विधिकल्पना सा ॥९९॥
एकाक्षरस्यापि गुरुः प्रदाता शास्त्रोपदेष्टा किमु भाषणीयम् ।
अहं हि सर्वज्ञगुरोरधीत्य प्रत्यादिशे तेन गुरोर्महागः ॥१००॥
तदेवमित्थं सुगतादधीत्य प्राघातयं तत्कुलमेव पूर्वम् ।
जैमिन्युपज्ञेऽभिनिविष्टचेताः शास्त्रे निरास्थं परमेश्वरं च ॥१०१॥
दोषद्वयस्यास्य चिकीर्षुरर्हन् यथोदितां निष्कृतिमाश्रयाशम् ।
प्राविक्षमेषा पुनरुक्तभूता जाता भवत्पादनिरीक्षणेन ॥१०२॥
भाष्यं प्रणीतं भवतेति योगिन्नाकर्ण्य तत्रापि विधाय वृत्तिम् ।
यशोऽधिगच्छेयमिति स्म वाञ्च्छा स्थिता पुरा सम्प्रति किं तदुक्त्या ॥१०३॥
जाने भवन्तमहमार्यजनार्थजातमद्वैतरक्षणकृते विहितावतारम् ।
प्रागेव चेन्नयनवर्त्म कृतार्थयेथाः पापक्षयाय न तदेदृशमाचरिष्यम् ॥१०४॥
प्रायोऽधुना तदुभयप्रभवाघशान्त्यै
प्राविक्षमार्य तुषपावकमात्तदीक्षः ।
भाग्यं न मेऽजनि हि शाबरभाष्यवत्व-
द्भाष्येऽपि किञ्चन विलिख्य यशोऽधिगन्तुम् ॥१०५॥
इत्यूचिवांसमथ भट्टकुमारिलं तमीषद्विकस्वरमुखाम्बुजमाह मौनी ।
श्रुत्यर्थकर्मविमुखान् सुगतान्निहन्तुं जातं गुहं भुवि भवन्तमहन्तु जाने ॥१०६॥
सम्भावनाऽपि भवतो न हि पातकस्य सत्यं व्रतं चरसि सज्जनशिक्षणाय ।
उज्जीवयामि करकाम्बुकणोक्षणेन भाष्येऽपि मे रचय वार्तिकमङ्गभव्यम् ॥१०७॥
इत्यूचिवांसं विबुधावतंसं स धर्मविद् ब्रह्मविदां वरेण्यम् ।
विद्याधनः शान्तिधनाग्रगण्यं समश्रयं वाचमुवाच भूयः ॥१०८॥
नार्हामि शुद्धमपि लोकविरुद्धकृत्यं कर्तुं मयीड्य महितोक्तिरियं तवार्हा ।
आजानतोऽतिकुटिलेऽपि जने महान्तस्त्वारोपयन्ति हि गुणं धनुषीव शूराः ॥१०९॥
सञ्जीवनाय चिरकालमृतस्य च त्वं शक्तोऽसि शङ्कर दयोर्मिलदृष्टिपातैः ।
आरब्धमेतदधुना व्रतमागमोक्तं मुञ्चन् सतां न भविताऽस्मि बुधाविनिन्द्यः ॥११०॥
जाने तवाहं भगवन् प्रभावं संहृत्य भूतानि पुनर्यथावत् ।
स्रष्टुं समर्थोऽसि तथाविधो मामुज्जीवयेश्चेदिह किं विचित्रम् ॥१११॥
नाभ्युत्सहे किन्तु यतिक्षितीन्द्र सङ्कल्पितं हातुमिदं व्रताग्र्यम् ।
तत्तारकं देशिकवर्य मह्यमादिश्य तद्ब्रह्म कृतार्थयेथाः ॥११२॥
अयं च पन्था यदि ते प्रकाश्यः सुधीश्वरो मण्डनमिश्रशर्मा ।
दिगन्तविश्रान्तयशा विजेयो यस्मिञ्जिते सर्वमिदं जितं स्यात् ॥११३॥
सदा वदन् योगपदं च साम्प्रतं स विश्वरूपः प्रथितो महीतले ।
महागृही वैदिककर्मतत्परः प्रवृत्तिशास्त्रे निरतः सुकर्मठः ॥११४॥
निवृत्तिशास्त्रे नकृतादरः स्वयं केनाप्युपायेन वशं स नीयताम् ।
वशं गते तत्र भवेन्मनोरथस्तदन्तिकं गच्छतु मा चिरं भवान् ॥११५॥
उंवेक इत्यभिहितस्य हि तस्य लोकैरुंवेति बान्धवजनैरभिधीयमाना ।
हेतोः कुतश्चिदिह वावसुरुषाऽभिशप्ता दुर्वाससाऽजनि वधूर्दयभारतीति ॥११६॥
सर्वासु शास्त्रसरणीषु स विश्वरूपो मत्तोऽधिकः प्रियतमश्च मदाश्रवेषु ।
तत्प्रेयसीं शमधनेन्द्र विधाय साक्ष्ये वादे विजित्य तमिमं वशगं विधेहि ॥११७॥
तेनैव तावककृतिष्वपि वार्तिकानि कर्मन्दिवर्यतम कारय मा विलम्बम् ।
त्वं विश्वनाथ इव मे समये समागास्तत्तारकं समुपदिश्य कृतार्थयेथः ॥११८॥
निर्व्याजकारुण्य मुहूर्तमात्रमत्र त्वया भाव्यमहं तु यावत् ।
योगीन्द्रहृत्पङ्कजभाग्यमेतत् त्यजाम्यसून् रूपमवेक्षमाणः ॥११९॥
इत्यूचिवांसमिममिद्धसुखप्रकाशं ब्रह्मोपदिश्य बहिरन्तरपास्तमोहम् ।
तन्वन्दयानिघिरसौ तरसाऽभ्रमार्गाच्छ्रीमण्डनस्य निलयं स इयेष गन्तुम् ॥१२०॥
अथ गिरमुपसंहृत्यादराद्भट्टपादः शमधनपतिनासौ बोधिताद्वैततत्वः ।
प्रशमितममतः संस्तत्प्रसादेन सद्यो विदलदखिलबन्धो वैष्णवं धाम पेदे ॥१२१॥
इति श्रीमाधवीये तद्व्याससन्दर्शचित्रगः
सङ्क्षेपशङ्करजये सर्गोऽसौ सप्तमोऽभवत् ॥७॥
आदितः श्लोकाः ७८४
N/A
References : N/A
Last Updated : January 23, 2026

TOP