संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|शङ्करदिग्विजयम्| अथ तृतीयः सर्गः शङ्करदिग्विजयम् अनुक्रमणिका अथ प्रथमः सर्गः अथ द्वितीयः सर्गः अथ तृतीयः सर्गः अथ चतुर्थः सर्गः अथ पञ्चमः सर्गः अथ षष्ठः सर्गः अथ सप्तमः सर्गः अथ अथाष्टमः सर्गः अथ नवमः सर्गः अथ दशमः सर्गः अथ एकादशः सर्गः अथ द्वादशः सर्गः अथ त्रयोदशः सर्गः अथ चतुर्दशः सर्गः अथ पञ्चदशः सर्गः अथ षोडशः सर्गः शङ्करदिग्विजयम् - अथ तृतीयः सर्गः शङ्करदिग्विजयम् Tags : shankar digvijayशङ्कर दिग्विजय देवावतारः Translation - भाषांतर इति बालमृगाङ्कशेखरे सति बालत्वमुपागते ततः ।दिविषत्प्रवराः प्रजज्ञिरे भुवि षट्शास्त्रविदां सतां कुले ॥१॥कमलानिलयः कलानिधेर्विमलाख्यादजनिष्ट भूसुरात् ।भुवि पद्मपदं वदन्ति यं सविपद्येन विवादिनां यशः ॥२॥पवमानोऽप्यजनि प्रभाकरात्सवनोन्मीलितकीर्तिमण्डलात् ।गलहस्तितभेदवाद्यसौ किल हस्तामलकाभिधामघात् ॥३॥पवमानदशांशतोऽजनि प्लवमानाऽञ्चति यद्यशोम्बुधौ ।धरणी मथिता विवादिवाक्तरणी येन स तोटकाह्वयः ॥४॥उदभावि शिलादसूनुना मदवद्वादिकदम्बनिग्रहैः ।समुदञ्चितकीर्तिशालिनं यमुदङ्कं ब्रुवते महीतले ॥५॥विधिरास सुरेश्वरो गिरां निधिरानन् गिरिर्व्यजायत ।अरुणः समभूत्सनन्दनो वरुणोऽजायत चित्सुखाह्वयः ॥६॥अपरेऽप्यभवन्दिवौकसः स्वपरेर्ष्यापरविद्विषः प्रभोः ।चरणं परिसेवितुं जगच्छरणं भूसुरपुङ्गवात्मजाः ॥७॥चार्वाकदर्शनविधानसरोषधातृ-शापेन गीष्पतिरभूद्भुवि मण्डनाख्यः ।नन्दीश्वरः करुणयेश्वरचोदितः स-न्नानन्द गिर्यभिधया व्यजनीति केचित् ॥८॥अथावतीर्णस्य विधेः पुरन्ध्री साऽभूद्यदाख्योभयभारतीति ।सरस्वती सा खलु वस्तुवृत्या लोकोऽपि तां वक्ति सरस्वतीति ॥९॥पुरा किलाध्यैषत धातुरन्तिके सर्वज्ञकल्पा मुनयो निजं निजम् ।वेदं तदा दुर्वसनोऽतिकोपनो वेदानधीयन्क्वचिदस्खलत्स्वरे ॥१०॥तदा जहासेन्दुमुखी सरस्वती यदङ्गमर्णोद्भवशब्दसन्ततिः ।चुकोप तस्यै दहनानुकारिणा निरैक्षताक्ष्णा मुनिरुग्रशासनः ॥११॥शशाप तां दुर्विनयेऽवनीतले जायस्व मर्त्येष्वबिभेत्सरस्वती ।प्रसादयामास निसर्गकोपनं तत्पादमूले पतिता विषादिनी ॥१२॥दृष्ट्वा विषण्णां मुनयः सरस्वतीं प्रसादयाञ्चक्रुरिमं तमादरात् ।कृतापराधा भगवन्क्षमस्व तां पितेव पुत्रं विहितागसं मुने ॥१३॥प्रसादितोऽभूदय सम्प्रसन्नो वाण्या मुनीन्द्रैरपि शापमोक्षम् ।ददौ यदा मानुषशङ्करस्य सन्दर्शनं स्याद्भवितास्य मर्त्या ॥१४॥सा शोणतीरेऽजनि विप्रकन्या सर्वार्थवित्सर्वगुणोपपन्ना ।यस्या बभूवुः सहजाश्च विद्याः शिरोगतं के परिहर्तुमीशाः ॥१५॥सर्वाणि शास्त्राणि षडङ्गवेदान्काव्यादिकान्वेत्ति परं च सर्वम् ।तन्नास्ति नो वेत्ति यदत्र बाला तस्मादभूच्चित्रपदं जनानाम् ॥१६॥सा विश्वरूपं गुणिनं गुणज्ञा मनोऽभिरामं द्विजपुङ्गवेभ्यः ।शुश्राव तां चापि स विश्वरूपस्तस्मात्तयो दर्शनलालसाऽभूत् ॥१७॥अन्योन्यसन्दर्शनलालसौ तौ चिन्ताप्रकर्षादधिगम्य निद्राम् ।अवाप्य सन्दर्शनभाषणानि पुनः प्रबुद्धौ विरहाग्नितप्तौ ॥१८॥दिदृक्षमाणावपि नेक्षमाणावन्योन्यवार्ताहतमानसौ तौ ।यथोचिताहारविहारहीनौ तनों तनुत्वं स्मरणादुपेतौ ॥१९॥दृष्ट्वा तदीयौ पितरौ कदाचिदपृच्छतां तौ परिकर्शिताङ्गौ ।वपुः कृशं ते मनसोऽप्यगर्वो न व्याधिमीक्षे न च हेतुमन्यम् ॥२०॥इष्टस्य हानेरनभीष्टयोगाद्भवन्ति दुःखानि शरीरभाजाम् ।वीक्षे न तौ द्वावपि वीक्षमाणो विना निदानं नहि कार्यजन्म ॥२१॥न तेऽत्यगादुद्वहनस्य कालः परावपानो न च निःस्वता वा ।कुटुम्बभारो मयि दुःसहोऽयं कुमारवृत्तेस्तव काऽत्र पीडा ॥२२॥न मृढभावः परितापहेतुः पराजितिर्वा तव तन्निदानम् ।विद्वत्सु विस्पष्टतयाऽयपाठात्सुदुर्गमार्थादपि तर्कविद्भिः ॥२३॥आ जन्मनो विहितकर्मनिषेवणं तेस्वप्नेऽपि नास्ति विहितेतर कर्मसेवा ।तस्मान्न भेयमपि नारकयातनाभ्यःकिं ते मुखं प्रतिदिनं गतशोभमास्ते ॥२४॥निर्बन्धतो बहुदिनं प्रतिपाद्यमानौवक्तुं कृपाभरयुताविदमृचतुः स्म ।निर्बन्धतस्तव वदामि मनोगतं मेवाच्यं न वाच्यमिति यद्वितनोति लज्जाम् ॥२५॥शोणाख्यपुन्नदतटे वसतो द्विजस्यकन्या श्रुतिं गतवती द्विजपुङ्गवेभ्यः ।सर्वज्ञतापदमनुत्तमरूपवेषांतामुद्विवक्षति मनो भगवन्मदीयम् ॥२६॥पुत्रेण सोऽतिविनयं गर्दितोऽन्वशाद् द्वौविप्रौ वधूवरणकर्मणि सम्प्रवीणौ ।तावापतुर्द्विजगृहं द्विजसन्दिदृक्षूदेशानतीत्य बहुलान्निजकार्यसिद्धयै ॥२७॥भूभृन्निकेतनगतः श्रुतविश्वशास्त्रःश्रीविश्वरूप इति यः प्रथितः पृथिव्याम् ।तत्पादपद्मरजसे स्पृहयामि नित्यंसाहाय्यमत्र यदि तात भवान्विद्ध्यात् ॥२८॥पुत्र्या वचः पिबति कर्णपुटेन तातेश्री विश्वरूपगुरुणा गुरुणा द्विजानाम् ।आजग्मतुः सुवसनौ विशदाभयष्टीसम्प्रेषितौ सुतवरोद्वहनक्रियायै ॥२९॥तावार्च्य स द्विजवरौ विहितोपचारैरायानकारणमथो शनकैरपृच्छत् ।श्रीविश्वरूपगुरुवाक्यत आगतौ स्व इत्यूचतुर्वरणकर्मणि कन्यकायाः ॥३०॥सम्प्रेषितौ श्रुतवयःकुलवृत्तधर्मैः साधारणीं श्रुतवता स्वसुतस्य तेन ।याचावहे तव सुतां द्विज तस्य हेतोरन्योन्यसङ्घटनमेतु मणिद्वयं तत् ॥३१॥मह्यं तदुक्तमभिरोचत एव विप्रौ पृष्ट्वा वधूं मम पुनः करवाणि नित्यम् ।कन्याप्रदानमिदमायतते वधूषु नो चेदमूर्व्यसनसक्तिषु पीडयेयुः ॥३२॥भार्यामपृच्छदथ किं करवाव भद्रेविप्रौ वरीतुमनसौ खलु राजगेहात् ।एतां सुतां सुतनिभा तत्र याऽस्ति कन्याब्रूहि त्वमेकमनुमाय पुनर्न वाच्यम् ॥३३॥दूरे स्थितिः श्रुतवयःकुलवृत्तजातं न ज्ञायते तदपि किं प्रवदामि तुभ्यम् ।वित्तान्विताय कुलवृत्तसमन्विताय देया सुतेति विदितं श्रुतिलोकयोश्च ॥३४॥नैवं नियन्तुमनघे तव शक्यमेतत्तां रुक्मिणीं यदुकुलाय कुशस्थलीशे ।प्रादात्स भीष्मकनृपः खलु कुण्डिनेशस्तीर्थापदेशमटते त्वपरीक्षिताय ॥३५॥किं केन सङ्गतमिदं सति मा विचारीर्य् वैदिकीं सरणिमप्रहतां प्रयत्नात् ।प्रातिष्ठिपत्सुगतदुर्जयनिर्जयेन शिष्यं यमेनमशिषत्स च भट्टपादः ॥३६॥किं वर्ण्यते सुदति यो भविता वरो नोविद्याधनं द्विजवरस्य न बाह्यवित्तम् ।याऽन्वेति सन्ततमनन्तदिगन्तभाजंयां राजचोरवनिता न च हर्तुमीशाः ॥३७॥वध्वर्जनावनपरिव्ययगानि तानिवित्तानि चित्तमनिशं परिखेदयन्ति ।चोरान्नपात्स्वजनतश्च भयं धनानांशर्मेति जातु न गुणः खलु बालिशस्य ॥३८॥केचिद्धनं निदधते भुवि नोपभोगं कुर्वन्ति लोभवशगा न विदन्ति केचित् ।अन्येन गोपितमथान्यजना हरन्ति तच्चेन्नदीपरिसरे जलमेव हर्तृ ॥३९॥सर्वात्मना दुहितरो न गृहे विधेयास्ताश्चेत्पुरा परिणयाद्रज उद्गतं स्यात् ।पश्येयुरात्मपितरौ बत पातयन्ति दुःखेषु घोरनरकेष्विति धर्मशास्त्रम् ॥४०॥मा भूदयं मम सुता कलहः कुमारींपृच्छाव सा वदति यं भविता वरोऽस्याः ।एवं विधाय समयं पितरौ कुमार्याःअभ्याशमीयतुरितो गदितेष्टकार्यौ ॥४१॥श्री विश्वरूपगुरुणा प्रहितौ द्विजातीकन्यार्थिनौ सुतनु किं करवाव वाच्यम् ।तस्याः प्रमोदनिचयो न ममौ शरीरेरोमाञ्चपूरमिषतो बहिरुज्जगाम ॥४२॥तेनैव सा प्रतिवचः प्रददौ पितृभ्यां तेनैव तावपि तयोर्युगलाय सत्यम् ।आदाय विप्रमपरं पितृगेहतोऽस्यास्तौ जग्मतुर्द्विजवरौ स्वनिकेतनाय ॥४३॥अस्माच्चतुर्दशदिने भविता दशम्यांजामित्रभादिशुभयोगयुतो मुहूर्तः ।एवं विलिख्य गणितादिषु कौशलास्याव्याख्यापराय दिशति स्म सरस्वती सा ॥४४ ४४॥तौ हृष्टपुष्टमनसौ विहितेष्टकार्यौश्री विश्वरूपगुरुमुत्तममैक्षिषाताम् ।सिद्धं समीहितमिति प्रथितानुभावोदृष्ट्वैव तन्मुखमसावथ निश्चिकाय ॥४५॥अन्यः स्वहस्तगतपत्रमदात्स पत्रं दृष्ट्वा जहास सुखवारिनिधौ ममज्ज ।विप्रान्यथोचितमपूजयदागतांस्तान्नत्वांऽशुकादिभिरयं बहुवित्तलभ्यैः ॥४६॥पित्रानुशिष्टवसुधासुरशंसितेन विज्ञापितः सुखमवाप स विश्वरूपः ।कार्याण्यथाह पृथगात्मजनान्समेतान्बन्धुप्रियः परिणयोचितसाधनाय ॥४७॥मौहूर्तिकैर्बहुभिरेत्य मुहूर्तकाले सन्दर्शिते द्विजवरैर्बहुविद्भिरिष्टैः ।माङ्गल्यवस्तुसहितोऽखिलभूषणाढ्यः स प्रापदक्षततनुः पृथुशोणतीरम् ॥४८॥शोणस्य तीरमुपयातमुपाशृणोत्स जामातरं बहुविधं किल विष्णुमित्रः ।प्रत्युज्जगाम मुमुदे प्रियदर्शनेन प्रावीविशद गृहममुं बहुवाद्यघोषैः ॥४९॥दत्त्वाऽऽसनं मृदुवचः समुदीर्य तस्मै पाद्यं ददौ समधुपर्कमनर्धपात्रे ।अर्घ्यं ददावहमियं तनया ग्रहास्ते गावो हिरण्यमखिलं भवदीयमूचे ॥५०॥अस्माकमद्य पवितं कुलमादृताः स्मः सन्दर्शनं परिणयव्यपदेशतोऽभूत् ।नोचेद्भवान्बहुविदग्रसरः क्वचाहं भद्रेण भद्रमुपयाति पुमान्विपाकात् ॥५१॥यद्यद्गृहेऽत्र भगवन्निह रोचते ते तत्तन्निवेद्यमखिलं भवदीयमेतत् ।वक्ष्यामि सर्वमभिलाषपदं त्वदीयं युक्तं हि सन्ततमुपासितवृद्धपूगे ॥५२॥एवं मिथः परिनिगद्य विशेषमृद्वया वाचा युतौ मुदमवापतुरुत्तमां तौ ।अन्ये च सम्मुमुदिरे प्रियसत्कथाभिः स्वेच्छा विहारहसनैरुभये विधेयाः ॥५३॥कन्यावरौ प्रकृतिसिद्धसुरूपवेषौ दृष्ट्व्भयेऽपि परिकर्म विलम्बमानाः ।चक्रुर्विधेयमिति कर्तुमनीश्वरास्ते शोभाविशेषमपि मङ्गलवासरेऽस्मिन् ॥५४॥एतत्प्रभाप्रतिहतात्मविभूतिभावादाकल्पजातमपि नातिशयं वितेने ।लोकप्रसिद्धिमनुसृत्य विधेयबुद्धया भूषां व्यधुस्तदुभये न विशेषबुद्धया ॥५५॥मौहूर्तिका बहुविदोऽपि मुहूर्तकालमप्राक्षुरक्षतधियं खिलतीं सखीभिः ।पश्चात्तदुक्तशुभयोगयुते शुभांशे मौहूर्तिकाः स्वमतितो जगृहुर्मुहूर्तम् ॥५६॥जग्राह पाणिकमलं हिममित्रसूनुः श्रीविष्णुमित्रदुहितुः करपल्लवेन ।भेरीमृदङ्गपटहाध्ययनाब्जघोषैर्दिङमण्डले सुपरिमूर्च्छति दिव्यकाले ॥५७॥यं यं पदार्थमभिकामयते पुमान्यस्तं तं प्रदाय समतूतुषतां तदीड्यौ ।देवद्रुमाविव महासुमनस्त्वयुक्तौ सम्भूषितौ सदसि चेरतुरात्मलाभौ ॥५८॥आधाय वह्निमथ तत्र जुहाव सभ्य-ग्गृह्योक्तमार्गमनुसृत्य स विश्वरूपः ।लाजाञ्जुहाव च वधूः परिजिघ्रति स्मधूमं प्रदक्षिणमथाकृत सोऽपि चाग्निम् ॥५९॥होमावसानपरितोषितविप्रवर्यः प्रस्थापिताखिल समागतबन्धुवर्गः ।संरक्ष्य वह्निमनया सममग्निगेहे दीक्षाघरो दिनचतुष्कमुवास हृष्टः ॥६०॥प्रतिष्ठमाने दयिते वरेऽस्मिन्नुपेत्य मातापितरौ वरायाः ।आभाषिषातां शृणु सावधानो बालेव बाला न तु वेत्ति किञ्चित् ॥६१॥बालैरियं क्रीडति कन्दुकाद्यैर्जातक्षुधा गेहमुपैति दुःखात् ।एकेति बाला गृहकर्म नोक्ता संरक्षणीया निजपुत्रितुल्या ॥६२॥बालेयमङ्ग वचनैर्मृदुभिर्विधेया कार्या न रूक्षवचनैर्न करोति रुष्टा ।केचिन्मृदूक्तिवशगा विपरीतभावाः केचिद्विहातुमनलं प्रकृतिं जनो हि ॥६३॥कश्चिद् द्विजातिरधिगम्य कदाचिदेनामुद्रीक्ष्य लक्षणमवोचदनिन्दितात्म ।मानुष्यमात्रजननं निजदेवभावेत्यस्माच्च वो वचनमुग्रमयोज्यमस्याम् ॥६४॥सर्वज्ञतालक्षणमस्ति पूर्णमेषा कदाचिद्वदतोः कथायाम् ।तत्साक्षिभावं व्रजिताऽनवद्या सन्दिश्य नावेवमसौ जगाम ॥६५॥श्वश्रूर्वराया वचनेन वाच्या स्नुषाभिरक्षाऽऽयतते हि तस्याम् ।निक्षेपभूता तव सुन्दरीयं कार्या गृहे कर्म शनैः शनैस्ते ॥६६॥बाल्येषु बाल्यात्सुलभोऽपराधः स नेक्षणीयो गृहिणीजनेन ।वयं सुधीभूय हि सर्व एव पश्चाद्गुरुत्वं शनकैः प्रयाताः ॥६७॥दृष्ट्वाऽभिधातुमनलं च मनोऽस्मदीयंगेहाभिरक्षणविधौ न हि दृश्यतेऽन्यः ।दृष्ट्वाऽभिधानफलमेव यथा भवेन्नोब्रूयात्तथेष्टजनता जननीं वरस्य ॥६८॥वत्से त्वमद्य गमिताऽसि दशामपूर्वांतद्रक्षणे निपुणधीर्भव सुभ्रु नित्यम् ।कुर्यान्न बालविहृतिं जनतोपहास्यांसा नाविवापरमियं परितोषयेत्ते ॥६९॥पाणिग्रहात्स्वाधिपती समीरितौ पुरा कुमार्याः पितरौ ततः परम् ।पतिस्तमेकं शरणं व्रजानिशं लोकद्वयं जेष्यसि येन दुर्जयम् ॥७०॥पत्यावभुक्तवति सुन्दरि मा स्म भुङ्क्ष्वयाते प्रयातमपि मा स्म भवेद्विभूषा ।पूर्वापरादिनियमोऽस्ति निमज्जनादौवृद्धाङ्गनाचरितमेव परं प्रमाणम् ॥७१॥रुष्टे धवे सति रुषेह न वाच्यमेकंक्षन्तव्यमेव सकलं स तु शाम्यतीत्यम् ।तस्मिन्प्रसन्नवदने चकितेव वत्सेसिध्यत्यभीष्टमनघे क्षमयैव सर्वम् ॥७२॥भर्तुः समक्षमपि तद्वदनं समीक्ष्यवाच्यो न जातु सुभगे परपूरुषस्ते ।किं वाच्य एष रहसीति तवोपदेशःशङ्का वधूपुरुषयोः क्षपयेद्धि हार्दम् ॥७३॥आयाति भर्तरि तु पुत्रि विहाय कार्य-मुत्थाय शीघ्रमुदकेन पदावनेकः ।कार्यो यथाभिरुचि हे सति जीवनं वानो पेक्षणीयमणुमात्रमपीह कं ते ॥७४॥धवे परोक्षेऽपि कदाचिदेयुर्गृहं तदीया अपि वा महान्तः ।ते पूजनीया बहुमानपूर्व नो चेन्निराशाः कुलदाहकाः स्युः ॥७५॥पित्रोरिव श्वशुरयोरनुवर्तितव्यंतद्वन्मृगाक्षि सहजेष्वपि देवरेषु ।ते स्नेहिनो हि कुपिता इतरेतरस्ययोगं विभिद्युरिति मे मनसि प्रतर्कः ॥७६॥हितोपदेशे विनिविष्टमानसौ वधूवरौ राजगृहं समीयतुः ।लब्धानुमानौ गुरुबन्धुबर्गतो बभूव संज्ञोभयभारतीति ॥७७॥सा भारती दुर्वसनेन दत्तं पुनः प्रसन्नेन पुराऽऽत्तहर्षा ।शापावधिं संसदि वर्त्स्यते यत्सर्वज्ञतानिर्वहणाय साक्ष्यम् ॥७८॥स भारतीसाक्षिक सर्ववित्त्वोऽप्यात्मीयशक्त्या शिशुवद्विभातः ।स्वशैशवस्योचितमन्त्रकाङ्क्षीत्स केशवो यद्वदुदारवृत्तः ॥७९॥शैशवे स्थितवता चपलाशे शाङ्गिणेव वटवृक्षपलाशे ।आत्मनीदमखिलं विलुलोके भाविभूतमपि यत्खलु लोके ॥८०॥तं ददर्श जनताऽद्भुतबालं लीलयाऽधिगतनूतनदोलम् ।वासुदेवमिव वामनलीलं लोचनैरनिमिषैरनुवेलम् ॥८१॥कोमलेन नवनीरदराजिश्यामलेन नितरां समराजि ।केशवेशतमसाऽधिकमस्य केशवेशचतुरास्यसमस्य ॥८२॥शाक्यैः पाशुपतैरपि क्षपणकैः कापालिकैर्वैष्णवै-रप्यन्यैरखिलैः खलैः खलु खिलं दुर्वादिभिर्वैदिकम् ।पन्थानं परिरक्षितुं क्षितितलं प्राप्तः परिक्रीडतेघोरे संसृतिकानने विचरतां भद्रङ्करः शङ्करः ॥८३॥इति श्रीमाधवीये तत्तदेवावतारार्थकः ।सङ्क्षेपशङ्करजये तृतीयः सर्ग आभवत् ॥आदितः श्लोकाः २७४ N/A References : N/A Last Updated : January 23, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP