शङ्करदिग्विजयम् - अथ पञ्चदशः सर्गः

शङ्करदिग्विजयम्


अथ शिष्यवरैर्युतः सहस्रैरनुयातः स सुधन्वना च राज्ञा ।
ककुभो विजिगीषुरेष सर्वाः प्रथमं सेतुमुदारधीः प्रतस्थे ॥१॥

अभवत् किल तस्य तत्र शाक्तैर्गिरिजार्चाकपटान्मधुप्रसक्तैः ।
निकटस्थवितीर्णभूरिमोदस्फुटरिङ्खत्पटुयुक्तिमान् विवादः ॥२॥

स हि युक्तिभरैविधाय शाक्तान् प्रतिवाग्व्याहरणेऽपि तानशक्तान् ।
द्विजजातिबहिष्कृताननार्यानकरोल्लोकहिताय कर्मसेतुम् ॥३॥

अभिपूज्य स तत्र रामनाथं सह पाण्ड्यैः स्ववशे विधाय चोलान् ।
द्रविडांश्च ततो जगाम काञ्चीं नगरीं हस्तिगिरेर्नितम्बकाञ्चीम् ॥४॥

सुरधाम स तत्र कारयित्वा परविद्याचरणानुसारि चित्रम् ।
अपवार्य च तान्त्रिकानतानीद्भगवत्याः श्रुतिसम्मतां सपर्याम् ॥५॥

निजपादसरोजसेवनायै विनयेन स्वयमागतानथाऽऽन्ध्रान् ।
अनुगृह्य स वेङ्कटाचलेशं प्रणिपत्याऽऽप विदर्भराजधानीम् ॥६॥

अभिगम्य स भक्तिपूर्वमस्यां कृतपूजः क्रथकैशिकेश्वरेण ।
निजशिष्यनिरस्तदुष्टबुद्धीन् व्यदधाद्भैरवतन्त्रसावलम्बान् ॥७॥

अभिवाद्य विदर्भराडवादीदथ कर्णाटवसुन्धरामियासुम् ।
भगवन् बहुभिः कपालिजालैः स हि देशो भवतामगम्यरूपः ॥८॥

न हि ते भगवद्यशः सहन्ते निहितेर्ष्याः श्रुतिषु ब्रवीम्यतोऽहम् ।
अहिते जगतां समुत्सहन्ते महितेषु प्रतिपक्षतां वहन्ते ॥९॥

इति वादिनि भूमिपे सुधन्वा यतिराजं निजगावधिज्यधन्वा ।
मयि तिष्ठति किं भयं परेभ्यस्तव भक्ते यतिनाथ पामरेभ्यः ॥१०॥

अथ तीर्थकराग्रणीः प्रतस्थे किल कापालिकजालकं विजेतुम् ।
निशमय्य तमागतं समागात्क्रकचो नाम कपालिदेशिकाग्र्यः ॥११॥

पितृकाननभस्मनाऽनुलिप्तः करसम्प्राप्तकरोटिरात्तशुलः ।
सहितो बहुभिः स्वतुल्यवेषैः स इति स्माऽऽह महामनाः सगर्वः ॥१२॥

भसितं घृतमित्यदस्तु युक्तं शुचि सन्त्यज्य शिरःकपालमेतत् ।
वहथाशुचि खर्परं किमर्थं न कथङ्कारमुपास्यते कपाली ॥१३॥

नरशीर्षकुशेशयैरलब्ध्वा रुधिराक्तैर्मधुना च भैरवार्चाम् ।
उमया समया सरोरुहाक्ष्या कथमाश्लिष्टवपुर्मुदं प्रयायात् ॥१४॥

इति जल्पति भैरवागमानां हृदयं कापुरुषेति तं विनिन्द्य ।
निरवासयदात्मवित्समाजात् पुरुषैः स्वैरधिकारिभिः सुधन्वा ॥१५॥

भ्रुकुटीकुटिलाननश्चलोष्ठः सितमुद्यम्य परश्वधं स मूर्खः ।
भवतां न शिरांसि चेद्विभिन्द्यां क्रकचो नाहमिति ब्रुववन्नयासीत् ॥१६॥

रुषितानि कपालिनां कुलानि प्रलयाम्भोघरभीकरारवाणि ।
अमुना प्रहितान्यतिप्रसङ्ख्यान्यभियातानि समुद्यतायुधानि ॥१७॥

अथ विपकुलं भयाकुलं तद्रुतमालोक्य महारथः सुधन्वा ।
कुपितः कवची रथी निषङ्गी धनुरादाय ययौ शरान् विमुञ्चन् ॥१८॥

अवनीभृति योधयत्यरींस्तांस्त्वरयैकत्र ततोऽन्यतो नियुक्ताः ।
क्रकचेन वधाय भूसुराणां द्रुतमासेदुरुदायुधाः सहस्रम् ॥१९॥

अवलोक्य कपालिसङ्घमाराच्छमनानीकनिकाशमापतन्तम् ।
व्यथिताः प्रतिपेदिरे शरण्यं शरणं शङ्करयोगिनं द्विजेन्द्राः ॥२०॥

असितोमरपट्टिशत्रिशूलैः प्रजिघांसून् भृशमुज्झिताट्टहासान् ।
यतिराट् स चकार भस्मसात्तान्निजहुङ्कारभुवाऽग्निना क्षणेन ॥२१॥

नृपतिश्च शरैः सुवर्णपुङ्खैर्विनिकृत्तैः प्रतिपक्षवक्तूपद्मैः ।
रणरङ्गभुवं सहस्रसङ्घैः समलङ्कृत्य मुदाऽगमन्मुनीन्द्रम् ॥२२॥

तदनु क्रकचो हतान् स्वकीयानरुजांश्च द्विजपुङ्गवानुदीक्ष्य ।
अतिमात्रविदूयमानचेता यतिराजस्य समीपमाप भूयः ॥२३॥

कुमताश्रय पश्य मे प्रभावं फलमाप्स्यस्यधुनैव कर्मणोऽस्य ।
इति हस्ततले दधत्कपालं क्षणमध्यायदसौ निमील्य नेत्रे ॥२४॥

सुरया परिपूरितं कपालं झटिति ध्यायति भैरवागमज्ञे ।
स निपीय तदर्धमर्धमस्या निदधार स्मरति स्म भैरवं च ॥२५॥

अथ मर्त्यशिरः कपालमाली ज्वलनज्वालजटाछटस्त्रिशूली ।
विकटप्रकटाट्टहासशाली पुरतः प्रादुरभून्महाकपाली ॥२६॥

तव भक्तजनद्रुहं दृशा सञ्जहि देवेति कपालिना नियुक्तः ।
कथमात्मनि मेऽपराध्यसीति क्रकचस्यैव शिरो जहार रुष्टः ॥२७॥

यमिनामृषभेण संस्तुतः सन्नयमन्तर्धिमवाप देववर्यः ।
अखिलेऽपि खिले कुले खलानाममुमानर्चुरलं द्विजाः प्रहृष्टाः ॥२८॥

यतिराडथ तेषु तेषु देशेष्विति पाषण्डपरान् द्विजान् विमथ्नन् ।
अपरान्तमहार्णवोपकण्ठं प्रतिपेदे प्रतिवादिदर्पहन्ता ॥२९॥

विललास चलत्तरङ्गहस्तैर्नदराजोऽभिनयन्निगूढमर्थम् ।
अवधीरितन्दुन्दुभिस्वनेन प्रतिवादीव महान् महारवेण ॥३०॥

बहुलभ्रमवानयं जडात्मा सुमनोभिर्मथितश्च पूर्वमेव ।
इति सिन्धुमुपेक्ष्य स क्षमावानिव गोकर्णमुदारधीः प्रतस्थे ॥३१॥

अवगाह्य सरित्पतिं स तत्र प्रियमासाद्य तुषारशैलपुत्र्याः ।
स्तवसत्तममद्भुतार्थचित्रं रचयामास भुजङ्गवृत्तरम्यम् ॥३२॥

तदनन्तरमागमान्तविद्यां प्रणतेभ्यः प्रतिपादयन्तमेनम् ।
हरदत्तसमाह्वयोऽधिगम्य स्वगुरुं सङ्गिरते स्म नीलकण्ठम् ॥३३॥

भगवन्निह शङ्कराभिधानो यतिरागत्य जिगीषुरार्यपादान् ।
स्ववशीकृतभट्टमण्डनादिः सह शिष्यैर्गिरिशालये समास्ते ॥३४॥

इति तद्वचनं निशम्य सम्यग्ग्रथितानेकनिबन्धरत्नहारः ।
शिवतत्परसूत्रभाष्यकर्ता प्रहसन् वाचमुवाच शैववर्यः ॥३५॥

सरितां पतिमेष शोषयेद्वा सवितारं वियतः प्रपातयेद्वा ।
पटवत्सुरवर्त्म वेष्टयेद्वा विजये नैव तथाऽपि मे समर्थः ॥३६॥

परपक्षतमिस्रचञ्चदर्कैर्मम तर्कैर्बहुधा विशीर्यमाणम् ।
अधुनैव मतं निजं स पश्यत्विति जल्पन्निरगादनल्पकोपः ॥३७॥

सितभूतितरङ्गिताखिलाङ्गैः स्फुटरुद्राक्षकलापकम्रकण्ठैः ।
परिवीतमधीतशैवशास्त्रैर्मुनिरायान्तममुं ददर्श शिष्यैः ॥३८॥

अधिगत्य महर्षिसन्निकर्षं कविरातिष्ठिपदात्मपक्षमेषः ।
शुकतातकृतात्मशास्त्रतः प्राक्कपिलाचार्य इवाऽऽत्मशास्त्रमद्धा ॥३९॥

भगवन् क्षणमात्रमीक्ष्यतां तत्प्रथमं तु स्फुरदुक्तिपाटवं मे ।
इति देशिकपुङ्गवं निवार्य व्यवदत्तेन सुरेश्वरः सुधीशः ॥४०॥

परपक्षबिसावलीमरालैरवचनैस्तस्य मतं चखण्ड दण्डी ।
अथ नीलगलः स्वपक्षरक्षां जहदद्वैतमपाकरिष्णुरूचे ॥४१॥

सुमते तब कौशलं विजाने स्वयमेवैष मुनिः प्रतिब्रवीतु ।
इति तं विनिवर्त्य नीलकण्ठो यतिकण्ठीरवसम्मुखस्तदाऽऽसीत् ॥४२॥

प्रशमिंस्तदसीति यस्त्रयीकैः कथितोऽर्थः स न युज्यते त्वदिष्टः ।
अभिदा तिमिरप्रकाशयोः किं घटते हन्त विरुद्धधर्मवत्वात् ॥४३॥

रवितत्प्रतिबिम्बयोरिवाभिद्धटतामित्यपि तत्त्वतो न वाच्यम् ।
मुकुरे प्रतिबिम्बितस्य मिथ्यात्वगतेर्योमशिवादिदेशिकोक्त्या ॥४४॥

मुकुरस्थमुखस्य बिम्बवक्त्राद्भिदया पार्श्वगलोकलोकनेन ।
प्रतिबिम्बितमाननं मृषा स्यादिति भावत्कमतानुगोक्तिका च ॥४५॥

न च मायिकजीव निष्ठमौढ्येश्वरसार्वज्ञविरुद्धधर्मबाधात् ।
उभयोरपि चित्स्वरूपताया अविशेषादभिदैव वास्तवीति ॥४६॥

न हि मानशतैः स्थितस्य बाधाऽपरथा दत्तजलाञ्जलिर्भिदा स्यात् ।
विपरीतहयत्वगोत्वबाघाद्धयपश्वोर्निजरूपकैक्ययुक्त्या ॥४७॥

यदि मानगतस्य हानमिष्टं न भवेत्तर्हि न चेश्वरोऽहमस्मि ।
इति मानगतस्य जीवसर्वेश्वरभेदस्य न हानमप्यभीष्टम् ॥४८॥

इति युक्तिशतैः स नीलकण्ठः कविरक्षोभयदद्वितीयपक्षम् ।
निगमान्तवचःप्रकाश्यमानं कलभः पद्मवनं यथा प्रफुल्लम् ॥४९॥

अथ नीलगलोक्तदोषजालो भगवानेवमवोचदस्तु कामम् ।
श‍ृणु तत्त्वमसीति सम्प्रदाय श्रुतिवाक्यस्य परावरेऽभिसन्धिम् ॥५०॥

ननु वाच्यगता विरुद्धताधीरिह सोऽसावितिवद्विरोधहाने ।
अविरोधि तु वाच्यमाददैक्यं पदयुग्मं स्फुटमाह को विरोधः ॥५१॥

यदिहोक्तमतिप्रसञ्जनं भो न भवेन्नो हि गवाश्वयोः प्रमाणम् ।
अभिदाघटकं तयोर्यतः स्यादुभयोर्लक्षणयाऽभिदानुभूतिः ॥५२॥

ननु मौढ्यसमस्तवित्त्वधर्मान्वितजीवेश्वररूपतोऽतिरिक्तम् ।
उभयोः परिनिष्ठितं स्वरूपं बत नास्त्येव यतोऽत्र लक्षणा स्यात् ॥५३॥

इति चेन्न समीक्ष्यमाणजीवेश्वररूपस्य च कल्पितत्वयुक्त्या ।
तदधिष्ठितसत्यवस्तुनोऽद्धा नियमेनैव सदाऽभ्युपेयतायाः ॥५४॥

भवताऽपि तथा हि दृश्यदेहाद्यहमन्तस्य जडत्वमभ्युपेयम् ।
परिशिष्टमुपेयमेकरूपं ननु किञ्चिद्धि तदेव तस्य रूपम् ॥५५॥

जगतोऽसत एवमेव युक्त्या त्वनिरूप्यत्वत एत्र कल्पितत्वात् ।
तदधिष्ठित भूतरूपमेष्यं ननु किञ्चिद्धि तदीश्वरस्य सत्यम् ॥५६॥

तदिह श्रुतिगोभयस्वरूपे निरूपाधौ न हि मौठ्यसर्ववित्त्वे ।
न जपाकुसुमात्तलोहितिम्नः स्फटिके स्यान्निरुपाधिके प्रसक्तिः ॥५७॥

अपि भेदधियो यथार्थतायां न भयं भेददृशः श्रुतिर्ब्रवीतु ।
विपरीतदृशो ह्यनर्थयोगो न भिदाधीविपरीतधीर्यतः स्यात् ॥५८॥

अभिदा श्रुतिगाऽप्यतात्विकी चेत्पुरुषार्थश्रवणं न तद्गतौ स्यात् ।
अशिवोऽहमिति भ्रमस्य शास्त्राद्विघुमानत्वगतेरिवास्ति बाधः ॥५९॥

तदबाधितकल्पनाक्षतिर्नो श्रुतिसिद्धात्मपरैक्यबुद्धिबाधः ।
निगमात् प्रबलं विलोक्यते माकरणं येन तदीरितस्य बाघः ॥६०॥

ऋषिभिर्बहुधा परात्मतत्वं पुरुषार्थस्य च तत्त्वमप्यथोक्तम् ।
तदपास्य निरूपितप्रकारो भवताऽसौ कथमेक एव धार्यः ॥६१॥

प्रबलश्रुतिमानतो विरोधे बलहीनस्मृतिवाच एव मेयाः ।
इति नीतिबलात्रयीविरुद्धं न ऋषीणां वचनं प्रमात्वमीयात् ॥६२॥

(``विरोधेत्वनपेक्षं स्यादसति ह्यनुमानम्'' इति जैमिनीयसूत्रम् ।)
ननु युक्तियुतं महर्षिवाक्यं श्रुतिवद्ग्राह्यतमं परं तथा हि ।
प्रतिदेहमसौ विभिन्न आत्मा सुखदुःखादिविचित्रतावलोकात् ॥६३॥

यदि चाऽऽत्मन एकता तदानीमतिदुःखी युवराजसौख्यमीयात् ।
अमुकः ससुखोऽमुकस्तु दुःखीत्यनुभूतिर्न भवेत्तयोरभेदात् ॥६४॥

अयमेव विदन्वितश्च कर्ता न हि कर्तृत्वमचेतनस्य दृष्टम् ।
अत एव भुजेर्भवेत्स कर्ता परभोक्तृत्वमतिप्रसङ्गदुष्टम् ॥६५॥

पुरुषार्थ इहैष दुःखनाशः सकलस्यापि सुखस्य दुःखयुक्त्वात् ।
अतिहेयतया पुमर्थता नो विषपृक्तान्नवदित्यभेद्ययुक्तेः ॥६६॥

इति चेन्न सुखादिचित्रताया मनसो धर्मतयाऽऽत्मभेदकत्वम् ।
न कथञ्चन युज्यते पुनः सा घटयेत्प्रत्युत मानसीयभेदम् ॥६७॥

चितियोगविशेष एव देहे कृतिमत्ताघटकोऽप्यचेतने स्यात् ।
तदभावत एव कर्तृता स्यान्न वृणादेरिति कल्पनं वरीयः ॥६८॥

विषयोत्थसुखस्य दुःखयुक्त्वेऽप्यलयं ब्रह्मसुखं न दुःखयुक्तम् ।
पुरुषार्थतया तदेव गम्यं न पुनस्तुच्छकदुःखनाशमात्रम् ॥६९॥

इति युक्तिशतोपबृंहितार्थैर्वचनैः श्रुत्यवरोधमोविदल्लैः ।
यतिरात्ममतं प्रसाध्य शैवं परकृद्दर्शनदारुणैरजैपीत् ॥७०॥

विजितो यतिभूभूता स शैवः सह गर्वेण विसृज्य च स्वभाष्यम् ।
शरणं प्रतिपेदिवान् महर्षि हरदत्तममुखैः सहाऽऽत्म शिष्यैः ॥७१॥

यमिनामृषभेण नीलकण्ठं जितमाकर्ण्य मनीषिधुर्यवर्यम् ।
सहसोदयनादयः कवीन्द्राः परमद्वैतमुपश्चकम्पिरे स्म ॥७२॥

विषयेषु वितत्य नैजभाष्याण्यथ सौराष्ट्रमुखेषु तत्र तत्र ।
बहुधा विबुधैः प्रशस्यमानो भगवान् द्वारवतीं पुरीं विवेश ॥७३॥

भुजयोरतितप्तशङ्खचक्राकृतिलोहाहतसम्भृतव्रणाङ्काः ।
शरदण्डसहोदरोर्ध्वपुण्ड्रास्तुलसीपर्णसनाथकर्णदेशाः ॥७४॥

शतशः समवेत्य पाञ्चरात्रास्त्वमृतं पञ्चभिदाविदां वदन्तः ।
मुनिशिष्यवरैरतिप्रगल्-भैर्मृगराजैरिव कुञ्जराः प्रभग्नाः ॥७५॥

इति वैष्णवशैवशाक्तसौरप्रमुखानात्मवशंवदान्विधाय ।
अतिवेलवचोझरीनिरस्तप्रतिवाद्युज्जयनीं पुरीमयासीत् ॥७६॥

सपदि प्रतिनादितः पयोदस्वनशङ्काकुलगेहकेकिजालैः ।
शशभृन्मुकुटार्हणामृदङ्गध्वनिरश्रूयत तत्र मूर्छिताशः ॥७७॥

मकरध्वजविद्विडाप्तिविद्वाञ्श्रमहृत्पुष्पसुगन्धवन्मरुद्भिः
अगरूद्भवधूपधूपिताशं स महाकालनिवेशनं विवेश ॥७८॥

भगवानभिवन्द्य चन्द्रमौलिं मुनिवृन्दैरभिवन्द्यपादपद्मः
श्रमहारिणि मण्डपे मनोज्ञे स विशश्राम विसृत्वरप्रभावः ॥७९॥

कवये कथयास्मदीयवार्तामिह सौम्येति स भट्टभास्कराय ।
विससर्ज वशवदाग्रगण्यं मुनिरभ्यर्णगतं सनन्दनार्यम् ॥८०॥

अभिरूपकुलावतंसभूतं बहुधाव्याकृतसर्ववेदराशिम् ।
तमयत्ननिरस्तदुःसपत्नं प्रतिपद्येत्थमुवाच वावदूकः ॥८१॥

जयति स्म दिगन्तगीतकीर्तिर्भगवाञ्शङ्करयोगिचक्रवर्ती
प्रथयन् परमाद्वितीयतत्त्वं शमयंस्तत्परिपन्थिवादिदर्पम् ॥८२॥

स जगाद बुधाग्रणीर्भवन्तं कुमतोत्प्रेक्षितसूत्रवृत्तिजालम् ।
अभिभूय वयं त्रयीशिखानां समवादिष्म परावरेऽभिसन्धिम् ॥८३॥

तदिदं परिगृह्यतां मनीषिन् मनसाऽऽलोच्य निरस्य दुर्मतं स्वम् ।
अथवाऽस्मदुदग्रतर्कवज्रप्रतिघातात् परिरक्ष्यतां स्वपक्षः ॥८४॥

इति तामवहेलपूर्ववर्णां गिरमाकर्ण्य तदा स लब्धवर्णः ।
यशसां निधिरीषदात्तरोषस्तमुवाच प्रहसन् यतीन्द्रशिष्यम् ॥८५॥

ध्रुवमेष न शुश्रूवानुदन्तं मम दुर्वादिवचस्ततीर्नुदन्तम् ।
परकीर्तिबिसाङ्कुरानदन्तं विदुषां मूर्धसु नानटत्पदं तम् ॥८६॥

मम वल्गति सूक्तिगुम्फवृन्दे कणभुग्जल्पितमल्पतामुपैति ।
कपिलस्य पलायते प्रलापः सुधियां कैव कथाऽधुनातनानाम् ॥८७॥

इति वादिनमब्रवीत् सनन्दः कुशलोऽथैनमविज्ञ माऽवमंस्थाः ।
न हि दारितभूधरोऽपि टङ्कः प्रभवेद्वज्रमणिप्रभेदनाय ॥८८॥

स तमेवमुदीर्य तीर्थकीर्तेरुपकण्ठं प्रतिपद्य सद्विदग्र्यः ।
सकलं तदवोचदानुपूर्व्या स महात्माऽपि यतीशमाससाद ॥८९॥

अथ भास्करमस्करिप्रवीरौ बहुधाक्षेपसमर्थनप्रवीणौ ।
बहुभिर्वचनैरुदारवृत्तैर्व्यदधातां विजयैषिणौ विवादम् ॥९०॥

अनयोरतिचित्रशब्दशय्यां दधतोर्दुर्नयभेदशक्तयुक्तयोः ।
पटुवादमृधेऽन्तरं तटस्थाः श्रुतवन्तोऽपि न किञ्चनान्वविन्दन् ॥९१॥

अथ तस्य यतिः समीक्ष्य दाक्ष्यं निजपक्षाब्जशरज्जडाब्जभूतम् ।
बहुधाऽऽक्षि पदस्य पक्षमार्यो विबुधानां पुरतोऽप्रभातकक्ष्यम् ॥९२॥

अथ भास्करवित्स्वपक्षगुप्त्यै विधुतो वाग्ग्मिधरः प्रगल्भयुक्त्या ।
श्रुतिशीर्षवचःप्रकाश्यमेवं कविरद्वैतमपाकरिष्णुरूचे ॥९३॥

प्रशमिंस्त्वदुदीरितं न युक्तं प्रकृतिर्जीवपरात्मभेदिकेति ।
न भिनत्ति हि जीवगेशगा वोभयभावस्य तदुत्तरोद्भवत्वात् ॥९४॥

मुनिरेवमिहोत्तरं बभाषे मुकुरो वा प्रतिबिम्बबिम्बभेदी ।
कथमीरय वक्त्रमात्रगश्चेच्चितिमात्राश्रिदियं तथेति तुल्यम् ॥९५॥

चितिमात्रगप्रकृत्युपाधेर्जहतो बिम्बपरात्मपक्षपातम् ।
प्रतिबिम्बितजीवपक्षपातो मुकुरस्येव विरुध्यते न जातु ॥९६॥

अविकारिनिरस्तसङ्गबोधैकरसात्माश्रयता न युज्यतेऽस्याः ।
अत एव विशिष्टसंश्रितत्वं प्रकृतेः स्यादिति नापि शङ्कनीयम् ॥९७॥

न हि मानकथा विशिष्टगत्वे भवदापादित ईक्षते तथा हि ।
अहमज्ञ इति प्रतीतिरेषा न हि मानत्वमिहाश्नुते तथा चेत् ॥९८॥

अनुभव्यहमित्यपि प्रतीतेरनुभूतेश्च विशिष्टनिष्ठता स्यात् ।
अजडानुभवस्य नो जडान्तःकरणस्थत्वमितीष्टता न तस्याः ॥९९॥

ननु दाहकता यथाग्नियोगादधिकूटं व्यपदिश्यते तथैव ।
अनुभूतिमदात्मयोगतोऽन्तःकरणे सा व्यपदिश्यतेऽनुभूतिः ॥१००॥

इति चेन्मैवमिहापि तस्य मायाश्रयचिन्मात्रयुते तथोपचारः ।
न पुनस्तदुपाधियोगतोऽन्तःकरणस्येति समाऽन्यथागतिर्हि ॥१०१॥

न च तत्र हि बाधकस्य सत्वादियमस्तु प्रकृतेर्न साऽस्त्यबाधात् ।
इति वाच्यमिहापि तज्जचित्ते तदुपाश्रित्ययुतेश्च बाधकत्वात् ॥१०२॥

अधिसुप्त्यपि चित्तवर्ति तत्स्यायदि चाज्ञानमिदं हृदाश्रितं स्यात् ।
तदिहास्ति न मानमुक्तरीत्या प्रकृतेर्दृश्यविशिष्टनिष्ठतायाम् ॥१०३॥

ननु न प्रतिबन्धिकैव सुप्ताविति सा दूरत एव चिद्गतेति ।
प्रतिबन्धकशुन्यता तु सुप्तेः परमात्मैक्यगतः सतेति वाक्यात् ॥१०४॥

न च तत्र च तत्स्थितिप्रतीतिः सति सम्पद्य विदुर्न हीति वाक्यात् ।
श्रुतिगीस्तदधिक्षिपत्यभावप्रतिपत्तेर्न च निह्नवोऽत्र नेति ॥१०५॥

किमु नित्यमनित्यमेव चैतत्प्रथमो नेह समस्ति युक्त्यभावात् ।
अनिवर्तकसत्त्वतोऽस्य नान्त्यो न हि भिन्द्यादविरोधि चित्प्रकाशः ॥१०६॥

न च तच्छमयेज्जडप्रकाशोऽप्यविरोधात् सुतरां जडत्वतोऽस्य ।
तदिहाप्रतिबन्धकत्वमस्य प्रभवेत् किन्त्विह तद्भ्रमाग्रहादि ॥१०७॥

इति चेदिदमीरय भ्रमः को मनुजोऽहं त्विति शेमुषीति चेन्न ।
अतिविस्मृतिशीलता तवाहो गदितुः सर्वपदार्थसङ्करस्य ॥१०८॥

प्रमितित्वमुपाश्रयन् प्रतीतेरमुकः खण्ड इति स्वाशास्त्रसिद्धात् ।
भिदभिद्द्वयगोत्तरत्वहेतोर्धियमेतां तु किमित्युपेक्षसे त्वम् ॥१०९॥

अनुमानमिदं तथा च सिद्धं विप्रता धीः प्रमितिर्भिदाभिदत्वात् ।
इह चारु निदर्शनं भवेत् सा तव खण्डोऽयमिति प्रतीतिरेषा ॥११०॥

ननु संहननात्मधीः प्रमाणं न भवत्येव निषिद्ध्यमानगत्वात् ।
इदमिति प्रतिपन्नरूप्यधीवत्प्रबला सत्प्रतिपक्षतेति चेन्न ॥११९॥

व्यभिचारयुतत्वतोऽस्य खण्डः पशुरित्यत्र तदन्यधीस्थमुण्डे ।
इतरत्र निषिध्यमानखण्डोल्लिखितत्वेन निरुक्तहेतुमत्त्वात् ॥११२॥

ननु हेतुरयं विवक्ष्यतेऽत्र प्रतिपन्नोपधिके निषेधगत्वम् ।
इति चेन्न विवक्षितस्य हेतोर्व्यभिचारात् पुनरप्यमुत्र चैव ॥११३॥

ननु गोत्व उपाधिके त्वमुष्य प्रतिपन्नस्य हि तत्र नो निषेधः ।
अपि तु प्रथमानमुण्ड इत्यत्र तथा च व्यभिचारिता न हेतोः ॥११४॥

इति चेन्न विकल्पनासहत्वात् किमु खण्डस्य तु केवले निषेधः ।
उत गोत्वसमन्विते स मुण्डे प्रथमो नो घटते प्रसक्त्यभावात् ॥११५॥

न हि जात्वपि खण्डके प्रसक्तः परमुण्डस्त्विति सम्प्रसक्त्यभावः ।
चरमोऽपि न गोत्वयुक्तमुण्डे खलु खण्डस्य निषेधकाल एव ॥११६॥

स्वविशेषणभूतगोत्व एव स्फुटमेतस्य निषेधनं श्रुतं स्यात् ।
तदिहोदितहेतुसत्त्वतोऽस्य व्यभिचारो दृढवज्रलेप एव ॥११७॥

ननु भातितरामुपाधिरत्रादलदेतद्व्यवहर्तृतेति चेन्न ।
अहमोऽनुभवेन साधनव्यापकभावादवगत्यनन्तरं च ॥११८॥

ननु तद्व्यवहारसञ्छिदाया इह तत्केन कमित्यनेन मुक्तौ ।
श्रुतिवाक्यगतेन सम्प्रतीतेर्व्यवहर्तुर्न कथं छिदेति चेन्न ॥११९॥

तदिदं घटते मतेऽस्मदीये तदबोधोल्लसितत्वतोऽखिलस्य ।
तदबोधलये लयोपपत्तेर्जगतः सत्यतया छिदा न ते स्यात् ॥१२०॥

ननु पञ्चसु तु स्थलेषु भेदो ह्यभिदा नो तु शरीरदेहिनोस्ते ।
प्रथितस्थलपञ्चकेतरत्वात् फलिता ह्यत्र तथा च हेत्वसिद्धिः ॥१२१॥

इति चेन्न विकल्पनासहत्वान्मिलितानां भिदभेदतन्त्रता किम् ।
उत वा पृथगेव तत्र नाऽऽद्यो मिलिताः पञ्च न हि क्वचिद्यतः स्युः ॥

चरमोऽपि न युज्यते तदाऽङ्गाङ्गिकभावस्य च तन्त्रता न किं स्यात् ।
न च योजकगौरवं च दोषः प्रकृते तस्प तवापि सम्मतत्वात् ॥१२३॥

अपि चान्यतमस्य जातितद्वत्प्रभृतीनां घटकत्व आग्रहश्चेत् ।
अपि सोऽत्र न दुर्लभचिदात्माङ्गकयोः कारणकार्यभावभावात् ॥१२४॥

न च वाच्यमिदं परात्मजत्वात्सकलस्यापि न जीवकार्यतेति ।
तदभेदत एव सर्वकस्याप्युपपत्तेरिह जीवकार्यतायाः ॥१२५॥

तदसिद्धिमुखानुमानदोषानुदयादुक्तनयस्य निर्मलत्वम् ।
भ्रमधीप्रमितित्ववेदिनोऽतस्तव न भ्रान्तिपदार्थ एव सिध्येत् ॥१२६॥

अपि च भ्रम एष किं तवान्तःकरणस्येति चिदात्मनोऽथवाऽसौ ।
परिणाम इहास्स्दिमो न तस्याऽऽत्मगतत्वानुभवस्य भङ्गपत्तेः ॥१२७॥

ननु रक्ततमप्रसूनयोगात् स्फटिके संस्फुरणं यथाऽरुणिम्नः ।
भ्रमसंयुत चित्तयोगतोऽस्य भ्रमणस्यानुभवस्तथाऽऽत्मनि स्यात् ॥१२८॥

इति चेदयमीरयाऽऽत्मयोगो भ्रमणस्याऽऽश्रित एष सन्नसन्वा ।
प्रथमो घटते न संसृजेस्तेऽपरथाख्यातिवदस्य शुन्यकत्वात् ॥१२९॥

चरमोऽपि न युज्यतेऽपरोक्षप्रथनस्यानुपपद्यमानतायाः ।
परिणामविशेष आत्मनोऽसौ भ्रम इत्येष न युज्यतेऽन्त्यपक्षः ॥१३०॥

असभागतयाऽऽत्मनो निरस्तेतरयुक्तेः परिणत्ययोग्यतायाः ।
परिणत्ययुजेश्च योग्यतायामपि बुद्ध्याकृतितश्चिदात्मनोऽस्य ॥१३१॥

न हि नित्यचिदाश्रयप्रतीचः परिणामः पुनरन्यचित्स्वरूपः ।
गुणयोः समुदायगत्ययोगाद्गुणतावान्तरजातितः सजात्योः ॥१३२॥

युगपत्समवैति नो हि शौक्ल्यद्वयकं यत्र च कुत्रचिद्यदेतत् ।
ननु चिन्न गुणो गुणी तथा च प्रसरेन्नोदितदुष्टतेति चेन्न ॥१३३॥

कटकाश्रयभूतदीप्तहेम्न् रुचकाधारकभाववत्तथैव ।
अविनाशिचिदाश्रयस्य भूयोऽन्यचिदाघारतया स्थितेरयोगात् ॥१३४॥

न च संस्कृतिरग्रहोऽप्यविद्या भ्रमशब्दार्थनिरुक्त्यसम्भवेऽपि ।
भ्रमसंज्ञितवस्त्वसम्भवेन भ्रमसम्पादितसंस्कृतेरयोगात् ॥१३५॥

अपि नाग्रहणं चितेरभावश्चितिरूपग्रहणस्य नित्यतायाः ।
तदसम्भवतो न वृत्त्यभावस्तदभावेऽपि चिदात्मनोऽवभासात् ॥१३६॥

न च भञ्जकमीक्ष्यते न तस्योपगमे दुःखजडानृतात्मकस्य ।
इति वाच्यमखण्डवृत्तिरूढेश्वरबोधस्य निवर्तकत्वयोगात् ॥१३७॥

अपि चेष्टतदन्यहेतुधीजे जगतः कृत्यकृती न ते घटेते ।
सकलव्यवहारसङ्करत्वात्तदलं जीवनिकाऽपि दुर्लभा ते ॥१३८॥

इति युक्तिशतैरमर्त्यकीर्तिः सुमतीन्द्रं तमतन्द्रितं स जित्वा ।
श्रुतिभावविरोधिभावभाजं विमतग्रन्थममन्थरं ममन्थ ॥१३९॥

इति भास्करदुर्मतेऽभिभूते भगवत्पादकथासुधा प्रसस्रे ।
घनवार्षिकवारिवाहजाले विगते शारदचन्द्रचन्द्रिकेव ॥१४०॥

स कथाभिरवन्तिषु प्रसिद्धान् विबुधान् बाणमयूरदण्डिमुख्यान् ।
शिथिलीकृतदुर्मताभिमानान्निजभाष्यश्रवणोत्सुकांश्चकार ॥१४१॥

प्रतिपद्य तु बाहुलिकान् महर्षौ विनयिभ्यः प्रविवृण्वति स्वभाष्यम् ।
अवदन्नसहिष्णवः प्रवीणाः समये केचिदथाऽऽर्हताभिधाने ॥१४२॥

ननु जीवमजीवमास्रवं च श्रितवत्संवरनिर्जरौ च बन्धः ।
अपि मोक्ष उपैषि सप्तसङ्ख्यान्न पदार्थान् कथमेव सप्तभङ्ग्या ॥१४३॥

कथयाऽऽर्हत जीवमस्तिकायं स्फुटमेवंविध इत्युवाच मौनी ।
अवदत्स च देहतुल्यमानो दृढकर्माष्टकवेष्टितश्च विद्वन् ॥१४४॥

अमहाननणुर्घटादिवत्स्यात्स न नित्योऽपि च मानुषाच्च देहात् ।
गजदेहमयन्विशेन्न कृत्स्नं प्रविशेच्च प्लुषिदेहमप्यकृत्स्नः ॥१४५॥

उपयान्ति च केचन प्रतीका महता संहननेन सङ्गमेऽस्य ।
अपयान्त्यधिजग्मुषोऽल्पदेहं तदयं देहसमः समश्रुतेश्च ॥१४६॥

उपयन्त इमे तथाऽपयन्तो यदि वर्ष्मेव न जीवतां भजेयुः ।
प्रभवेयुरनात्मनः कथं ते कथमात्मावयवाः प्रयन्तु तस्मिन् ॥१४७॥

जनितारहिताः क्षयेण हीनाः समुपायान्त्यपयान्ति चाऽऽत्मनस्ते ।
अमुकोपचितः प्रयाति कृत्स्नं त्वमुक्रैश्चापचितः प्रयात्यकृत्स्नम् ॥१४८॥

किमचेतनतोत चेतनत्वं वद तेषां चरमे विरुद्धमत्या ।
वपुरुन्मथितं भवेत्तु पूर्वे बत कार्त्स्न्येन वपुर्न चेतयेयुः ॥१४९॥

चलयन्ति रथं यथैकमत्या बहवो वाजिन एवमप्रतीताः ।
इतरेतरमङ्गमेजयन्तु ज्ञपते चेतनतामपि प्रपद्य ॥१५०॥

बहवोऽपि नियामकस्य सन्चात्सुमते तत्र भजेयुरैकमत्यम् ।
कथमत्र नियामकस्य तद्वद्विविरहात् कस्यचिदप्यदो घटेत ॥१५१॥

उपयान्ति न चापयान्ति जीवावयवाः किन्तु महत्तरे शरीरे ।
विकसन्ति च सङ्कुचन्त्यनिष्टे यतिवर्यात्र निदर्शनं जलौका ॥१५२॥

यदि चैवममी सविक्रियत्वाद्धटवत्ते च विनश्वरा भवेयुः ।
इति नश्वरतां प्रयाति जीवे कृतनाशाकृतसङ्गमौ भवेताम् ॥१५३॥

अपि चैवमलाबुवद्भवाब्धौ निजकर्माष्टकभारमग्नजन्तोः ।
सततोर्ध्वगतिस्वरूपमोक्षस्तव सिद्धान्तसमर्थितो न सिध्येत् ॥१५४॥

अपि साधनभूतसप्तभङ्गीनयमप्यार्हत नाऽऽद्रियामहे ते
परमार्थसतां विरोधमाजां स्थितिरेकत्र हि नैकदा घटेत ॥१५५॥

इति माध्यमिकेषु भग्नदर्पेष्वथ भाष्याणि स नैमिशे वितत्य ।
दरदान् भरतांश्च शूरसेनान् कुरुपाञ्चालमुखान् बहूनजैषीत् ॥१५६॥

पटुयुक्तिनिकृत्तसर्वशास्त्रं गुरुभट्टोदयनादिकैरजय्यम् ।
स हि खण्डनकारमूढदर्पं बहुधा व्युद्य वशंवदं चकार ॥१५७॥

तदनन्तरमेष कामरूपानधिगत्यार्भिनवोपशब्दगुप्तम् ।
अजयत्किल शाक्तभाष्यकारं स च भग्नो मनसेदमालुलोचे ॥१५८॥

निगमाब्जविकासिवालभानोर्न समोऽमुष्य विलोक्यते त्रिलोक्याम् ।
न कथञ्चन मद्वंशवदोऽसौ तदमुं दैवतकृत्यया हरेयम् ॥१५९॥

इति गूढमसौ विचिन्त्य पश्चात् सह शिष्यैः सहसा स्वशाक्तभाष्यम् ।
परिहृत्य जनापवादभीत्या यमिनः शिष्य इवान्ववर्ततैषः ॥१६०॥

निजशिष्यपदं गतानुदीच्यानिति कृत्वाऽथ विदेहकौशलाद्यैः ।
विहितापचितिस्तथाऽङ्गवङ्गेष्वयमास्तीर्य यशो जगाम गौडान् ॥१६१॥

अभिभूय मुरारिमिश्रवर्यं सहसा चोदयनं विजित्य वादे ।
अवधूय च धर्मगुप्तमिश्रं स्वयशः प्रौढमगापयत्स गौडान् ॥१६२॥

पूर्वं येन विमोहिता द्विजवरास्तस्यासतोऽरीन् कलौ
बुद्धस्य प्रबिभेद मस्करिवरस्तान् भास्करादीन् क्षणात् ।
शास्त्राम्नायविनिन्दकेन कुधिया कूटप्रवादाग्रहा-
न्निष्णातो निगमागमादिषु मतं दक्षस्य कूटग्रहे ॥१६३॥

शाक्तैः पाशुपतैरपि क्षपणकैः कापालिकैर्वैष्णवै-
रप्यन्यैरखिलैः खिलं खलु खलैर्दुर्वादिभिर्वैदिकम् ।
मार्गं रक्षितुमुग्रवादिविजयं नो मानहेतोर्व्यधा-
त्सर्वज्ञो न यतोऽस्य सम्भवति सम्मानग्रहग्रस्तता ॥१६४॥

दिष्टे पङ्कजविष्टरेण जगतामाद्येन तत्सूनुभि -
र्निर्दिष्टे सनकादिभिः परिचिते प्राचेतसाद्यैरपि ।
श्रौताद्वैतपथे परात्मभिदुरान् दुर्वादिनः कण्टकान्
प्रोद्धृत्याथ चकार तत्र करुणो मोक्षाध्वगक्षुण्णताम् ॥१६५॥

शान्तिर्दान्तिविरागते ह्युपरतिः क्षान्तिः परैकाग्रता
श्रद्धेति प्रथिताभिरेधिततनौ षड्वक्त्रवन्मातृभिः ।
भिक्षुक्षोणिपतौ पिचण्डिलतरोच्चण्डातिकण्डूच्चल-
त्पाखण्डासुरखण्डनैकरसिके बाघा बुधानां कुतः ॥१६६॥

यत्राऽऽरम्भजकाहलाकलकलैर्लोकायतो विद्रुतः
काणाः काणभुजास्तु सैन्यरजसा साङ्ख्यैर्धृतासाङ्ख्यधीः ।
युद्ध्वा तेषु पलायितेषु सहसा योगाः सहैवाद्रवन्
को वा वादिभटः पटुर्भुवि भवेद्वस्तुं पुरस्तान्मुनेः ॥१६७॥

उच्चण्डे पणबन्धबन्धुरतरे वाचंयमक्ष्मापतेः
पूर्वं मण्डनखण्डने समुदभूद्यो डिण्डिमाडम्बरः ।
जाताः शब्दपरम्परास्तत इमाः पाखण्डदुर्वादिना-
मद्य श्रोत्रतटाटवीषु दधते दावानलज्वालताम् ॥१६८॥

बुद्धो युद्धसमुद्यतः किल पुनः स्थित्वा क्षणाद्विद्रुतः
कोणे द्राक्कणभुग्व्यलीयत तमःस्तोमावृतो गौतमः ।
भग्नोऽसौ कपिलः पलायत ततः पातञ्जलाश्चाञ्जलिं
चक्रुस्तस्य यतीशितुश्चतुरता केनोपमीयेत सा ॥१६९॥

हस्तग्राहं गृहीताः कतिचन समरे वैदिका वादियोधाः
काणादाद्याः परे तु प्रसभमभिहता हन्त लोकायताद्याः ।
गाढं बन्दीकृतास्ते सुचिरमथ पुनः स्वस्वराज्ये नियुक्ताः
सेवन्ते तं विचित्रा यतिधरणिपतेः शरता वा दया वा ॥१७०॥

शान्त्याद्यर्णववाडवानलशिखा सत्याभ्रवात्या दया-
ज्योत्स्नादर्शनिशाऽथ शान्तिनलिनीराकाशशाङ्कद्युतिः ।
आस्तिक्यद्रुमदावपावकनवज्वालावली सत्कथा-
हंसीप्रावृडखण्डि दण्डिपतिना पाखण्डवाङ्मण्डली ॥१७१॥

अद्वैतामृतवर्षिभिः परगुरुव्याहारधाराधरैः
कान्तैर्हन्त समन्ततः प्रसृमरैरुत्कृत्ततापत्रयैः ।
दुर्भिक्षं स्वपरैकताफलगतं दुर्भिक्षुसम्पादितं
शान्तं सम्प्रति खण्डिताच निबिडाः पाखण्डचण्डातपाः ॥१७२॥

शान्तानां सुभटाः कपालिकपतद्ग्राहग्रहव्यावृताः
काणादप्रतिहारिणः क्षपणकक्षोणीशवैतालिकाः ।
सामन्ताश्च दिगम्बरान्वयभुवश्चार्वाकवंशांङ्कुरा
नव्याः केचिदलं मुनीश्वरगिरा नीताः कथाशेषताम् ॥१७३॥

इति सकलदिशासु द्वैतवार्तानिवृत्तौ
स्वयमथ परितस्तारायमद्वैतवर्त्म ।
प्रतिदिनमपि कुर्वन् सर्वसन्देहमोक्षं
रविरिव तिमिरौघे सम्प्रशान्ते महः स्वम् ॥

इति श्रीमाधवीये तत्तदाशाजयकौतुकी ।
सङ्क्षेपशङ्करजये सर्गः पञ्चदशोऽभवत् ॥१५ ॥

आदितः श्लोकाः १७३६

N/A

References : N/A
Last Updated : January 23, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP