संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|शङ्करदिग्विजयम्| अथ पञ्चदशः सर्गः शङ्करदिग्विजयम् अनुक्रमणिका अथ प्रथमः सर्गः अथ द्वितीयः सर्गः अथ तृतीयः सर्गः अथ चतुर्थः सर्गः अथ पञ्चमः सर्गः अथ षष्ठः सर्गः अथ सप्तमः सर्गः अथ अथाष्टमः सर्गः अथ नवमः सर्गः अथ दशमः सर्गः अथ एकादशः सर्गः अथ द्वादशः सर्गः अथ त्रयोदशः सर्गः अथ चतुर्दशः सर्गः अथ पञ्चदशः सर्गः अथ षोडशः सर्गः शङ्करदिग्विजयम् - अथ पञ्चदशः सर्गः शङ्करदिग्विजयम् Tags : shankar digvijayशङ्कर दिग्विजय आचार्यकृतदिग्विजयवर्णनम् Translation - भाषांतर अथ शिष्यवरैर्युतः सहस्रैरनुयातः स सुधन्वना च राज्ञा ।ककुभो विजिगीषुरेष सर्वाः प्रथमं सेतुमुदारधीः प्रतस्थे ॥१॥अभवत् किल तस्य तत्र शाक्तैर्गिरिजार्चाकपटान्मधुप्रसक्तैः ।निकटस्थवितीर्णभूरिमोदस्फुटरिङ्खत्पटुयुक्तिमान् विवादः ॥२॥स हि युक्तिभरैविधाय शाक्तान् प्रतिवाग्व्याहरणेऽपि तानशक्तान् ।द्विजजातिबहिष्कृताननार्यानकरोल्लोकहिताय कर्मसेतुम् ॥३॥अभिपूज्य स तत्र रामनाथं सह पाण्ड्यैः स्ववशे विधाय चोलान् ।द्रविडांश्च ततो जगाम काञ्चीं नगरीं हस्तिगिरेर्नितम्बकाञ्चीम् ॥४॥सुरधाम स तत्र कारयित्वा परविद्याचरणानुसारि चित्रम् ।अपवार्य च तान्त्रिकानतानीद्भगवत्याः श्रुतिसम्मतां सपर्याम् ॥५॥निजपादसरोजसेवनायै विनयेन स्वयमागतानथाऽऽन्ध्रान् ।अनुगृह्य स वेङ्कटाचलेशं प्रणिपत्याऽऽप विदर्भराजधानीम् ॥६॥अभिगम्य स भक्तिपूर्वमस्यां कृतपूजः क्रथकैशिकेश्वरेण ।निजशिष्यनिरस्तदुष्टबुद्धीन् व्यदधाद्भैरवतन्त्रसावलम्बान् ॥७॥अभिवाद्य विदर्भराडवादीदथ कर्णाटवसुन्धरामियासुम् ।भगवन् बहुभिः कपालिजालैः स हि देशो भवतामगम्यरूपः ॥८॥न हि ते भगवद्यशः सहन्ते निहितेर्ष्याः श्रुतिषु ब्रवीम्यतोऽहम् ।अहिते जगतां समुत्सहन्ते महितेषु प्रतिपक्षतां वहन्ते ॥९॥इति वादिनि भूमिपे सुधन्वा यतिराजं निजगावधिज्यधन्वा ।मयि तिष्ठति किं भयं परेभ्यस्तव भक्ते यतिनाथ पामरेभ्यः ॥१०॥अथ तीर्थकराग्रणीः प्रतस्थे किल कापालिकजालकं विजेतुम् ।निशमय्य तमागतं समागात्क्रकचो नाम कपालिदेशिकाग्र्यः ॥११॥पितृकाननभस्मनाऽनुलिप्तः करसम्प्राप्तकरोटिरात्तशुलः ।सहितो बहुभिः स्वतुल्यवेषैः स इति स्माऽऽह महामनाः सगर्वः ॥१२॥भसितं घृतमित्यदस्तु युक्तं शुचि सन्त्यज्य शिरःकपालमेतत् ।वहथाशुचि खर्परं किमर्थं न कथङ्कारमुपास्यते कपाली ॥१३॥नरशीर्षकुशेशयैरलब्ध्वा रुधिराक्तैर्मधुना च भैरवार्चाम् ।उमया समया सरोरुहाक्ष्या कथमाश्लिष्टवपुर्मुदं प्रयायात् ॥१४॥इति जल्पति भैरवागमानां हृदयं कापुरुषेति तं विनिन्द्य ।निरवासयदात्मवित्समाजात् पुरुषैः स्वैरधिकारिभिः सुधन्वा ॥१५॥भ्रुकुटीकुटिलाननश्चलोष्ठः सितमुद्यम्य परश्वधं स मूर्खः ।भवतां न शिरांसि चेद्विभिन्द्यां क्रकचो नाहमिति ब्रुववन्नयासीत् ॥१६॥रुषितानि कपालिनां कुलानि प्रलयाम्भोघरभीकरारवाणि ।अमुना प्रहितान्यतिप्रसङ्ख्यान्यभियातानि समुद्यतायुधानि ॥१७॥अथ विपकुलं भयाकुलं तद्रुतमालोक्य महारथः सुधन्वा ।कुपितः कवची रथी निषङ्गी धनुरादाय ययौ शरान् विमुञ्चन् ॥१८॥अवनीभृति योधयत्यरींस्तांस्त्वरयैकत्र ततोऽन्यतो नियुक्ताः ।क्रकचेन वधाय भूसुराणां द्रुतमासेदुरुदायुधाः सहस्रम् ॥१९॥अवलोक्य कपालिसङ्घमाराच्छमनानीकनिकाशमापतन्तम् ।व्यथिताः प्रतिपेदिरे शरण्यं शरणं शङ्करयोगिनं द्विजेन्द्राः ॥२०॥असितोमरपट्टिशत्रिशूलैः प्रजिघांसून् भृशमुज्झिताट्टहासान् ।यतिराट् स चकार भस्मसात्तान्निजहुङ्कारभुवाऽग्निना क्षणेन ॥२१॥नृपतिश्च शरैः सुवर्णपुङ्खैर्विनिकृत्तैः प्रतिपक्षवक्तूपद्मैः ।रणरङ्गभुवं सहस्रसङ्घैः समलङ्कृत्य मुदाऽगमन्मुनीन्द्रम् ॥२२॥तदनु क्रकचो हतान् स्वकीयानरुजांश्च द्विजपुङ्गवानुदीक्ष्य ।अतिमात्रविदूयमानचेता यतिराजस्य समीपमाप भूयः ॥२३॥कुमताश्रय पश्य मे प्रभावं फलमाप्स्यस्यधुनैव कर्मणोऽस्य ।इति हस्ततले दधत्कपालं क्षणमध्यायदसौ निमील्य नेत्रे ॥२४॥सुरया परिपूरितं कपालं झटिति ध्यायति भैरवागमज्ञे ।स निपीय तदर्धमर्धमस्या निदधार स्मरति स्म भैरवं च ॥२५॥अथ मर्त्यशिरः कपालमाली ज्वलनज्वालजटाछटस्त्रिशूली ।विकटप्रकटाट्टहासशाली पुरतः प्रादुरभून्महाकपाली ॥२६॥तव भक्तजनद्रुहं दृशा सञ्जहि देवेति कपालिना नियुक्तः ।कथमात्मनि मेऽपराध्यसीति क्रकचस्यैव शिरो जहार रुष्टः ॥२७॥यमिनामृषभेण संस्तुतः सन्नयमन्तर्धिमवाप देववर्यः ।अखिलेऽपि खिले कुले खलानाममुमानर्चुरलं द्विजाः प्रहृष्टाः ॥२८॥यतिराडथ तेषु तेषु देशेष्विति पाषण्डपरान् द्विजान् विमथ्नन् ।अपरान्तमहार्णवोपकण्ठं प्रतिपेदे प्रतिवादिदर्पहन्ता ॥२९॥विललास चलत्तरङ्गहस्तैर्नदराजोऽभिनयन्निगूढमर्थम् ।अवधीरितन्दुन्दुभिस्वनेन प्रतिवादीव महान् महारवेण ॥३०॥बहुलभ्रमवानयं जडात्मा सुमनोभिर्मथितश्च पूर्वमेव ।इति सिन्धुमुपेक्ष्य स क्षमावानिव गोकर्णमुदारधीः प्रतस्थे ॥३१॥अवगाह्य सरित्पतिं स तत्र प्रियमासाद्य तुषारशैलपुत्र्याः ।स्तवसत्तममद्भुतार्थचित्रं रचयामास भुजङ्गवृत्तरम्यम् ॥३२॥तदनन्तरमागमान्तविद्यां प्रणतेभ्यः प्रतिपादयन्तमेनम् ।हरदत्तसमाह्वयोऽधिगम्य स्वगुरुं सङ्गिरते स्म नीलकण्ठम् ॥३३॥भगवन्निह शङ्कराभिधानो यतिरागत्य जिगीषुरार्यपादान् ।स्ववशीकृतभट्टमण्डनादिः सह शिष्यैर्गिरिशालये समास्ते ॥३४॥इति तद्वचनं निशम्य सम्यग्ग्रथितानेकनिबन्धरत्नहारः ।शिवतत्परसूत्रभाष्यकर्ता प्रहसन् वाचमुवाच शैववर्यः ॥३५॥सरितां पतिमेष शोषयेद्वा सवितारं वियतः प्रपातयेद्वा ।पटवत्सुरवर्त्म वेष्टयेद्वा विजये नैव तथाऽपि मे समर्थः ॥३६॥परपक्षतमिस्रचञ्चदर्कैर्मम तर्कैर्बहुधा विशीर्यमाणम् ।अधुनैव मतं निजं स पश्यत्विति जल्पन्निरगादनल्पकोपः ॥३७॥सितभूतितरङ्गिताखिलाङ्गैः स्फुटरुद्राक्षकलापकम्रकण्ठैः ।परिवीतमधीतशैवशास्त्रैर्मुनिरायान्तममुं ददर्श शिष्यैः ॥३८॥अधिगत्य महर्षिसन्निकर्षं कविरातिष्ठिपदात्मपक्षमेषः ।शुकतातकृतात्मशास्त्रतः प्राक्कपिलाचार्य इवाऽऽत्मशास्त्रमद्धा ॥३९॥भगवन् क्षणमात्रमीक्ष्यतां तत्प्रथमं तु स्फुरदुक्तिपाटवं मे ।इति देशिकपुङ्गवं निवार्य व्यवदत्तेन सुरेश्वरः सुधीशः ॥४०॥परपक्षबिसावलीमरालैरवचनैस्तस्य मतं चखण्ड दण्डी ।अथ नीलगलः स्वपक्षरक्षां जहदद्वैतमपाकरिष्णुरूचे ॥४१॥सुमते तब कौशलं विजाने स्वयमेवैष मुनिः प्रतिब्रवीतु ।इति तं विनिवर्त्य नीलकण्ठो यतिकण्ठीरवसम्मुखस्तदाऽऽसीत् ॥४२॥प्रशमिंस्तदसीति यस्त्रयीकैः कथितोऽर्थः स न युज्यते त्वदिष्टः ।अभिदा तिमिरप्रकाशयोः किं घटते हन्त विरुद्धधर्मवत्वात् ॥४३॥रवितत्प्रतिबिम्बयोरिवाभिद्धटतामित्यपि तत्त्वतो न वाच्यम् ।मुकुरे प्रतिबिम्बितस्य मिथ्यात्वगतेर्योमशिवादिदेशिकोक्त्या ॥४४॥मुकुरस्थमुखस्य बिम्बवक्त्राद्भिदया पार्श्वगलोकलोकनेन ।प्रतिबिम्बितमाननं मृषा स्यादिति भावत्कमतानुगोक्तिका च ॥४५॥न च मायिकजीव निष्ठमौढ्येश्वरसार्वज्ञविरुद्धधर्मबाधात् ।उभयोरपि चित्स्वरूपताया अविशेषादभिदैव वास्तवीति ॥४६॥न हि मानशतैः स्थितस्य बाधाऽपरथा दत्तजलाञ्जलिर्भिदा स्यात् ।विपरीतहयत्वगोत्वबाघाद्धयपश्वोर्निजरूपकैक्ययुक्त्या ॥४७॥यदि मानगतस्य हानमिष्टं न भवेत्तर्हि न चेश्वरोऽहमस्मि ।इति मानगतस्य जीवसर्वेश्वरभेदस्य न हानमप्यभीष्टम् ॥४८॥इति युक्तिशतैः स नीलकण्ठः कविरक्षोभयदद्वितीयपक्षम् ।निगमान्तवचःप्रकाश्यमानं कलभः पद्मवनं यथा प्रफुल्लम् ॥४९॥अथ नीलगलोक्तदोषजालो भगवानेवमवोचदस्तु कामम् ।शृणु तत्त्वमसीति सम्प्रदाय श्रुतिवाक्यस्य परावरेऽभिसन्धिम् ॥५०॥ननु वाच्यगता विरुद्धताधीरिह सोऽसावितिवद्विरोधहाने ।अविरोधि तु वाच्यमाददैक्यं पदयुग्मं स्फुटमाह को विरोधः ॥५१॥यदिहोक्तमतिप्रसञ्जनं भो न भवेन्नो हि गवाश्वयोः प्रमाणम् ।अभिदाघटकं तयोर्यतः स्यादुभयोर्लक्षणयाऽभिदानुभूतिः ॥५२॥ननु मौढ्यसमस्तवित्त्वधर्मान्वितजीवेश्वररूपतोऽतिरिक्तम् ।उभयोः परिनिष्ठितं स्वरूपं बत नास्त्येव यतोऽत्र लक्षणा स्यात् ॥५३॥इति चेन्न समीक्ष्यमाणजीवेश्वररूपस्य च कल्पितत्वयुक्त्या ।तदधिष्ठितसत्यवस्तुनोऽद्धा नियमेनैव सदाऽभ्युपेयतायाः ॥५४॥भवताऽपि तथा हि दृश्यदेहाद्यहमन्तस्य जडत्वमभ्युपेयम् ।परिशिष्टमुपेयमेकरूपं ननु किञ्चिद्धि तदेव तस्य रूपम् ॥५५॥जगतोऽसत एवमेव युक्त्या त्वनिरूप्यत्वत एत्र कल्पितत्वात् ।तदधिष्ठित भूतरूपमेष्यं ननु किञ्चिद्धि तदीश्वरस्य सत्यम् ॥५६॥तदिह श्रुतिगोभयस्वरूपे निरूपाधौ न हि मौठ्यसर्ववित्त्वे ।न जपाकुसुमात्तलोहितिम्नः स्फटिके स्यान्निरुपाधिके प्रसक्तिः ॥५७॥अपि भेदधियो यथार्थतायां न भयं भेददृशः श्रुतिर्ब्रवीतु ।विपरीतदृशो ह्यनर्थयोगो न भिदाधीविपरीतधीर्यतः स्यात् ॥५८॥अभिदा श्रुतिगाऽप्यतात्विकी चेत्पुरुषार्थश्रवणं न तद्गतौ स्यात् ।अशिवोऽहमिति भ्रमस्य शास्त्राद्विघुमानत्वगतेरिवास्ति बाधः ॥५९॥तदबाधितकल्पनाक्षतिर्नो श्रुतिसिद्धात्मपरैक्यबुद्धिबाधः ।निगमात् प्रबलं विलोक्यते माकरणं येन तदीरितस्य बाघः ॥६०॥ऋषिभिर्बहुधा परात्मतत्वं पुरुषार्थस्य च तत्त्वमप्यथोक्तम् ।तदपास्य निरूपितप्रकारो भवताऽसौ कथमेक एव धार्यः ॥६१॥प्रबलश्रुतिमानतो विरोधे बलहीनस्मृतिवाच एव मेयाः ।इति नीतिबलात्रयीविरुद्धं न ऋषीणां वचनं प्रमात्वमीयात् ॥६२॥(``विरोधेत्वनपेक्षं स्यादसति ह्यनुमानम्'' इति जैमिनीयसूत्रम् ।)ननु युक्तियुतं महर्षिवाक्यं श्रुतिवद्ग्राह्यतमं परं तथा हि ।प्रतिदेहमसौ विभिन्न आत्मा सुखदुःखादिविचित्रतावलोकात् ॥६३॥यदि चाऽऽत्मन एकता तदानीमतिदुःखी युवराजसौख्यमीयात् ।अमुकः ससुखोऽमुकस्तु दुःखीत्यनुभूतिर्न भवेत्तयोरभेदात् ॥६४॥अयमेव विदन्वितश्च कर्ता न हि कर्तृत्वमचेतनस्य दृष्टम् ।अत एव भुजेर्भवेत्स कर्ता परभोक्तृत्वमतिप्रसङ्गदुष्टम् ॥६५॥पुरुषार्थ इहैष दुःखनाशः सकलस्यापि सुखस्य दुःखयुक्त्वात् ।अतिहेयतया पुमर्थता नो विषपृक्तान्नवदित्यभेद्ययुक्तेः ॥६६॥इति चेन्न सुखादिचित्रताया मनसो धर्मतयाऽऽत्मभेदकत्वम् ।न कथञ्चन युज्यते पुनः सा घटयेत्प्रत्युत मानसीयभेदम् ॥६७॥चितियोगविशेष एव देहे कृतिमत्ताघटकोऽप्यचेतने स्यात् ।तदभावत एव कर्तृता स्यान्न वृणादेरिति कल्पनं वरीयः ॥६८॥विषयोत्थसुखस्य दुःखयुक्त्वेऽप्यलयं ब्रह्मसुखं न दुःखयुक्तम् ।पुरुषार्थतया तदेव गम्यं न पुनस्तुच्छकदुःखनाशमात्रम् ॥६९॥इति युक्तिशतोपबृंहितार्थैर्वचनैः श्रुत्यवरोधमोविदल्लैः ।यतिरात्ममतं प्रसाध्य शैवं परकृद्दर्शनदारुणैरजैपीत् ॥७०॥विजितो यतिभूभूता स शैवः सह गर्वेण विसृज्य च स्वभाष्यम् ।शरणं प्रतिपेदिवान् महर्षि हरदत्तममुखैः सहाऽऽत्म शिष्यैः ॥७१॥यमिनामृषभेण नीलकण्ठं जितमाकर्ण्य मनीषिधुर्यवर्यम् ।सहसोदयनादयः कवीन्द्राः परमद्वैतमुपश्चकम्पिरे स्म ॥७२॥विषयेषु वितत्य नैजभाष्याण्यथ सौराष्ट्रमुखेषु तत्र तत्र ।बहुधा विबुधैः प्रशस्यमानो भगवान् द्वारवतीं पुरीं विवेश ॥७३॥भुजयोरतितप्तशङ्खचक्राकृतिलोहाहतसम्भृतव्रणाङ्काः ।शरदण्डसहोदरोर्ध्वपुण्ड्रास्तुलसीपर्णसनाथकर्णदेशाः ॥७४॥शतशः समवेत्य पाञ्चरात्रास्त्वमृतं पञ्चभिदाविदां वदन्तः ।मुनिशिष्यवरैरतिप्रगल्-भैर्मृगराजैरिव कुञ्जराः प्रभग्नाः ॥७५॥इति वैष्णवशैवशाक्तसौरप्रमुखानात्मवशंवदान्विधाय ।अतिवेलवचोझरीनिरस्तप्रतिवाद्युज्जयनीं पुरीमयासीत् ॥७६॥सपदि प्रतिनादितः पयोदस्वनशङ्काकुलगेहकेकिजालैः ।शशभृन्मुकुटार्हणामृदङ्गध्वनिरश्रूयत तत्र मूर्छिताशः ॥७७॥मकरध्वजविद्विडाप्तिविद्वाञ्श्रमहृत्पुष्पसुगन्धवन्मरुद्भिःअगरूद्भवधूपधूपिताशं स महाकालनिवेशनं विवेश ॥७८॥भगवानभिवन्द्य चन्द्रमौलिं मुनिवृन्दैरभिवन्द्यपादपद्मःश्रमहारिणि मण्डपे मनोज्ञे स विशश्राम विसृत्वरप्रभावः ॥७९॥कवये कथयास्मदीयवार्तामिह सौम्येति स भट्टभास्कराय ।विससर्ज वशवदाग्रगण्यं मुनिरभ्यर्णगतं सनन्दनार्यम् ॥८०॥अभिरूपकुलावतंसभूतं बहुधाव्याकृतसर्ववेदराशिम् ।तमयत्ननिरस्तदुःसपत्नं प्रतिपद्येत्थमुवाच वावदूकः ॥८१॥जयति स्म दिगन्तगीतकीर्तिर्भगवाञ्शङ्करयोगिचक्रवर्तीप्रथयन् परमाद्वितीयतत्त्वं शमयंस्तत्परिपन्थिवादिदर्पम् ॥८२॥स जगाद बुधाग्रणीर्भवन्तं कुमतोत्प्रेक्षितसूत्रवृत्तिजालम् ।अभिभूय वयं त्रयीशिखानां समवादिष्म परावरेऽभिसन्धिम् ॥८३॥तदिदं परिगृह्यतां मनीषिन् मनसाऽऽलोच्य निरस्य दुर्मतं स्वम् ।अथवाऽस्मदुदग्रतर्कवज्रप्रतिघातात् परिरक्ष्यतां स्वपक्षः ॥८४॥इति तामवहेलपूर्ववर्णां गिरमाकर्ण्य तदा स लब्धवर्णः ।यशसां निधिरीषदात्तरोषस्तमुवाच प्रहसन् यतीन्द्रशिष्यम् ॥८५॥ध्रुवमेष न शुश्रूवानुदन्तं मम दुर्वादिवचस्ततीर्नुदन्तम् ।परकीर्तिबिसाङ्कुरानदन्तं विदुषां मूर्धसु नानटत्पदं तम् ॥८६॥मम वल्गति सूक्तिगुम्फवृन्दे कणभुग्जल्पितमल्पतामुपैति ।कपिलस्य पलायते प्रलापः सुधियां कैव कथाऽधुनातनानाम् ॥८७॥इति वादिनमब्रवीत् सनन्दः कुशलोऽथैनमविज्ञ माऽवमंस्थाः ।न हि दारितभूधरोऽपि टङ्कः प्रभवेद्वज्रमणिप्रभेदनाय ॥८८॥स तमेवमुदीर्य तीर्थकीर्तेरुपकण्ठं प्रतिपद्य सद्विदग्र्यः ।सकलं तदवोचदानुपूर्व्या स महात्माऽपि यतीशमाससाद ॥८९॥अथ भास्करमस्करिप्रवीरौ बहुधाक्षेपसमर्थनप्रवीणौ ।बहुभिर्वचनैरुदारवृत्तैर्व्यदधातां विजयैषिणौ विवादम् ॥९०॥अनयोरतिचित्रशब्दशय्यां दधतोर्दुर्नयभेदशक्तयुक्तयोः ।पटुवादमृधेऽन्तरं तटस्थाः श्रुतवन्तोऽपि न किञ्चनान्वविन्दन् ॥९१॥अथ तस्य यतिः समीक्ष्य दाक्ष्यं निजपक्षाब्जशरज्जडाब्जभूतम् ।बहुधाऽऽक्षि पदस्य पक्षमार्यो विबुधानां पुरतोऽप्रभातकक्ष्यम् ॥९२॥अथ भास्करवित्स्वपक्षगुप्त्यै विधुतो वाग्ग्मिधरः प्रगल्भयुक्त्या ।श्रुतिशीर्षवचःप्रकाश्यमेवं कविरद्वैतमपाकरिष्णुरूचे ॥९३॥प्रशमिंस्त्वदुदीरितं न युक्तं प्रकृतिर्जीवपरात्मभेदिकेति ।न भिनत्ति हि जीवगेशगा वोभयभावस्य तदुत्तरोद्भवत्वात् ॥९४॥मुनिरेवमिहोत्तरं बभाषे मुकुरो वा प्रतिबिम्बबिम्बभेदी ।कथमीरय वक्त्रमात्रगश्चेच्चितिमात्राश्रिदियं तथेति तुल्यम् ॥९५॥चितिमात्रगप्रकृत्युपाधेर्जहतो बिम्बपरात्मपक्षपातम् ।प्रतिबिम्बितजीवपक्षपातो मुकुरस्येव विरुध्यते न जातु ॥९६॥अविकारिनिरस्तसङ्गबोधैकरसात्माश्रयता न युज्यतेऽस्याः ।अत एव विशिष्टसंश्रितत्वं प्रकृतेः स्यादिति नापि शङ्कनीयम् ॥९७॥न हि मानकथा विशिष्टगत्वे भवदापादित ईक्षते तथा हि ।अहमज्ञ इति प्रतीतिरेषा न हि मानत्वमिहाश्नुते तथा चेत् ॥९८॥अनुभव्यहमित्यपि प्रतीतेरनुभूतेश्च विशिष्टनिष्ठता स्यात् ।अजडानुभवस्य नो जडान्तःकरणस्थत्वमितीष्टता न तस्याः ॥९९॥ननु दाहकता यथाग्नियोगादधिकूटं व्यपदिश्यते तथैव ।अनुभूतिमदात्मयोगतोऽन्तःकरणे सा व्यपदिश्यतेऽनुभूतिः ॥१००॥इति चेन्मैवमिहापि तस्य मायाश्रयचिन्मात्रयुते तथोपचारः ।न पुनस्तदुपाधियोगतोऽन्तःकरणस्येति समाऽन्यथागतिर्हि ॥१०१॥न च तत्र हि बाधकस्य सत्वादियमस्तु प्रकृतेर्न साऽस्त्यबाधात् ।इति वाच्यमिहापि तज्जचित्ते तदुपाश्रित्ययुतेश्च बाधकत्वात् ॥१०२॥अधिसुप्त्यपि चित्तवर्ति तत्स्यायदि चाज्ञानमिदं हृदाश्रितं स्यात् ।तदिहास्ति न मानमुक्तरीत्या प्रकृतेर्दृश्यविशिष्टनिष्ठतायाम् ॥१०३॥ननु न प्रतिबन्धिकैव सुप्ताविति सा दूरत एव चिद्गतेति ।प्रतिबन्धकशुन्यता तु सुप्तेः परमात्मैक्यगतः सतेति वाक्यात् ॥१०४॥न च तत्र च तत्स्थितिप्रतीतिः सति सम्पद्य विदुर्न हीति वाक्यात् ।श्रुतिगीस्तदधिक्षिपत्यभावप्रतिपत्तेर्न च निह्नवोऽत्र नेति ॥१०५॥किमु नित्यमनित्यमेव चैतत्प्रथमो नेह समस्ति युक्त्यभावात् ।अनिवर्तकसत्त्वतोऽस्य नान्त्यो न हि भिन्द्यादविरोधि चित्प्रकाशः ॥१०६॥न च तच्छमयेज्जडप्रकाशोऽप्यविरोधात् सुतरां जडत्वतोऽस्य ।तदिहाप्रतिबन्धकत्वमस्य प्रभवेत् किन्त्विह तद्भ्रमाग्रहादि ॥१०७॥इति चेदिदमीरय भ्रमः को मनुजोऽहं त्विति शेमुषीति चेन्न ।अतिविस्मृतिशीलता तवाहो गदितुः सर्वपदार्थसङ्करस्य ॥१०८॥प्रमितित्वमुपाश्रयन् प्रतीतेरमुकः खण्ड इति स्वाशास्त्रसिद्धात् ।भिदभिद्द्वयगोत्तरत्वहेतोर्धियमेतां तु किमित्युपेक्षसे त्वम् ॥१०९॥अनुमानमिदं तथा च सिद्धं विप्रता धीः प्रमितिर्भिदाभिदत्वात् ।इह चारु निदर्शनं भवेत् सा तव खण्डोऽयमिति प्रतीतिरेषा ॥११०॥ननु संहननात्मधीः प्रमाणं न भवत्येव निषिद्ध्यमानगत्वात् ।इदमिति प्रतिपन्नरूप्यधीवत्प्रबला सत्प्रतिपक्षतेति चेन्न ॥११९॥व्यभिचारयुतत्वतोऽस्य खण्डः पशुरित्यत्र तदन्यधीस्थमुण्डे ।इतरत्र निषिध्यमानखण्डोल्लिखितत्वेन निरुक्तहेतुमत्त्वात् ॥११२॥ननु हेतुरयं विवक्ष्यतेऽत्र प्रतिपन्नोपधिके निषेधगत्वम् ।इति चेन्न विवक्षितस्य हेतोर्व्यभिचारात् पुनरप्यमुत्र चैव ॥११३॥ननु गोत्व उपाधिके त्वमुष्य प्रतिपन्नस्य हि तत्र नो निषेधः ।अपि तु प्रथमानमुण्ड इत्यत्र तथा च व्यभिचारिता न हेतोः ॥११४॥इति चेन्न विकल्पनासहत्वात् किमु खण्डस्य तु केवले निषेधः ।उत गोत्वसमन्विते स मुण्डे प्रथमो नो घटते प्रसक्त्यभावात् ॥११५॥न हि जात्वपि खण्डके प्रसक्तः परमुण्डस्त्विति सम्प्रसक्त्यभावः ।चरमोऽपि न गोत्वयुक्तमुण्डे खलु खण्डस्य निषेधकाल एव ॥११६॥स्वविशेषणभूतगोत्व एव स्फुटमेतस्य निषेधनं श्रुतं स्यात् ।तदिहोदितहेतुसत्त्वतोऽस्य व्यभिचारो दृढवज्रलेप एव ॥११७॥ननु भातितरामुपाधिरत्रादलदेतद्व्यवहर्तृतेति चेन्न ।अहमोऽनुभवेन साधनव्यापकभावादवगत्यनन्तरं च ॥११८॥ननु तद्व्यवहारसञ्छिदाया इह तत्केन कमित्यनेन मुक्तौ ।श्रुतिवाक्यगतेन सम्प्रतीतेर्व्यवहर्तुर्न कथं छिदेति चेन्न ॥११९॥तदिदं घटते मतेऽस्मदीये तदबोधोल्लसितत्वतोऽखिलस्य ।तदबोधलये लयोपपत्तेर्जगतः सत्यतया छिदा न ते स्यात् ॥१२०॥ननु पञ्चसु तु स्थलेषु भेदो ह्यभिदा नो तु शरीरदेहिनोस्ते ।प्रथितस्थलपञ्चकेतरत्वात् फलिता ह्यत्र तथा च हेत्वसिद्धिः ॥१२१॥इति चेन्न विकल्पनासहत्वान्मिलितानां भिदभेदतन्त्रता किम् ।उत वा पृथगेव तत्र नाऽऽद्यो मिलिताः पञ्च न हि क्वचिद्यतः स्युः ॥चरमोऽपि न युज्यते तदाऽङ्गाङ्गिकभावस्य च तन्त्रता न किं स्यात् ।न च योजकगौरवं च दोषः प्रकृते तस्प तवापि सम्मतत्वात् ॥१२३॥अपि चान्यतमस्य जातितद्वत्प्रभृतीनां घटकत्व आग्रहश्चेत् ।अपि सोऽत्र न दुर्लभचिदात्माङ्गकयोः कारणकार्यभावभावात् ॥१२४॥न च वाच्यमिदं परात्मजत्वात्सकलस्यापि न जीवकार्यतेति ।तदभेदत एव सर्वकस्याप्युपपत्तेरिह जीवकार्यतायाः ॥१२५॥तदसिद्धिमुखानुमानदोषानुदयादुक्तनयस्य निर्मलत्वम् ।भ्रमधीप्रमितित्ववेदिनोऽतस्तव न भ्रान्तिपदार्थ एव सिध्येत् ॥१२६॥अपि च भ्रम एष किं तवान्तःकरणस्येति चिदात्मनोऽथवाऽसौ ।परिणाम इहास्स्दिमो न तस्याऽऽत्मगतत्वानुभवस्य भङ्गपत्तेः ॥१२७॥ननु रक्ततमप्रसूनयोगात् स्फटिके संस्फुरणं यथाऽरुणिम्नः ।भ्रमसंयुत चित्तयोगतोऽस्य भ्रमणस्यानुभवस्तथाऽऽत्मनि स्यात् ॥१२८॥इति चेदयमीरयाऽऽत्मयोगो भ्रमणस्याऽऽश्रित एष सन्नसन्वा ।प्रथमो घटते न संसृजेस्तेऽपरथाख्यातिवदस्य शुन्यकत्वात् ॥१२९॥चरमोऽपि न युज्यतेऽपरोक्षप्रथनस्यानुपपद्यमानतायाः ।परिणामविशेष आत्मनोऽसौ भ्रम इत्येष न युज्यतेऽन्त्यपक्षः ॥१३०॥असभागतयाऽऽत्मनो निरस्तेतरयुक्तेः परिणत्ययोग्यतायाः ।परिणत्ययुजेश्च योग्यतायामपि बुद्ध्याकृतितश्चिदात्मनोऽस्य ॥१३१॥न हि नित्यचिदाश्रयप्रतीचः परिणामः पुनरन्यचित्स्वरूपः ।गुणयोः समुदायगत्ययोगाद्गुणतावान्तरजातितः सजात्योः ॥१३२॥युगपत्समवैति नो हि शौक्ल्यद्वयकं यत्र च कुत्रचिद्यदेतत् ।ननु चिन्न गुणो गुणी तथा च प्रसरेन्नोदितदुष्टतेति चेन्न ॥१३३॥कटकाश्रयभूतदीप्तहेम्न् रुचकाधारकभाववत्तथैव ।अविनाशिचिदाश्रयस्य भूयोऽन्यचिदाघारतया स्थितेरयोगात् ॥१३४॥न च संस्कृतिरग्रहोऽप्यविद्या भ्रमशब्दार्थनिरुक्त्यसम्भवेऽपि ।भ्रमसंज्ञितवस्त्वसम्भवेन भ्रमसम्पादितसंस्कृतेरयोगात् ॥१३५॥अपि नाग्रहणं चितेरभावश्चितिरूपग्रहणस्य नित्यतायाः ।तदसम्भवतो न वृत्त्यभावस्तदभावेऽपि चिदात्मनोऽवभासात् ॥१३६॥न च भञ्जकमीक्ष्यते न तस्योपगमे दुःखजडानृतात्मकस्य ।इति वाच्यमखण्डवृत्तिरूढेश्वरबोधस्य निवर्तकत्वयोगात् ॥१३७॥अपि चेष्टतदन्यहेतुधीजे जगतः कृत्यकृती न ते घटेते ।सकलव्यवहारसङ्करत्वात्तदलं जीवनिकाऽपि दुर्लभा ते ॥१३८॥इति युक्तिशतैरमर्त्यकीर्तिः सुमतीन्द्रं तमतन्द्रितं स जित्वा ।श्रुतिभावविरोधिभावभाजं विमतग्रन्थममन्थरं ममन्थ ॥१३९॥इति भास्करदुर्मतेऽभिभूते भगवत्पादकथासुधा प्रसस्रे ।घनवार्षिकवारिवाहजाले विगते शारदचन्द्रचन्द्रिकेव ॥१४०॥स कथाभिरवन्तिषु प्रसिद्धान् विबुधान् बाणमयूरदण्डिमुख्यान् ।शिथिलीकृतदुर्मताभिमानान्निजभाष्यश्रवणोत्सुकांश्चकार ॥१४१॥प्रतिपद्य तु बाहुलिकान् महर्षौ विनयिभ्यः प्रविवृण्वति स्वभाष्यम् ।अवदन्नसहिष्णवः प्रवीणाः समये केचिदथाऽऽर्हताभिधाने ॥१४२॥ननु जीवमजीवमास्रवं च श्रितवत्संवरनिर्जरौ च बन्धः ।अपि मोक्ष उपैषि सप्तसङ्ख्यान्न पदार्थान् कथमेव सप्तभङ्ग्या ॥१४३॥कथयाऽऽर्हत जीवमस्तिकायं स्फुटमेवंविध इत्युवाच मौनी ।अवदत्स च देहतुल्यमानो दृढकर्माष्टकवेष्टितश्च विद्वन् ॥१४४॥अमहाननणुर्घटादिवत्स्यात्स न नित्योऽपि च मानुषाच्च देहात् ।गजदेहमयन्विशेन्न कृत्स्नं प्रविशेच्च प्लुषिदेहमप्यकृत्स्नः ॥१४५॥उपयान्ति च केचन प्रतीका महता संहननेन सङ्गमेऽस्य ।अपयान्त्यधिजग्मुषोऽल्पदेहं तदयं देहसमः समश्रुतेश्च ॥१४६॥उपयन्त इमे तथाऽपयन्तो यदि वर्ष्मेव न जीवतां भजेयुः ।प्रभवेयुरनात्मनः कथं ते कथमात्मावयवाः प्रयन्तु तस्मिन् ॥१४७॥जनितारहिताः क्षयेण हीनाः समुपायान्त्यपयान्ति चाऽऽत्मनस्ते ।अमुकोपचितः प्रयाति कृत्स्नं त्वमुक्रैश्चापचितः प्रयात्यकृत्स्नम् ॥१४८॥किमचेतनतोत चेतनत्वं वद तेषां चरमे विरुद्धमत्या ।वपुरुन्मथितं भवेत्तु पूर्वे बत कार्त्स्न्येन वपुर्न चेतयेयुः ॥१४९॥चलयन्ति रथं यथैकमत्या बहवो वाजिन एवमप्रतीताः ।इतरेतरमङ्गमेजयन्तु ज्ञपते चेतनतामपि प्रपद्य ॥१५०॥बहवोऽपि नियामकस्य सन्चात्सुमते तत्र भजेयुरैकमत्यम् ।कथमत्र नियामकस्य तद्वद्विविरहात् कस्यचिदप्यदो घटेत ॥१५१॥उपयान्ति न चापयान्ति जीवावयवाः किन्तु महत्तरे शरीरे ।विकसन्ति च सङ्कुचन्त्यनिष्टे यतिवर्यात्र निदर्शनं जलौका ॥१५२॥यदि चैवममी सविक्रियत्वाद्धटवत्ते च विनश्वरा भवेयुः ।इति नश्वरतां प्रयाति जीवे कृतनाशाकृतसङ्गमौ भवेताम् ॥१५३॥अपि चैवमलाबुवद्भवाब्धौ निजकर्माष्टकभारमग्नजन्तोः ।सततोर्ध्वगतिस्वरूपमोक्षस्तव सिद्धान्तसमर्थितो न सिध्येत् ॥१५४॥अपि साधनभूतसप्तभङ्गीनयमप्यार्हत नाऽऽद्रियामहे तेपरमार्थसतां विरोधमाजां स्थितिरेकत्र हि नैकदा घटेत ॥१५५॥इति माध्यमिकेषु भग्नदर्पेष्वथ भाष्याणि स नैमिशे वितत्य ।दरदान् भरतांश्च शूरसेनान् कुरुपाञ्चालमुखान् बहूनजैषीत् ॥१५६॥पटुयुक्तिनिकृत्तसर्वशास्त्रं गुरुभट्टोदयनादिकैरजय्यम् ।स हि खण्डनकारमूढदर्पं बहुधा व्युद्य वशंवदं चकार ॥१५७॥तदनन्तरमेष कामरूपानधिगत्यार्भिनवोपशब्दगुप्तम् ।अजयत्किल शाक्तभाष्यकारं स च भग्नो मनसेदमालुलोचे ॥१५८॥निगमाब्जविकासिवालभानोर्न समोऽमुष्य विलोक्यते त्रिलोक्याम् ।न कथञ्चन मद्वंशवदोऽसौ तदमुं दैवतकृत्यया हरेयम् ॥१५९॥इति गूढमसौ विचिन्त्य पश्चात् सह शिष्यैः सहसा स्वशाक्तभाष्यम् ।परिहृत्य जनापवादभीत्या यमिनः शिष्य इवान्ववर्ततैषः ॥१६०॥निजशिष्यपदं गतानुदीच्यानिति कृत्वाऽथ विदेहकौशलाद्यैः ।विहितापचितिस्तथाऽङ्गवङ्गेष्वयमास्तीर्य यशो जगाम गौडान् ॥१६१॥अभिभूय मुरारिमिश्रवर्यं सहसा चोदयनं विजित्य वादे ।अवधूय च धर्मगुप्तमिश्रं स्वयशः प्रौढमगापयत्स गौडान् ॥१६२॥पूर्वं येन विमोहिता द्विजवरास्तस्यासतोऽरीन् कलौबुद्धस्य प्रबिभेद मस्करिवरस्तान् भास्करादीन् क्षणात् ।शास्त्राम्नायविनिन्दकेन कुधिया कूटप्रवादाग्रहा-न्निष्णातो निगमागमादिषु मतं दक्षस्य कूटग्रहे ॥१६३॥शाक्तैः पाशुपतैरपि क्षपणकैः कापालिकैर्वैष्णवै-रप्यन्यैरखिलैः खिलं खलु खलैर्दुर्वादिभिर्वैदिकम् ।मार्गं रक्षितुमुग्रवादिविजयं नो मानहेतोर्व्यधा-त्सर्वज्ञो न यतोऽस्य सम्भवति सम्मानग्रहग्रस्तता ॥१६४॥दिष्टे पङ्कजविष्टरेण जगतामाद्येन तत्सूनुभि -र्निर्दिष्टे सनकादिभिः परिचिते प्राचेतसाद्यैरपि ।श्रौताद्वैतपथे परात्मभिदुरान् दुर्वादिनः कण्टकान्प्रोद्धृत्याथ चकार तत्र करुणो मोक्षाध्वगक्षुण्णताम् ॥१६५॥शान्तिर्दान्तिविरागते ह्युपरतिः क्षान्तिः परैकाग्रताश्रद्धेति प्रथिताभिरेधिततनौ षड्वक्त्रवन्मातृभिः ।भिक्षुक्षोणिपतौ पिचण्डिलतरोच्चण्डातिकण्डूच्चल-त्पाखण्डासुरखण्डनैकरसिके बाघा बुधानां कुतः ॥१६६॥यत्राऽऽरम्भजकाहलाकलकलैर्लोकायतो विद्रुतःकाणाः काणभुजास्तु सैन्यरजसा साङ्ख्यैर्धृतासाङ्ख्यधीः ।युद्ध्वा तेषु पलायितेषु सहसा योगाः सहैवाद्रवन्को वा वादिभटः पटुर्भुवि भवेद्वस्तुं पुरस्तान्मुनेः ॥१६७॥उच्चण्डे पणबन्धबन्धुरतरे वाचंयमक्ष्मापतेःपूर्वं मण्डनखण्डने समुदभूद्यो डिण्डिमाडम्बरः ।जाताः शब्दपरम्परास्तत इमाः पाखण्डदुर्वादिना-मद्य श्रोत्रतटाटवीषु दधते दावानलज्वालताम् ॥१६८॥बुद्धो युद्धसमुद्यतः किल पुनः स्थित्वा क्षणाद्विद्रुतःकोणे द्राक्कणभुग्व्यलीयत तमःस्तोमावृतो गौतमः ।भग्नोऽसौ कपिलः पलायत ततः पातञ्जलाश्चाञ्जलिंचक्रुस्तस्य यतीशितुश्चतुरता केनोपमीयेत सा ॥१६९॥हस्तग्राहं गृहीताः कतिचन समरे वैदिका वादियोधाःकाणादाद्याः परे तु प्रसभमभिहता हन्त लोकायताद्याः ।गाढं बन्दीकृतास्ते सुचिरमथ पुनः स्वस्वराज्ये नियुक्ताःसेवन्ते तं विचित्रा यतिधरणिपतेः शरता वा दया वा ॥१७०॥शान्त्याद्यर्णववाडवानलशिखा सत्याभ्रवात्या दया-ज्योत्स्नादर्शनिशाऽथ शान्तिनलिनीराकाशशाङ्कद्युतिः ।आस्तिक्यद्रुमदावपावकनवज्वालावली सत्कथा-हंसीप्रावृडखण्डि दण्डिपतिना पाखण्डवाङ्मण्डली ॥१७१॥अद्वैतामृतवर्षिभिः परगुरुव्याहारधाराधरैःकान्तैर्हन्त समन्ततः प्रसृमरैरुत्कृत्ततापत्रयैः ।दुर्भिक्षं स्वपरैकताफलगतं दुर्भिक्षुसम्पादितंशान्तं सम्प्रति खण्डिताच निबिडाः पाखण्डचण्डातपाः ॥१७२॥शान्तानां सुभटाः कपालिकपतद्ग्राहग्रहव्यावृताःकाणादप्रतिहारिणः क्षपणकक्षोणीशवैतालिकाः ।सामन्ताश्च दिगम्बरान्वयभुवश्चार्वाकवंशांङ्कुरानव्याः केचिदलं मुनीश्वरगिरा नीताः कथाशेषताम् ॥१७३॥इति सकलदिशासु द्वैतवार्तानिवृत्तौस्वयमथ परितस्तारायमद्वैतवर्त्म ।प्रतिदिनमपि कुर्वन् सर्वसन्देहमोक्षंरविरिव तिमिरौघे सम्प्रशान्ते महः स्वम् ॥इति श्रीमाधवीये तत्तदाशाजयकौतुकी ।सङ्क्षेपशङ्करजये सर्गः पञ्चदशोऽभवत् ॥१५ ॥आदितः श्लोकाः १७३६ N/A References : N/A Last Updated : January 23, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP