शङ्करदिग्विजयम् - अथ चतुर्दशः सर्गः

शङ्करदिग्विजयम्


अथाब्जपात् कर्तुमनाः स तीर्थयात्रामयाचिष्ट गुरोरनुज्ञाम् ।
देया गुरो मे भगवन्ननुज्ञा देशान्दिदृक्षे वहुतीर्थयुक्तान् ॥१॥

स क्षेत्रवासो निकटे गुरोर्यो वासस्तदीयाङ्घ्रिजलं च तीर्थम् ।
गुरूपदेशेन यदात्मदृष्टिः सैव प्रशस्ताऽखिलदेवदृष्टिः ॥२॥

शुश्रूषमाणेन गुरोः समीपे स्थेयं न नेयं च ततोऽन्यदेशे ।
विशिष्य मार्गश्रमकर्शितस्य निद्राभिभूत्या किमु चिन्तनीयम् ॥३॥

द्विधा हि संन्यास उदीरितोऽयं विबुद्धतत्त्वस्य च तद्बुभुत्सोः ।
तत्त्वम्पदार्थैक्य उदीरितोऽयं यत्नात्त्वमर्थः परिशोधनीयः ॥४॥

सम्भाव्यते क्व च जलं क्व च नास्ति पाथः
शय्यास्थलं कचिदिहास्ति न च क्व चास्ति ।
शय्यास्थलीजलनिरीक्षणसक्तचेताः
पान्थो न शर्म लभते कलुषीकृतात्मा ॥५॥

ज्वरातिसारादि च रोगजालं बाधेत चेत्तर्हि न कोऽप्युपायः ।
स्थातुं च गन्तुं च न पारयेत तदा सहायोऽपि विमुञ्चतीमम् ॥६॥

स्नानं प्रभाते न च देवतार्चनं क्व चोक्तशौचं क्व च वा समाधयः ।
क्व चाशनं कुत्र च मित्रसङ्गतिः पान्थो न शाकं लभते क्षुधातुरः ॥७॥

नास्त्युत्तरं गुरुगिरस्तदपीह वक्ष्ये सत्यं यदाह भगवान गुरुपार्श्ववासः ।
श्रेयानिति प्रथमसंयमिनामनेकान् देशानवीक्ष्य हृदयं न निराकुलं मे ॥८॥

सर्वत्र न क्वापि जलं समस्ति पश्चात् पुरस्तादथवा विदिक्षु ।
मार्गो हि विद्येत न सुव्यवस्थः सुखेन पुण्यं क्व नु लभ्यतेऽधुना ॥९॥

जन्मान्तरार्जितमधं फलदानहेतो-
र्व्याध्यात्मना जनिमुपैति न नो विवादः ।
साधारणादिह च वा परदेशके वा
कर्म ह्यभुक्तमनुवर्तत एव जन्तुम् ॥१०॥

इह स्थितं वा परतः स्थितं वा कालो न मुञ्चेत् समयागतश्चेत् ।
तद्देशगत्याऽमृत देवदत्त इत्यादिकं मोहकृतं जनानाम् ॥११॥

मन्वादयो मुनिवराः खलु धर्मशास्त्रे
धर्मादि सङ्कुचितमाहुर तिप्रवृद्धम् ।
देशाद्यवेक्ष्य न तु तत्सरणिं गतानां
शौचाद्यतिक्रमकृतं प्रभवेदघं नः ॥१२॥

दैवेऽनुकूले विपिनं गतो वा समाप्नुयाद्वाञ्छितमन्नमेषः ।
ह्रियेत नश्येदपि वा पुरस्थं तस्मिन् प्रतीपे तत एव सर्वम् ॥१३॥

गृहं परित्यज्य विदेशगो ना सुखं समागच्छति तीर्थदृश्वा ।
गृहं गतो याति मृर्तिं पुरस्तात्तदागमादत्र च किं निमित्तम् ॥१४॥

देशे कालेऽवस्थितं तद्विमुक्तं ब्रह्मानन्दं पश्यतां तत्र तत्र ।
चित्तैकाग्र्ये विद्यमाने समाधिः सर्वत्रासौ दुर्लभो नेति मन्ये ॥१५॥

सत्तीर्थसेवा मनसः प्रसादिनी देशस्य वीक्षा मनसः कुतूहलम् ।
क्षिणोत्यनर्थान् सुजनेन सङ्गमस्तस्मान्न कस्मै भ्रमणं विरोचते ॥१६॥

अटाट्यमानोऽपि विदेशसङ्गतिं लभेत विद्वान् विदुषाऽभिसङ्गतिम् ।
बुधो बुधानां खलु मित्रमीरितं खलेन मैत्री न चिराय तिष्ठति ॥१७॥

समीपवासोऽयमुदीरतो गुरोर्विदेशगो यद् हृदयेन धारयेत् ।
समीपगोऽप्येष न संस्थितोऽन्तिके न भक्तिहीनो यदि धारयेद् हृदि ॥१८॥

सुजनः सुजनेन सङ्गतः परिपुष्णाति मतिं शनैः शनैः ।
परिपुष्टमतिर्विषेकवाञ्शनकैर्हेयगुणं विमुञ्चति ॥१९॥

यद्याग्रहोऽस्ति तव तीर्थनिषेवणायां
विघ्नो मयाऽत्र न खलु क्रियते पुमर्थे ।
चित्तस्थिरत्वगतये विहितो निषेधो
मा भूद्विशेषगमनं त्वतिदुःखहेतुः ॥२०॥

नैको मार्गो बहुजनपदक्षेत्रतीर्थानि यातां
चौराध्वानं परिहर सुखं त्वन्यमार्गेण याहि ।
विप्राग्र्याणां वसतिविततिर्यत्र वस्तव्यमीष-
न्नो चेत्सार्धं परिचितजनैः शीघ्रमुद्दिष्टदेशम् ॥२१॥

सद्भिः सङ्गो विधेयः स हि सुखनिचयं सूयते सज्जनाना-
मध्यात्मैक्ये कथास्ता घटितबहुरसाः श्राव्यमाणाः प्रशान्तैः ।
कायक्लेशं विभिन्द्युः सततभयभिदः श्रान्तविश्रामवृक्षाः
स्वान्तश्रोत्राभिरामाः परिमृषिततृषः क्षोभितक्षुत्कलङ्काः ॥२२॥

सत्सङ्गोऽयं बहुगुणयुतोऽप्येकदोषेण दुष्टो
यत् स्वान्तेऽयं तपति च परं सूयते दुःखजालम् ।
खल्वासङ्गो वसतिसमये शर्मदः पूर्वकाले
मायो लोके सततविमलं नास्ति निर्दोषमेकम् ॥२३॥

मार्गे यास्यन्न बहुदिवसान पाथसः सङ्ग्रही स्यात्-
तस्माद्दोषो जिगमिषुपदप्राप्तिविघ्नस्ततः स्यात् ।
प्राप्योद्दिष्टं वस निरसनं तत्र कार्यस्य सिद्धे-
र्मूलाद्भ्रंशोऽभिलषितपदप्राप्त्यभावोऽन्यथा हि ॥२४॥

मार्गे चोरा निकृतिवपुषः संवसेयुः सहैव
छन्नात्मानो बहुविधगुणैः सम्परीक्ष्याः प्रयत्नात् ।
देवान् वस्त्रं लिखितमथवा दुर्विधा नेतुकामा
विश्वासोऽतोऽपरिचितनृषु प्रोज्ज्ञनीयो न कार्यः ॥२५॥

मध्येमार्गं योजनाभ्यन्तरे वा तिष्ठेयुश्चेद्भिक्षवस्तेऽभिगम्याः ।
पूज्याः पूज्यास्तद्व्यतिक्रान्तिरूग्रा श्रेयस्कार्यं निष्फली कर्तुमीशाः ॥२६॥

यदापदपदं सदा यतिवर स्थितं वस्तु त-
न्मतं भज मितम्पचान् मनसि मा कृथाः प्राकृतान् ।
कषायकलुषाशयक्षतिविनिर्वृतः सन्मतः
सुखी चर सुखे चिरात् स्फुरति सन्ततानन्दता ॥२७॥

इत्थं गुरोर्मुखगुहोदितवाक्सुधां ता\-
मापीय हृष्टहृदयः स मुनिः प्रतस्थे ।
प्रस्थाप्य तं गुरुवरोऽथ सुरेश्वराद्यैः
कालं कियन्तमनयत् सह श‍ृङ्गकुघ्रे ॥२८॥

अधिगम्य तदाऽऽत्मयोगशक्तेरनुभावेन निवेद्य चाऽऽ श्रवेभ्यः ।
अवलम्बिततारकापथोऽसावचिरादन्तिकमाससाद मातुः ॥२९॥

तत्राऽऽतुरां मातरमैक्षतासौ ननाम तस्याश्चरणौ कृतात्मा ।
सा चैनमुद्वीक्ष्य शरीरतापं जहौ निदाघार्त इवाम्बुदेन ॥३०॥

असावसङ्गोऽपि तदाऽऽर्द्रचेतास्तामाह मोहान्धतमोपहर्ता ।
अम्बायमस्त्यत्र शुचं जहीहि प्रब्रूहि किं ते करवाणि कृत्यम् ॥३१॥

दृष्ट्वा चिरात् पुत्रमनामयं सा हृष्टान्तरात्मा निजगाद मन्दम् ।
अस्यां दशायां कुशली मया त्वं दिष्ट्याऽसि दृष्टः किमतोऽस्ति कृत्यम् ॥३२॥

इतः परं पुत्रक गात्रमेतद्वोढुं न शक्नोमि जरातिशीर्णम् ।
संस्कृत्य शास्त्रोदितवर्त्मना त्वं सद्वृत्त मां प्रापय पुण्यलोकान् ॥३३॥

सुतानुगां सूक्तिमिमां जनन्याः श्रुत्वाऽथ तस्यै सुखरूपमेकम् ।
मायामयाशेषविशेषशुन्यं मानातिगं स्वप्रभमप्रमेयम् ॥३४॥



उपादिशद्ब्रह्म परं सनातनं न यत्र हस्ताङ्घ्रिविभागकल्पना ।
अन्तर्बहिः सन्निहितं यथाऽम्बरं निरामयं जन्मजरादिवर्जितम् ॥३५॥

सौम्यागुणे मे रमते न चित्तं रम्यं वद त्वं सगुणं तु देवम् ।
न बुद्धिमारोहति तत्त्वमात्रं यदेकमस्थूलमनण्वगोत्रम् ॥३६॥

निशम्य मातुर्वचनं दयालुस्तुष्टाव भक्त्या मुनिरष्टमूर्तिम् ।
वृत्तैर्भुजङ्गोपपदैः प्रसन्नः प्रस्थापयामास स च स्वदूतान् ॥३७॥

विलोक्य ताञ्शूलपिनाकहस्तान्नैवानुगच्छेयमिति ब्रुवत्याम् ।
तस्यां विसृज्यानुनयेन शैवानस्तौदथो माधवमादरेण ॥३८॥

भुजगाधिपभोगतल्पभाजं कमलाङ्कस्थलकल्पिताङ्घ्रपद्मम् ।
अभिवीजितमादरेणं नीलावसुधाभ्यां चलमानचामराभ्याम् ॥३९॥

विहिताञ्जलिना निषेव्यमाणं विनतानन्दकृताऽग्रतो रथेन ।
धृतमूर्तिभिरस्त्रदेवताभिः परितः पञ्चभिरञ्चितोपकण्ठम् ॥४०॥

महनीयतमालकोमलाङ्गं मुकुटीरत्नचयं महार्हयन्तम् ।
शिशिरेतरभानुशीलिताग्रं हरिनीलोपलभूधरं हसन्तम् ॥४१॥

तत्तादृशं निजसुतोदितमम्बुजाक्षं चित्ते दधार मृतिकाल उपागतेऽपि ।
चित्तेन कञ्जनयनं हृदि भावयन्ती तत्याज देहमबला किल योगिवत्सा ॥४२॥

ततः शरच्चन्द्रमरीचिरोचिर्विचित्रपारिप्लवकेतनाढ्यम् ।
विमानमादाय मनोज्ञरूपं प्रादुर्बभूवुः किल विष्णुदूताः ॥४३॥

वैमानिकांस्तान्नयनाभिरामानवेक्ष्य हृष्टा मशशंस पुत्रम् ।
विमानमारोप्य विराजमानमनायि तैः सा बहुमानपूर्वम् ॥४४॥

इयमर्चिरहर्वलक्षपक्षान् षडुदङ्माससमानिलार्कचन्द्रान् ।
चपलावरुणेन्द्रघातृलोकान् क्रमशोऽतीत्य परं पदं प्रपेदे ॥४५॥

स्वयमेव चिकीर्षुरेष मातुश्चरमं कर्म समाजुहाव बन्धून् ।
किमिहास्ति यते तत्राधिकारः कितवेत्येनममी निनिन्दुरुच्चैः ॥४६॥

अनलं बहुधाऽर्थिताऽपि तस्मै बत नाऽऽदत्त च बन्धुता तदीया ।
अथ कोपपरीवृतान्तरोऽसावखिलांस्तानशपच्च निर्ममेन्द्रः ॥४७॥

सञ्चित्य काष्ठानि सुशुष्कवन्ति गृहोपकण्ठे धृततोयपात्रः ।
स दक्षिणे दोष्णि ममन्थ वह्निं ददाह तां तेन च संयतात्मा ॥४८॥

न याचिता वह्निमदुर्यदस्मै शशाप तान् स्वीयजनान् सरोषः ।
इतः परं वेदबहिष्कृतास्ते द्विजा यतीनां न भवेच्च भिक्षा ॥४९॥

गृहोपकण्ठेषु च वः श्मशानमद्यप्रभृत्यस्त्विति ताञ्शशाप ।
अद्यापि तद्देशभवा न वेदमधीयते नो यमिनां च भिक्षा ॥५०॥

तदाप्रभृत्येव गृहोपकण्ठेष्वासीच्छ्मशानं किल हन्त तेषाम् ।
महत्सु धीपूर्वकृतापराधो भवेत् पुनः कस्य सुखाय लोके ॥५१॥

शान्तः पुमानिति न पीडनमस्य कार्यं
शान्तोऽपि पीडनवशात् क्रुधमुद्वहेत् सः ।
शीतः सुखोऽपि मथितः किल चन्दनद्रु-
स्तीव्राहुताशजनको भवति क्षणेन ॥५२॥

यद्यप्यशास्त्रीयतया विभाति तेजस्विनां कर्म तथाऽप्यनिन्द्यम् ।
विनिन्द्यकृत्यं किल भार्गवस्य ददुः स्वपुत्रान् कतिचिद्दूकाय ॥५३॥

इति स्वजननीमसौ मुनिजनैरपि प्रार्थितां
पुनः पतनवर्जितामतनुसौख्यसन्दोहिनीम् ।
यतिक्षितिपतिर्गतिं वितमसं स नीत्वा तत-
स्ततोऽन्यमतशातने प्रयतते स्म पृथ्वीतले ॥५४॥

अथ तत्सहायजलजाङघ्रयुपागमेच्छुरभीप्सितेऽत्र विललम्ब एषकः ।
जलाजाङध्रिरप्यथ पुरा निजज्ञया कृतवानुदीच्यबहुतीर्थसेवनम् ॥५५॥

आससाद शनकैर्दिशं मुनिर्यस्य जन्म वसुधाघटी स्मृता ।
सा श्रुतिः सकलरोगनाशिनी योऽपिबज्जलधिमेकबिन्दुवत् ॥५६॥

अद्राक्षीत्सुभगाहिभूषिततनुं श्रीकालहस्तीश्वरं
लिङ्गे सन्निहितं दधानमनिशं चान्द्रीं कलां मस्तके ।
पार्वत्या करुणारसार्द्रमनसाऽऽश्लिष्टं(प्लेअसे चेच्क्) प्रमोदास्पदं
देवैरिन्द्रपुरोगमैर्जय जयेत्याभाष्यमाणं मुनिः ॥५७॥

स्नात्वा सुवर्णमुखरीसलिलाशयेऽन्तर्गत्वा पुनः प्रणमति स्म शिवं भवान्या ।
आनर्च भावकुसुमैर्मनसा नुनाव स्तुत्वा च तं पुनरयाचत तीर्थयात्राम् ॥५८॥

लब्ध्वाऽनुज्ञां तज्ज्ञराट् कालहस्तिक्षेत्रात् काञ्चीक्षेत्रमागात् पवित्रम् ।
संसाराब्धिं सन्तितीर्षोः प्रसिद्धं वृद्धाः प्राहुर्यद्धि लोके ह्यमुष्मिन् ॥५९॥

तत्रैकाम्राधीश्वरं विश्वनाथं नत्वा गम्यं स्वीयभाग्यातिशीत्या ।
देवीं घामान्तर्गतामन्तकारेर्हार्दं(प्लेअसे चेच्क्) रुद्रस्येव जिज्ञासमानाम् ॥६०॥

कल्लालेशं द्राक्ततो नातिदूरे लक्ष्मीकान्तं संवसन्तं पुराणम् ।
कारुण्यार्द्रस्वान्तमन्तादिशून्यं दृष्ट्वा देवं सन्तुतोषैकभक्त्या ॥६१॥

पुण्डरीकपुरमाययौ मुनिर्यत्र नृत्यति सदाशिवोऽनिशम् ।
वीक्षते प्रकुतिरादिमा हृदा पार्वतीपरिणतिः शुचिस्मिता ॥६२॥

ताण्डवं मुनिजनोऽत्र वीक्षते दिव्यचक्षुरमलाशयोऽनिशम् ।
जन्ममृत्युभयभेदि दर्शनान्नेत्रमानसविनोदकारकम् ॥६३॥

किञ्चात्र तीर्थमिति भिक्षुगणेन कश्चित्
पृष्टोऽब्रवीच्छिवपदाम्बुजसक्तचित्तः ।
सम्प्रार्थितः करुणयाऽस्मरदत्र गङ्गां
देवोऽथ संन्यधित दिव्यसरित् सुतीर्थम् ॥६४॥

शिवाज्ञयाऽभूदिति तीर्थमेतच्छिवस्य गङ्गां प्रवदन्ति लोके ।
स्नानादमुष्यां विधुतोरुपापाः शनैः शनैस्ताण्डवमीक्षमाणाः ॥६५॥

शिवस्य नाट्यश्रमकर्शितस्य श्रमापनोदाय विचिन्तयन्ती ।
शिवेति गङ्गापरिणामगाऽभूत्ततोऽथवैतत्प्रथितं तदाख्यम् ॥६६॥

नृत्यत्तीरहतस्खलज्जलगतेः पर्यापतद्बिन्दुकं
पार्श्वे स्वावसतेर्विनोदवशतो यज्जह्नुकन्यापयः ।
नृत्यं तन्वति धूर्जटौ विगलितं प्रेङ्खज्जटामण्डलात्-
तेनैतच्छिवजाह्नवीति कथयन्त्यन्ये विपश्चिज्जनाः ॥६७॥

स्नायं स्नायं तीर्थवर्येऽत्र नित्यं वीक्षं वीक्षं देवपादाब्जयुग्मम् ।
शोधं शोधं मानसं मानवोऽसौ वीक्षेतेदं ताण्डवं शुद्धचेताः ॥६८॥

शुद्धं महद्वर्णयितुं क्षमेत पुण्यं पुरारिः स्वयमेव तस्य ।
निमज्ज्य शम्भुद्युसरित्यमुष्यां दाक्षायणीनाथमुदीक्षते यः ॥६९॥

इतीरितः शङ्करयोजितात्मा केनापि भिक्षुर्मुदितो जगाहे ।
तीर्थं तदाप्लुत्य ननाम शम्भोरङ्घ्रिं जितात्मा भुवनस्य गोप्तुः ॥७०॥

रामसेतुगमनाय सन्दधे मानसं मुनिरनुत्तमः पुनः ।
वर्त्मनि प्रयतमानसो व्रजन् सन्ददर्श सरितं कवेरजाम् ॥७१॥

यत्पवित्रपुलिनस्थलं पयःसिन्धुवासरसिकाय विष्णवे ।
अभ्यरोचत हिरण्यवाससे पद्मनाभमुखनामशालिने ॥७२॥

सह्यपर्वतसुतातिनिर्मलाम्भोभिषिक्तभगवत्पदाम्बुजे ।
आकलय्य बहुशिष्य संवृतः प्रास्थिताभिरुचितस्थलाय सः ॥७३॥

गच्छन् गच्छन् मार्गमध्येऽभियातं गेहं भिक्षुर्मातुलस्याऽऽजगाम ।
दृष्ट्वा शिष्यैस्तं चिरेणाभियातं मोदं प्रापन्मातुलः शास्त्रवेदी ॥७४॥

शुश्राव तं बन्धुजनः सशिष्य स्वमातुलागारमुपेयिवांसम् ।
आगत्य दृष्ट्वा चिरमागतं तं जहर्ष हर्षातिशयेन साश्रुः ॥७५॥

रुरोद कश्चिन्मुमुदेऽत्र कश्रिज्जहास पूर्वावरितं बभाषे ।
कश्चित्प्रमोदातिशयेन किञ्चिद्वचः स्खलद्गीः प्रणनाम कश्चित् ॥७६॥

ऊचेऽथ तं ज्ञातिजनः प्रमोदी दृष्टा चिरायाक्षिपथं गतोऽभूः ।
दिदृक्षते त्वां जनताऽतिहाहार्दात्तथाऽपि शक्नोषि न वीक्षणाय ॥७७॥

पुत्राः समित्रा न न बन्धुवर्गो न राजबाधा न च चोरभीतिः ।
कृतार्थतामूलपदं यतित्वं प्रसूनवन्तं फलितं महान्तम् ॥७८॥

शाखोपशाखाञ्चितमेव वृक्षं बाघन्त आगत्य न तद्विहीनम् ।
यथा तथा वा धनिनं दरिद्रा बाघन्त आगत्य दिने दिने स्म ॥७९॥

कुटुम्बरक्षागतमानसानामायाति निद्राऽपि सुखं न जातु ।
क्व देवतार्चा क्व च तीर्थयात्रा क्व वा निषेवा महतां भवेन्नः ॥८०॥

अश्रौष्म संन्यासकृतं भवन्तं विप्रात् कुतश्चिद्गृहमागतान्नः ।
कालोऽत्यगात्ते बहुरद्य दैवात्तीर्थस्य हेतोगृहमागतस्त्वम् ॥८१॥

यथा शकुन्ताः परवर्धितान् द्रुमान् समाश्रयन्ते सुखदांस्त्यजन्त्यपि ।
परप्रक्ळृप्तान् मठदेवतागृहान्यतिः समाश्रित्य तयोथोज्ज्ञति ध्रुवम् ॥८२॥

यथा हि पुष्पाण्यभिगम्य षट्पदाः सङ्गृह्ण सारं रसमेव भुञ्जते ।
तथा यतिः सारमवाप्नुवन् सुखं गृहागृहादोदनमेव भिक्षते ॥८३॥

यतेर्विरज्यात्मगतिः कलत्रं देहं गृहं संयतमेव सौख्यम् ।
विरक्तिभाजस्तनयाः स्वशिष्याः किमर्थनीयं यतिनो महात्मन् ॥८४॥

मनोरथानां न समाप्तिरिष्यते पुनः पुनः सन्तनुते मनोरथान् ।
दारानभीप्सुर्यतते दिवानिशं तान् प्राप्य तेभ्यस्तनयानभीप्सति ॥८५॥

अनाप्नुवन् दुःखमसौ सुतीव्रं प्राप्नोति चेष्टेन वियुज्यते पुनः ।
सर्वात्मना कामवशस्य दुःखं तस्माद्विरक्तिः पुरुषेण कार्या ॥८६॥

विरक्तिमूलं मनसो विशुद्धिं तन्मूलमाहुर्महतां निषेवाम् ।
भवादृशास्तेन च दूरदेशे परोपकाराय रसामटन्ति ॥८७॥

अज्ञातगोत्रा विदितात्मतत्त्वा लोकस्य दृष्ट्या जडवद्विभान्तः ।
चरन्ति भूतान्यनुकम्पमानाः सन्तो यदृच्छोपनतोपभोग्याः ॥८८॥

चरन्ति तीर्थान्यपि सङ्ग्रहीतुं लोकं महान्तो ननु शुद्धभावाः ।
शुद्धात्मविद्याक्षपितोरुपापास्तज्जुष्टमम्भो निगदन्ति तीर्थम् ॥८९॥

वस्तव्यमत्र कतिचिद्दिवसानि विद्वंस्त्वदर्शनं वितनुते मुदितादि भव्यम् ।
एष्यद्वियोगचकिता जनतेयमास्ते दुःखं गतेऽत्र भवितेति भवत्यसङ्गे ॥९०॥

कोशं क्लेशमलस्य लास्यगृहमप्युद्रंहसामालयं
पैशुन्यस्य निशान्तमुत्कटमृषाभाषाविशेषाश्रयम् ।
हिंसामांसलमाश्रिता घनधनाशंसानृशंसा वयं
वज्यं दुर्जनसङ्गमं करुणया शोध्या यतीन्दो त्वया ॥९१॥

संयुनक्ति वियुनक्ति देहिनं दैवमेव परमं मनागपि ।
इष्टसङ्गतिनिवृत्तिकालयोर्निर्विकारहृदयो भवेन्नरः ॥९२॥

मध्याह्नकाले क्षुधितस्तृषार्तः क्व मेऽन्नदातेति वदन्नुपैति ।
यस्तस्य निर्वापयिता क्षुदातेंः कस्तस्य पुण्यं वदितुं क्षमेत ॥९३॥

सायं प्रातर्वह्निकार्यं वितन्वन् मज्जंस्तोये दण्डकृष्णाजिनी च ।
नित्यं वर्णी वेदवाक्यान्यधीयन् क्षुद्ध्वा शीघ्रं गेहिनो गेहमेति ॥९४॥

उच्चैः शास्त्रं भाषमाणोऽपि भिक्षुस्तारं मन्त्रं सञ्जपन्वा यतात्मा ।
मध्येघस्रं जाठराग्नौ प्रदीप्ते दण्डी नित्यं गेहिनो गेहमेति ॥९५॥

यदन्नदानेन निजं शरीरं पुष्णंस्तपोऽयं कुरुते सुतीव्रम् ।
कर्तुस्तदर्घं ददतोऽन्नमर्धमिति स्मृतिः संववृतेऽनवद्या ॥९६॥

पुण्यं गृहस्थेन विचक्षणेन गृहेषु सञ्चेतुमलं प्रयासात् ।
विनाऽपि तत्कर्तृनिषेवणेन तीर्थादिसेवा बहुदुःखसाध्या ॥९७॥

गृही धनी धन्यतरो मतो मे तस्योपजीवन्ति धनं हि सर्वे ।
चौर्येण कश्चित्प्रणयेन कश्चिदानेन कश्चिद्बलतोऽपि कश्चित् ॥९८॥

सन्तोषयेद्वेदविदं द्विजं यः सन्तोषयत्येष स सर्वदेवान् ।
तद्वेदविप्रे निवसन्ति देवा इति स्म साक्षाच्छ्रतिरेव वक्ति ॥९९॥

स्वधर्मनिष्ठा विदिताखिलार्था जितेन्द्रियाः सेवितसर्वतीर्थाः ।
परोपकारव्रतिनो महान्त आयान्ति सर्वे गृहिणो गृहाय ॥१००॥

गृही गृहस्थोऽपि तदश्नुते फलं यत्तीर्थसेवाभिरवाप्यते जनैः ।
तत्तस्य तीर्थं गृहमेव कीर्तितं धनी वदान्यः प्रवसेन्न कश्चन ॥१०१॥

अन्तःस्थिता मूषकमुख्यजीवा बहिःस्थिता गोमृगपक्षिमुख्याः ।
जीवन्ति जींवाः सकलोपजीव्यस्तस्माद्गृही सर्ववरो मतो मे ॥१०२॥

शरीरमूलं पुरुषार्थसाधनं तच्चान्नमूलं श्रुतितोऽवगम्यते ।
तच्चान्नमस्माकपममीषु संस्थितं सर्वं फलं गेहपतिद्रुमाश्रयम् ॥१०३॥

ब्रवीमि भूयः श‍ृणुताऽऽदरेण वो गृहागतं पूजयताऽऽतुरातिथिम् ।
सम्पूजितो वोऽतिथिरुद्धरेत्कुलं निराकृतात् किं भवतीति नोच्यते ॥१०४॥

विनाऽभिसन्धिं कुरुत श्रुतीरितं कर्म द्विजा नो जगतामधीश्वरः ।
तुष्येदिति प्रार्थनयाऽपि तेन स्वान्तस्य शुद्धिर्भविताऽचिरेण वः ॥१०५॥

ससंरम्भाश्लिष्यत्सुफणितिवधूटीकुचतटी-
पटीवत्पाटीरागरवनवपङ्काङ्कितहृदः ।
तथाऽप्येते पूता यतिपतिपदाम्भोजभजन-
क्षणक्षीणक्लेशाः सदयहृदयाभाः सुकृतिनः ॥१०६॥

सन्दिश्येत्थं बन्धुतां भिक्षुराजो भिक्षां चक्रे मातुलस्यैत्र गेहे ।
पप्रच्छैनं मातुलो भुक्तवन्तं किंस्विच्छन्नं पुस्तकं शिष्यहस्ते ॥१०७॥

टीका विद्वन् भाष्यगेति ब्रुवाणं तां देहीति प्रोचिषे दत्तवांश्च ।
अद्राक्षीत्तां मातुलस्तस्य बुद्धिं दृष्ट्वाऽऽनन्दीत् खेदमापच्च किञ्चित् ॥१०८॥

प्रबन्धनिर्माणविचित्रनैपुणीं दृष्ट्वा प्रमोदं स विवेद किञ्चित् ।
मतान्तराणां किल युक्तिजालैर्निरुत्तरं बन्धनमालुलोके ॥१०९॥

गुरोर्मतं स्वाभिमतं विशेषान्निराकृतं तत्र समत्सरोऽभूत् ।
साधुर्निबन्धोऽयमिति  ब्रुवाणस्तं साभ्यसूयोऽपि कृताभिनन्दः ॥११०॥

सेतुं गच्छाम्यालये पुस्तभारं ते न्यस्येमं वर्तते मेऽत्र जीवः ।
विद्वन् यद्वद्गोगृहादौ परेषां प्रीतिः पूर्णा नस्तथा पुस्तभारे ॥१११॥

इत्युक्त्वा तैर्मातुलं मस्करीशः शिष्यैर्हृष्यन् सेतुमेष प्रतस्थे ।
प्रस्थातुः श्रीपद्मपादस्य जातं कष्टं चैष्यत्सृचनायै निमित्तम् ॥११२॥

वामं नेत्रं गन्तुरस्पन्दतैव बाहुः पुस्फोरापि वामस्तथोरुः ।
चुक्षावोच्चैर्हन्त कश्चित्पुरस्तात्तत्सर्वं द्राग्ज्ञोऽगणित्वा जगाम ॥११३॥

गतेऽत्र मेने किल मातुलोऽस्य ग्रन्थे स्थितेऽस्मिन गुरुपक्षहानिः ।
दग्धेऽत्र जायेत महान् प्रचारो नोक्त्या निराकर्तुमपि प्रभुत्वम् ॥११४॥

पक्षस्य नाशाद्गृहनाश एव नो वरं गृहेणैव दहामि पुस्तकम् ।
एवं निरूप्य न्यदधाद्धुताशनं चुक्रोश चाग्निर्दहतीति मे गृहम् ॥११५॥

ऐतिह्यमाश्रित्य वदन्ति चैवं तदेव मूलं मम भाषणेऽपि ।
यावत्कृतं तावदिहास्य कर्तुः पापं ततः स्याद्द्विगुणं प्रवक्तुः ॥११६॥

गच्छन्नसौ फुल्लमुनेर्जगाम तमाश्रमं यत्र च रामचन्द्रः ।
अश्वत्थमूले न्यधित स्वचापं स्वयं कुशानामुपरि न्यषीदत् ॥११७॥

तीर्त्वा समुद्रं जनकात्मजायाः सन्दर्शनोपायमनीक्षमाणः ।
वसुन्धरायां प्रवणाः प्लवङ्गा न वारिराशौ प्लवनं क्षमन्ते ॥११८॥

सञ्चिन्तयन्निति कुशासनसन्निविष्टो ज्योतिस्तदैक्षत विदुरगमेव किञ्चित् ।
संव्याप्नुवज्जगदिदं सुखशीतलं यत्सम्प्रार्थनीयमनिशं मुनिदेवताभिः ॥११९॥

आगच्छदात्माभिमुखं निरीक्ष्य सर्वे तदुत्तस्थुरुदारवीर्याः ।
ततः पुमाकारमदृश्यतैतन्महाप्रभामण्डलमध्यवर्ति ॥१२०॥

मध्ये प्रभामण्डलमैक्षताञ्चितं शिवाकृतिं सर्वतपोमयं पुनः ।
लोपादिमुद्रासहितं महामुनिं प्राबोधि कुम्भोद्भवमादराजनैः ॥१२१॥

अगस्त्यदृश्वा रघुनन्दनस्ततः स खेदमन्तःकरणोत्थमत्यजत् ।
प्रायो महद्दर्शनमेव देहिनां क्षिणोति खेदं रविवन्महातमः ॥१२२॥

सभार्यमर्ध्यादिभिरर्चयित्वा रामस्तदङ्घ्रिं शिरसा ननाम ।
तृष्णीं मुहूर्तं व्यसनार्णवस्थो धृतिं समास्थाय पुनर्बभाषे ॥१२३॥

दृष्ट्वा भवन्तं पितृवत्प्रमोदे यन्मामगा दुःखमहार्णवस्थम् ।
मन्ये ममाऽऽत्मानमवाप्तकामं वंशो महान्मे तपनात्प्रवृत्तः ॥१२४॥

न तत्र मादृग्जनिता न जातः पदच्युतोऽहं प्रथमं सभार्यः ।
सलक्ष्मणोऽरण्यमुपागतश्च मारीचमायानिहतान्तरङ्गः ॥१२५॥

तत्रापि भार्यामहृत च्छलेन स रावणो राक्षसपुङ्गवो मे ।
सा चाधुनाऽशोकवने समास्ते कृशा वियोगात्स्वत एव तन्वी ॥१२६॥

तीर्त्वा समुद्रं विनिहत्य दुष्टं बलेन सीतां महता हरामि ।
यथा तथोपायमुदाहर त्वं न मे त्वदन्योऽस्ति हितोपदेष्टा ॥१२७॥

इतीरितो वाचमुवाच विद्वान्मा राम शोकस्य वशं गतो भूः ।
वंशद्वये सन्ति नृपा महान्तः सम्पाप्य दुःखं परिमुक्तदुःखाः ॥१२८॥

त्वमग्रणीर्दाशरथे धनुर्भृतां तवानुजस्यापि समो न लक्ष्यते ।
प्लवङ्गमानामधिपस्य कोटिशो मा मुञ्च मा मुञ्च वचो विनार्थम् ॥१२९॥

सहायसम्पत्तिरियं तवास्ति हितोपदेष्टाऽप्यहमस्मि कश्चित् ।
वारां निधिः किं कुरुते तवायं स्मराधुना गोष्पदमात्रमेनम् ॥१३०॥

पुरेव चार्वब्धिमहं पिबामि शुष्केऽत्र तेन प्रतियाहि लङ्काम् ।
एवं मया कीर्तिरुपार्जिता स्याद्बद्धे तु वार्धौ तव सार्जिता स्यात् ॥१३१॥

सेतुं वार्धौ बन्धयित्वा जहि त्वं दुष्टं चौर्याद्येन सीता हृताऽऽसीत् ।
प्राप्नोषि त्वं कीर्तिमाचन्द्रतारं तेनात्राब्धिं बन्धय त्वं कपीन्द्रैः ॥१३२॥

इत्थं यत्र प्रेरितेऽगस्त्यवाचा सेतुं रामो बन्धयामास वार्धौ ।
तुङ्गैः श‍ृङ्गैर्वानरैस्तेन गत्वा तं हत्वाऽऽजौ जानकीमानिनाय ॥१३३॥

तत्तादृक्षे तत्र तीर्थे स भिक्षुः स्नात्वा भक्त्या रामनाथं प्रणम्य ।
तत्र श्रद्धोत्पत्तये मानुषाणां शिष्येभ्यस्तद्वैभवं सम्यगूचे ॥१३४॥

तन्माहात्म्यं वर्णयन्तं मुनिं तं पप्रच्छैनं कश्चिदेवं विपश्चित् ।
रामेशाख्या किंसमासोपपन्ना पृष्टस्त्रेधाऽवोचदेवं समासम् ॥१३५॥

रघूद्वहस्तत्पुरुषं परं जगौ शिवो बहुव्रीहिसमासमैरयत् ।
रामेश्वरे नामनि कर्मधारयं परं समाहुः स्म सुरेश्वरादयः ॥१३६॥

एवं निश्चित्योदितं तत्समासं श्रुत्वा तत्रत्यो बुधो योऽभ्यनन्दत् ।
अम्भोजाङ्घ्रिस्तैरथ स्तूयमानः कश्चित्कालं तत्र योगीडनैषीत् ॥१३७॥

तस्मादार्यः प्रस्थितोऽभूत् सशिष्यस्तीर्थस्नानोपात्तचित्तामलत्वः ।
पश्यन् देशान्मातुलीयं जगाहे गेहं दग्धं तस्य पुस्तेन सार्धम् ॥१३८॥

श्रुत्वा किञ्चित् खेदमापेदिवान् स मत्वा मत्वा धैर्यमापेदिवान् सः ।
श्रावं श्रावं मातुलीयस्य तीव्रं दाहं गेहस्यानुकम्पां व्यधत्त ॥१३९॥

विश्वस्य मां निहितवानसि पुस्तभारं तं चादहद्रुतवहः पतितः प्रमादात् ।
तावान्न मे सदनदाहकृतोऽनुतापो यावांस्तु पुस्तकविनाशकृतो मम स्यात् ॥१४०॥

इत्थं ब्रुन्तं तमथो न्यगादीत् पुस्तं गतं बुद्धिरवस्थिता मे ।
उक्त्वा समारब्ध पुनश्च टीकां कर्तुं स धीरो यतिवृन्दवन्द्यः ॥१४१॥

दृष्ट्वा बुद्धिं मातुलस्तस्य भूयो भीतः प्रास्यद्भोजने तन्मनोघ्नम् ।
किञ्चिद्रव्यं पूर्ववन्नाक्षमिष्ट टीकां कर्तुं केचिदेवं ब्रुवन्ति ॥१४२॥

अत्रान्तरेऽन्यैर्निजवच्चरद्भिः स्वैस्तीर्थयात्रां दयितैः सतीर्थैः ।
अर्थादुपेत्याऽऽश्रमतः कनिष्ठैर्ज्ञातः सखेदैः स मुनिः समैक्षि ॥१४३॥

दृष्ट्वा पद्माङ्घ्रिं क्रमात्ते प्रणेमुस्तत्पादाम्भोजीयरेणून् दधानाः ।
अन्योन्यं द्रागाददुस्ते ददुश्चानेकानेहोयोगजैक्यान्नमांसि ॥१४४॥

वाणीनिर्जितपन्नगेश्वरगुरुप्राचेतसा चेतसा
विभ्राणा चरणं मुनेर्विरचितव्यापल्लवं पल्लवम् ।
धुन्वन्तं प्रभया निवारिततमाशङ्कापदं कामदं
रेजेऽन्तेवसतां समष्टिरसुहृत्तत्याहितात्याहिता ॥१४५॥

शुश्राव साऽन्तेवसतां समष्टिः स्वदेशकीयां सुखदां सुवार्ताम् ।
अर्थात् समीपागततः कुतश्चिद् द्विजेन्द्रतः सेवितसर्वतीर्थात् ॥१४६॥

अथ गुरुवरमनवेक्ष्य नितान्तं व्यथितहृदो मुनिवर्यविनेयाः ।
कथमपि विदिततदीयसुवार्ताः समधिगताः किल केरलदेशान् ॥१४७॥

अत्रान्तरे यतिपतिः प्रसुवोऽन्त्यकृत्यां कृत्वा स्वधर्मपरिपालनसक्तचित्तः ।
आकाशलङ्घिवरकेरमहीरुहेषु श्रीकेरलेषु मुनिरास्त चरन् विरक्तः ॥१४८॥

विचरन्नथ केरलेषु विष्वङ्गनिजशिष्यागमनं निरीक्ष्य मौनी ।
विनयेन महासुरालयेशं विनयन्नस्तुत निस्तुलानुभावः ॥१४९॥

सदसत्त्वविमुक्तया प्रकृत्या चिदचिद्रूपमिदं जगद्विचित्रम् ।
कुरुषे जगदीश लीलया त्वं परिपूर्णस्य न हि प्रयोजनेच्छा ॥१५०॥

रजसा सृजसीश सत्त्ववृत्तिस्त्रिजगद्रक्षसि तामसः क्षिणोषि ।
बहुधा परिकीर्त्यसे च स त्वं विधिवैकुण्ठशिवाभिधाभिरेकः ॥१५१॥

विविधेषु जलाशयेषु सोऽयं सवितेव प्रतिबिम्बितस्वभावः ।
बहुरूपमिदं प्रविश्य विश्वं स्वयमेकोऽपि भवान् विभात्यनेकः ॥१५२॥

इति देवमभिष्टुवन् विशिष्टस्तुतितोऽसौ सुरसद्मसन्निविष्टः ।
चिरकालवियोगदीनचित्तैः शिरसा शिष्यगणैरथो ववन्दे ॥१५३॥

गुरुणा कुशलानुयोगपूर्वं सदयं शिष्यगणेषु सान्त्वितेषु ।
अतिदीनमनाः शनैरवादीदजहद्गद्गदिकं स पद्मपादः ॥१५४॥

भगवन्नभिगम्य रङ्गनाथं पथि पद्माक्षमहं निवर्तमानः ।
बहुधाविहितानुनीतिनीतो बत पूर्वाश्रममातुलेन गेहम् ॥१५५॥

अहमस्य पुरो भिदावदेन्दोरपि पूर्वाश्रमवासनानुबन्धात् ।
अपठं भवदीयभाष्यटीकामजयं चात्र कृतानुयोगमेनम् ॥१५६॥

दग्धमुद्रमुखमुद्रणमन्त्रैर्ध्वस्ततर्कगुरुकापिलतन्त्रैः
वर्मितो निगमसारसुधाक्तैर्मातुलं तमजयं तव सूक्तैः ॥१५७॥

खड्डाखड्गिविहारकल्पितरुजं काणादसेनामुखे
शस्त्राशस्त्रिकृतं श्रमं च विषमं पश्यत्पदानां पदे ।
यष्टीयष्टिभवं च कापिलबले खेदं मुने तावकैः
सृक्तैर्यौक्तिकवंशमौक्तिकमयैर्नाऽऽपद्यते वर्मितः ॥१५८॥

अथ गूढहृदो यथापुरं मामभिनन्द्याऽऽहितसत्क्रियस्य तस्य ।
अघिसद्म निधाय भाष्यटीकामहमस्याऽऽयमशङ्कितो निशायाम् ॥१५९॥

युगपर्ययनृत्यदुग्रफालज्वलनज्वालकरालकीलजालः ।
दहनोऽधिनिशीथमस्य धाम्ना बत टीकामपि भस्मसादकार्षीत् ॥१६०॥

अदहत्स्वगृहं स्वयं हताशो विमतग्रन्थमसौ विदग्धुकामः ।
मतिमान्द्यकरं गरं च भैक्षे व्यधितास्येति विजृम्भते स्म वार्ता ॥१६१॥

अधुना घिषणा यथापुरं नो विधुनाना विशयं प्रसादमेति ।
विषमा पुनरीदृशी दशा नः किमु युक्ता भवदङ्घ्रिकिङ्कराणाम् ॥१६२॥

गुरुवर तव या भाष्यवरेण्ये व्यरचि मया ललिता किल वृत्तिः ।
निरतिशयोज्ज्वलयुक्तियुता सा पथि किल हा विननाश कृशानौ ॥१६३॥

प्रयतेऽहं पुनरेव यदा तां प्रविधातुं बहुधाकृतयत्नः ।
न यथापूर्वमुपक्रमते ताः पटुयुक्तीर्भगवन्मम बुद्धिः ॥१६४॥

कृपापारावारं तव चरणकोणाग्रशरणं
गता दीना दुनाः कति कति न सर्वेश्वरपदम् ।
गुरो मन्तुर्नन्तुः क इव मम पापांश इति चे-
न्मृषा मा भाषिष्ठाः पदकमलचिन्तावघिरसौ ॥१६५॥

इति वादिनमेनमार्यपादः करुणापूरकरम्भितान्तरङ्गः ।
अमृताब्धिसखैरपास्तमोहैर्वचनैः सान्त्वयति स्म वल्गुबन्धैः ॥१६६॥

विषमो बत कर्मणां विपाको विषमोहोपमदुर्निवार एषः ।
विदितः प्रथमं मयाऽयमर्थः कथितश्चाङ्ग सुरेशदेशिकाय ॥१६७॥

पूर्वं श‍ृङ्गक्ष्माघरे मत्समीपे प्रेम्णा याऽसौ वाचिता पञ्चपादी ।
सा मे चित्तान्नापयात्यद्य शोको याताच्छीघ्रं तां लिखेत्याख्यदार्यः ॥१६८॥

आश्वास्येत्थं जलजचरणं भाष्यकृत्पञ्चपादी-
माचख्यौ तां कृतिमुपहितां पूर्वयैवाऽऽनुपूर्व्या ।
नैतच्चित्रं परमपुरुषेऽव्याहतज्ञानशक्तौ
तस्मिन् मृले त्रिभुवनगुरौ सर्वविद्यामवृत्तेः ॥१६९॥

प्रसभं स विलिख्य पञ्चपादीं परमानन्दभरेण पद्मवादः ।
उदतिष्ठदतिष्ठदभ्यरोदीत् पुनरुद्रायति तु स्म नृत्यति स्म ॥१७०॥

कविताकुशलोऽथ केरलक्ष्माकमनः कश्चन राजशेखराख्यः ।
मुनिवर्यममुं मुदं वितेने निजकौटीरनिघृष्टपन्नखाग्र्यः ॥१७१॥

प्रथते किमु नाटकत्रयी सेत्यमुना संयमिना ततो नियुक्तः ।
अयमुत्तरमाददे प्रमादादनले साऽऽहुतितामुपागतेति ॥१७२॥

मुखतः पठितां मुनीन्दुना तां विलिखन्नेष विसिष्मियेऽथ भूपः ।
वद किं करवाणि किङ्करोऽहं वरदेति प्रणमन् व्यजिज्ञपच्च ॥१७३॥

नृप कालटिनामकाग्रहारा द्विजकर्मानधिकारिणोऽद्य शप्ताः ।
भवताऽपि तथैव ते विधेया बत पापा इति देशिकोऽशिषत्तम् ॥१७४॥

पद्माङ्घ्रौ प्रतिपद्य नष्टविटतिं तुष्टे पुनः केरल-
क्ष्मापालो यतिसार्वभौमसविधं प्राप्य प्रणम्याञ्जसा ।
लब्ध्वा तस्य मुखात् स्वनाटकवराण्यानन्दपाथोनिधौ
मज्जंस्तत्पदपद्मयुग्ममनिशं ध्यायन् प्रतस्थे पुरीम् ॥१७५॥

इति श्रीमाधवीये तत्तीर्थयात्राटनार्थकः ।
सङ्क्षेपशङ्करजये सर्गोऽजनि चतुर्दशः ॥१४॥

आदितः लोकाः १५६२ ।

N/A

References : N/A
Last Updated : January 23, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP