संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|शङ्करदिग्विजयम्| अथ अथाष्टमः सर्गः शङ्करदिग्विजयम् अनुक्रमणिका अथ प्रथमः सर्गः अथ द्वितीयः सर्गः अथ तृतीयः सर्गः अथ चतुर्थः सर्गः अथ पञ्चमः सर्गः अथ षष्ठः सर्गः अथ सप्तमः सर्गः अथ अथाष्टमः सर्गः अथ नवमः सर्गः अथ दशमः सर्गः अथ एकादशः सर्गः अथ द्वादशः सर्गः अथ त्रयोदशः सर्गः अथ चतुर्दशः सर्गः अथ पञ्चदशः सर्गः अथ षोडशः सर्गः शङ्करदिग्विजयम् - अथ अथाष्टमः सर्गः शङ्करदिग्विजयम् Tags : shankar digvijayशङ्कर दिग्विजय श्रीमदाचार्य मण्डनमिश्रसंवादः Translation - भाषांतर अथ प्रतस्थे भगवान् प्रयागात्तं मण्डनं पण्डितमाशु जेतुम् ।गच्छन् खसृत्या पुरमालुलोके माहिष्मतीं मण्डनमण्डितां सः ॥१॥अवातरद्रत्नविचित्रवप्रां विलोक्य तां विस्मितमानसोऽसौ ।पुराणवत्पुष्करवर्तनीतः पुरोपकण्ठस्थवने मनोज्ञे ॥२॥प्रफुल्लराजीववने विहारी तरङ्गरिङ्गत्कणशीकरार्द्रः ।रेवामरुत्कम्पितसालमालः श्रमापहृद् भाष्यकृतं सिषेवे ॥३॥तस्मिन् स विश्रम्य कृताहिकः सन् खस्वस्तिकारोहणशालिनीने ।गच्छन्नसौ मण्डनपण्डितौको दासीस्तदीयाः स ददर्श मार्गे ॥४॥कुत्रालयो मण्डनपण्डितस्येत्येताः स पप्रच्छ जलाय गन्त्रीः ।ताश्चापि दृष्ट्वाऽद्भुतशङ्करं तं सन्तोषवत्यो ददुरुत्तरं स्म ॥५॥स्वतःप्रमाणं परतः प्रमाणं कीराङ्गना यत्र गिरं गिरन्ति ।द्वारस्थनीडान्तरसन्निरुद्धा जानीहि तन्मण्डनपण्डितौकः ॥६॥फलप्रदं कर्म फलप्रदोऽजः कीराङ्गना यत्र गिरं गिरन्ति ।द्वारस्थनीडान्तरसन्निरुद्धा जानीहि तन्मण्डनपण्डितौकः ॥७॥जगद् ध्रुवं स्याज्जगदध्रुवं स्यात्कीराङ्गना यत्र गिरं गिरन्ति ।द्वारस्थनीडान्तरसन्निरुद्धा जानीहि तन्मण्डनपण्डितौकः ॥८॥पीत्वा तदुक्तीरथ तस्य गेहाद्गत्वा बहिः सद्म कवाटगुप्तम् ।दुर्वेशमालोच्य स योगशक्त्या व्योमाध्वनाऽवातरदङ्गणान्तः ॥९॥तदा स लेखेन्द्रनिकेतनाभं स्फुरन्मरुञ्चञ्चलकेतनाभम् ।समग्रमालोकत मण्डनस्य निवेशनं भूतलमण्डनस्य ॥१०॥सौधाग्रसञ्च्छन्ननभोवकाशं प्रविश्य तत्प्राप्य कवेः सकाशम् ।विद्याविशेषात्तयशःप्रकाशं ददर्श तं पद्मजसन्निकाशम् ॥११॥तपोमहिम्नैव तपोनिधानं सजैमिनिं सत्यवतीतनुजम् ।यथाविधि श्राद्धविधौ निमन्त्र्य तत्पादपद्मान्यवनेजयन्तम् ॥१२॥तत्रान्तरिक्षादवतीर्य योगिवर्यः समागम्य यथार्हमेषः ।द्वैपायनं जैमिनिमप्युभाभ्यां ताभ्यां सहर्षं प्रतिनन्दितोऽभूत् ॥१३॥अथ द्युमार्गादवतीर्णमन्तिके मुन्योः स्थितं ज्ञानशिखोपवीतिनम् ।संन्यास्यसावित्यवगत्य सोऽभवत्प्रवृत्तिशास्त्रैकरतोऽपि कोपनः ॥१४॥तदाऽतिरुष्टस्य गृहाश्रमेशितुर्यतीश्वरस्यापि कुतूहलम्भृतः ।क्रमात्किलैवं बुधशस्तयोस्तयोः प्रश्नोत्तराण्यासुरथोत्तरोत्तरम् ॥१५॥कुतो मुण्ड्यागलामुण्डी पन्थास्ते पृच्छयते मया ।किमाह पन्थास्त्वन्माता मुण्डेत्याह तथैव हि ॥१६॥पन्थानं त्वमपृच्छस्त्वां पन्थाः प्रत्याह मण्डन ।त्वन्मातेत्यत्र शब्दोऽयं न मां ब्रूयादपृच्छकम् ॥१७॥अहो पीता किमु सुरा नैव श्वेता यतः स्मर ।किं त्वं जानासि तद्वर्णमहं वर्ण भवान् रसम् ॥१८॥मत्तो जातः कलञ्जाशी विपरीतानि भाषते ।सत्यं ब्रवीति पितृवत्त्वत्तो जातः कलञ्जभुक् ॥१९॥कन्थां वहसि दुर्बुद्धे गर्दभेनापि दुर्वहाम् ।शिखायज्ञोपत्रीताभ्यां कस्ते भारो भविष्यति ॥२०॥कन्थां वहामि दुर्बुद्धे तव पित्रापि दुर्वहाम् ।शिखायज्ञोपवीताभ्यां श्रुतेर्भारो भविष्यति ॥२१॥त्यक्त्वा पाणिगृहीतीं स्वामशक्त्या परिरक्षणे ।शिष्यपुस्तकभारेच्छोर्व्याख्याता ब्रह्मनिष्ठता ॥२२॥गुरुशुश्रूषणालस्यात्समावर्त्य गुरोः कुलात् ।स्त्रियः शुश्रूषमाणस्य व्याख्याता कर्मनिष्ठता ॥२३॥स्थितोऽसि योषितां गर्भे ताभिरेव विवर्धितः ।अहो कृतघ्नता कृताघ्नता(?) मूर्ख कथं ता एवं निन्दसि ॥२४॥यासां स्तन्यं त्वया पीतं यासां जातोऽसि योनितः ।तासु मूर्खतम स्त्रीषु पशुवद्रमसे कथम् ॥२५॥वीरहत्यामवाप्तोऽसि वह्नीनुद्दास्य यत्नतःआत्महत्यामवाप्तस्त्वमविदित्वा परं पदम् ॥२६॥दौवारिकान्वञ्चयित्वा कथं स्तेनवदागतः ।भिक्षुभ्योऽन्नमदत्वा त्वं स्तेनवद्भक्ष्यसे कथम् ॥२७॥कर्मकाले न सम्भाष्य अहं मूर्खेण सम्प्रति ।अहो प्रकटितं ज्ञानं यतिभङ्गेन भाषिणा ॥२८॥यतिभङ्गे प्रवृत्तस्य यतिभङ्गो न दोषभाक् ।यतिभङ्गे प्रवृत्तस्य पञ्चम्यन्तं समस्यताम् ॥२९॥क्व ब्रह्म क्व च दुर्मेधाः क्व संन्यासः क्व वा कलिः ।स्वान्नभक्षकामेन वेषोऽयं योगिनां धृतः ॥३०॥क्व स्वर्गः क्व दुराचारः क्वाग्निहोत्रं क्व वा कलिः ।मन्ये मैथुनकामेन वेषोऽयं कर्मिणां धृतः ॥३१॥इत्यादि दुर्वाक्यगणं ब्रुवाणे रोषेण साऽहङ्कृतिविश्वरूपे ।श्रीशङ्करे वक्तरि तस्य तस्योत्तरं च कौतूहलतश्च चारु ॥३२॥तं मण्डनं सम्मितजैमिनीक्षितं व्यासोऽब्रवीज्जल्पसि वत्स दुर्वचः ।आचारणा नेयमनिन्दितात्मनां ज्ञातात्मतत्त्वं यमिनं धुतैषणम् ॥३३॥अभ्यागतोऽसौ स्वयमेव विष्णुरित्येव मत्वाऽऽशु निमन्त्रय त्वम् ।इत्याश्रवं ज्ञातविधिं प्रतीतं सुध्यग्रणीः साध्वशिषन्मुनिस्तम् ॥३४॥अथोपसंस्पृश्य जलं स शान्तः ससम्भ्रमं मण्डनपण्डितोऽपि ।व्यासाज्ञया शास्त्रविदर्चयित्वा न्यमन्त्रयद्भैक्ष्यकृते महर्षिम् ॥३५॥स चाब्रवीत्सौम्य विवादभिक्षामिच्छन् भवत्सन्निधिमागतोऽस्मि ।साऽन्योन्यशिष्यत्वपणा प्रदेया नास्त्यादरः प्राकृतभक्तभैक्ष्ये ॥३६॥मम न किञ्चिदपि ध्रुवमीप्सितं श्रुतिशिरःपथविस्तृतिमन्तरा ।अवहितेन मखेष्ववधीरितः स भवता भवतापहिमद्युतिः ॥३७॥जगति सम्प्रति तं प्रथयाम्यहं समभिभूय समस्तविवादिनम् ।त्वमपि संश्रय मे मतमुत्तमं विगद वा वद वाऽस्मि जितस्त्विति ॥३८॥इति यतिप्रवरस्य निशम्य तद्वचनमर्थवदागत विस्मयः ।परिभवेन नवेन महायशाः स निजगौ निजगौरवमास्थितः ॥३९॥अपि सहस्रमुखे फणिनामके न विजितस्त्विति जातु फणत्ययम् ।न च विहाय मतं श्रुतिसम्मतं मुनिमते निपतेत्परिकल्पिते ॥४०॥अपि कदाचिदुदेष्यति कोविदः सरसवादकथाऽपि भविष्यति ।इति कुतूहलिनो मम सर्वदा जयमहोऽयमहो स्वयमागतः ॥४१॥भवतु सम्प्रति वादकथाऽऽत्रयोः फलतु पुष्कलशास्त्रपरिश्रमः ।उपनता स्वयमेव न गृह्यते नवसुधा वसुधावसथेन किम् ॥४२॥अयमहं यमहन्तुरपि स्वयं शमयिता मयि तावकसद्गिराम् ।सुकलहं कलहंसकलाभृतां दिश सुधांशुसुधामलसत्तनो ॥४३॥अपि तु दुर्हृदयस्मयकाननक्षतिकठोरकुठारधुरन्धरा ।न पटुता मम ते श्रवणान्तिकं ननु गताऽनुगताखिलदर्शना ॥४४॥अत्यल्पमेतद्भवतेरितं मुने भैक्ष्यं प्रकुर्वे यदि वाददित्सुता ।गतोद्यमोऽहं श्रुतवादवार्तया चिरेप्सितेयं वदिता न कश्चन ॥४५॥वादं करिष्यामि न सन्दिहेऽत्र जयाजयौ नौ वदिता न कश्चित् ।न कण्ठशोषैकफलो विवादो मिथो जिगीषु कुरुतस्तु वादम् ॥४६॥वादे हि वादिप्रतिवादिनौ द्वौ विपक्षपक्षग्रहणं विधत्तः ।का नौ प्रतिज्ञा वदतोश्च तस्यां किं मानमिष्टं वद कः स्वभावः ॥४७॥कः पार्ष्णिकोऽहं गृहमेधिसत्तमस्त्वं भिक्षुराजो वदतामनुत्तमः ।जयाजयो नौ सुपणौ विधीयतां ततः परं साधु वदाव सुस्मितौ ॥४८॥अद्यातिघन्योऽस्मि यदार्यपादो मया सहाभ्यर्थयते विवादम् ।भविष्यते वादकथाऽपरेद्युर्माध्याह्निकिं सम्प्रति कर्म कुर्याम् ॥४९॥तथेति सूक्ते स्मितशङ्करेण भविष्यते वादकथा श्व एव ।तत्साक्षिभावं व्रजतं मुनीन्द्रावित्यर्थयद्बादरजैमिनी सः ॥५०॥विधाय भार्या विदुषीं सदस्यां विधीयतां वादकथा सुधीन्द्र ।इत्थं सरस्वत्यवतारताज्ञौ तद्धर्मपत्न्यास्तमभाषिषाताम् ॥५१॥अथानुमोद्याभिहितं मुनिभ्यां स मण्डनार्यः प्रकृतं चिकीर्षुः ।आनर्च दैवोपगतान्मुनीन्द्रानग्नीनिव त्रीन्मुनिशेखरांस्तान् ॥५२॥भुक्त्वोपविष्टस्य मुनित्रयस्य श्रमापनोदाय तदीयशिष्यौ ।अतिष्ठतां पार्श्वगतौ वटू द्वौ सचामरौ वीजनमाचरन्तौ ॥५३॥अथ क्रियान्ते किल सुपविष्टास्त्रय्यन्तवेद्यार्थविदस्त्रयोऽपी ।अमन्त्रयंश्चारु परस्परं ते मुहूर्तमात्रं किमपि प्रहृष्टाः ॥५४॥तेषां द्विजेन्द्रालयनिर्गतानामदर्शनं जग्मतुरञ्जसा द्वौ ।रेवातटे रम्यकदम्बजाले देवालयेऽत्र स्थितवांस्तृतीयः ॥५५॥इति स यतिवरेण्यो दैवयोगाद्गुरूणांइतरजनदुरापं दर्शनं प्राप्य हृष्टः ।तदुदितवचनानि श्रावयन्नात्मशिष्यान्अनयदमृततुल्यान्यात्मवित्तां त्रियामाम् ॥५६॥प्रातः शोणसरोजबान्धवरुचिप्रद्योतिते व्योमनिप्रख्यातः स विधाय कर्म नियतं प्रज्ञावतामग्रणीः ।साकं शिष्यवरैः प्रपद्य सदनं सन्मण्डितं माण्डनंवादायोपविवेश पण्डितसभामध्ये मुनिध्येर्ध्येयवित् ॥५७॥ततः समादिश्य सदस्यतायां सघर्मिणीं मण्डनपण्डितोऽपिअ शारदां नाम समस्त विद्याविशारदां वादसमुत्सुकोऽभूत् ॥५८।पत्या नियुक्ता पतिदेवता सा सदस्यभावे सुदती चकाशे ।तयोर्विवेक्तुं श्रुततारतम्यं समागता संसदि भारतीव ॥५९॥प्रवृद्धवादोत्सुकतां तदीयां विज्ञाय विज्ञः प्रथमं यतीन्द्रः ।परावरज्ञः स परावरैक्यपरां प्रतिज्ञामकरोत्स्वकीयाम् ॥६०॥ब्रह्मैकं परमार्थसच्चिदमलं विश्वमप्रञ्चात्मनाशुक्ती रूप्यपरात्मनेव बहलाज्ञानावृतं भासते ।तज्ज्ञानान्निखिलमप्रपञ्चनिलया स्वात्मव्यवस्था परंनिर्वाणं जनिमुक्तमभ्युपगतं मानं श्रुतेर्मस्तकम् ॥६१॥बाढं जये यदि पराजयभागहं स्यां संन्यासमङ्ग परिहत्य कषायचेलम् ।शुक्लं वसीय वसनं द्वयभारतीयं वादे जयाजयफलप्रतिदीपिकाऽस्तु ॥६२॥इत्थं प्रतिज्ञां कृतवत्युदारां श्रीशङ्करे भिक्षुत्ररे स्वकीयाम् ।स विश्वरूपो गृहमेधिवर्यश्चक्रे प्रतिज्ञां स्वमतप्रतिष्ठाम् ॥६३॥वेदान्ता न प्रमाणं चितिवपुषि पदे तत्र सङ्गत्ययोगा-त्पूर्वो भागः प्रमाणं पदचयगमिते कार्यवस्तुन्यशेषे ।शब्दानां कार्यमा प्रति समधिगता शक्तिरभ्युन्नतानांकर्मभ्यो मुक्तिरिष्टा तदिह तनुभृतामाऽऽयुषः स्यात्समाप्तेः ॥६४॥वादे कृतेऽस्मिन्यदि मे जयान्यस्त्वयोदितात्स्याद्विपरीतभावः ।येयं त्वयाऽभूद्गदिता प्रसाक्ष्ये जानाति चेत्सा भविता वधूर्मे ॥६५॥जेतुः पराजित इहाश्रममादददीतेत्येतौ मिथः कृतपणौ यतिविश्वरूपौ ।अम्बामुदारधिषणामभिषिच्य साक्ष्ये जल्पं वितेनतुरथो जयदत्तदृष्टी ॥६६॥आवश्यकं परिसमाप्य दिने दिने तौ वादं समं व्यतनुतां किल सर्ववेदौ ।एवं विजेतुमनसोरुपविष्टयोस्तां मालां गले न्यधितसोभयभारतीयम् ॥६७॥माला यदा मलिनभावमुपैति कण्ठे यस्यापि तस्य विजयेतरनिश्चयः स्यात् ।उक्त्तवा गृहं गतवती गृहकर्मसक्ता भिक्षाशने पिचरितुं गृहिमस्करिभ्याम् ॥६८॥अन्योन्यसञ्जयफले विहितादरौ तौ वादं विवादपरिनिर्णयमातनिष्टाम् ।ब्रह्मादयः सुरवरा अपि वाहनस्थाः श्रोतुं तदीयसदने स्थितवन्त ऊर्ध्वम् ॥६९॥ततस्तयोरास महान्विवादः सदस्यविश्राणितसाधुवादःस्वपक्षसाक्षीकृतसर्ववेदः परस्परस्यापि कृतप्रमोदः ॥७०॥दिने दिने चाधिगतप्रकर्षो भूरीभवत्पण्डितसन्निकर्षःअन्योन्यभङ्गाहिततीव्रतर्षस्तथाऽपि दुरीकृतजन्यमर्षः ॥७१॥दिने दिने वासरमध्यमे सा ब्रूते पतिं भोजनकालमेव ।समेत्य भिक्षुं समयं च भैक्ष्ये दिनान्यभूम्निति पञ्चषाणि ॥७२॥अन्योन्यमुत्तरमखण्डयतां प्रगल्-भंबद्धासनौ स्मितविकासिमुखारविन्दौन स्वेदकम्पगगनेक्षणशालिनौ वान क्रोधवाक्छलमवादि निरुत्तराभ्याम् ॥७३॥ततो यतिक्ष्माभृदवेक्ष्य दाक्ष्यं क्षोदक्षमं तस्य विचक्षणस्य ।चिक्षेप तं क्षोभित सर्वपक्षं विद्वत्समक्षाप्रतिभातकक्ष्यम् ॥७४॥ततः स्वसिद्धान्तसमर्थनाय प्रागल्भ्यहीनोऽपि स सभ्यमुख्यः ।जगाद वेदान्तवचःप्रसिद्धमद्वैतसिद्धान्तमपाकरिष्णुः ॥७५॥भो भो यतिक्ष्माधिपते भवद्भिर्जीवेशयोर्वास्तवमैकरूप्यम् ।विशुद्धमङ्गीक्रियते हि तत्र प्रमाणमेवं न वयं प्रतीमः ॥७६॥स प्रत्यवादीदिदमेव मानं यच्छ्वेतकेतुप्रमुखान्विनेयान् ।उद्दालकाद्या गुरवो महान्तः सङ्ग्राहयन्त्यात्मतया परेशम् ॥७७॥वेदावसानेषु हि तत्त्वमादिवचांसि जप्तान्यघमर्पणानि ।हुम्फण्मुखानीव वचांसि योगिन्नेषां विवक्षाऽस्ति कुहस्विदर्थे ॥७८॥अर्थाप्रतीतौ किल हुम्फडादेर्जपोपयोगित्वमभाणि विज्ञैः ।अर्थप्रतीतौ स्फुटमत्र सत्यां कथं भवेत्प्राज्ञ जपार्थतैव ॥७९॥आपाततस्तत्वमसीति वाक्याद्यतीश जीवेश्वरयोरभेदः ।प्रतीयतेऽथाऽपि मखादिकर्तृप्रशंसया स्याद्विधिशेष एव ॥८०॥क्रत्वङ्गयूपादिकमर्यमादिदेवात्मना वाक्यगणः प्रशंसन् ।शेषः क्रियाकाण्डगतो यदि स्यात्काण्डान्तरस्थोऽपि भवेत्कथं सः ॥८१॥तर्ह्यस्तु जीवे परमात्मदृष्टिविधायकः कर्मसमृद्धयेऽर्हन् ।अब्रह्मणि ब्रह्मधियं विधत्ते यथा मनोऽन्नार्कनभस्वदादौ ॥८२॥संश्रूयतेऽन्यत्र यथा लिङादिर्विधायको ब्रह्मविभावनाय ।तथा विधेरश्रवणान्मनीषिन् सञ्जाघटीत्यत्र कथं विधानम् ॥८३॥यद्वत्प्रतिष्ठाफलदर्शनेन विधिर्यतीनां वर रात्रिसत्रे ।प्रकल्प्यते तद्वदिहापि मुक्तिफलश्रुतेः कल्पयितुं स युक्तः ॥८४॥तर्हि क्रियाजन्यतया विमुक्तिः स्वर्गादिवद्धन्त विनश्वरा स्यात् ।उपासना कर्तुमकर्तुमन्यथा वा कर्तुमर्दा मनसः क्रियैव ॥८५॥मा भूदिदं तस्वमसीति वाक्यमुपासनापर्यवसायि कामम् ।किन्त्वस्य जीवस्य परेण साम्यप्रत्यायकं सत्तम बोभवीतु ॥८६॥किं चेतनत्वेन विवक्ति साम्यं सार्वज्ञ्यसार्वात्म्यमुखैर्गुणैर्वा ।आद्ये प्रसिद्धं न खलूपदेश्यमन्ते स्वसिद्धान्तविरुद्धता स्यात् ॥८७॥नित्यत्वमात्रेणं मुने परात्मगुणोपमानैः सुखबोधपूर्वैः ।गुणैरविद्यावृतितोऽप्रतीतैः साम्यं ब्रवीत्वस्य ततो न दोषः ॥८८॥यद्येवमेतस्य परत्वमेव प्रत्याययत्वत्र दुराग्रहः कः ।त्वयैव तस्य प्रतिभासशङ्का विद्वन्नविद्यावरणान्निरस्ता ॥८९॥भोश्चेतनत्वेन शरीरिसाम्यमावेद्यतापस्य जगत्प्रसृतेः ।चिदुत्थितत्वेन परोदितस्याप्यणुप्रधानप्रभृतेर्निरासः ॥९०॥हन्तैवमस्तीति तदा प्रयोगः स्यात्त्वन्मते तत्त्वमसीति न स्यात् ।तदैक्षतेत्यत्र जडत्वशङ्काव्यावर्तनाच्चात्र पुनर्न चोद्यम् ॥९१॥न त्वेवमप्यैक्यपरत्वमस्य प्रत्यक्षपूर्वप्रमितिप्रकोपात् ।न युज्यते तज्जपमात्रयोगिस्वाध्यायविध्याश्रितमभ्युपेयम् ॥९२॥अक्षेण चेद्भेदमितिस्तदा स्यादभेदवादिश्रुतिवाक्यबाघः ।असन्निकर्षान्न भवेद्धि भेदप्रमैव तेनास्य कुतो विरोधः ॥९३॥भिन्नोऽहमीशादिति भासते हि भेदस्य जीवात्मविशेषणत्वम् ।तत्सन्निकर्षोऽस्त्वथ सम्प्रयोगाभावेऽपि भेदेन्द्रिययोर्मनीषिन् ॥९४॥अतिप्रसक्तेर्न तु केवलस्य विशेषणत्वस्य तदभ्युपेयम् ।भेदाश्रये हीन्द्रियसन्निकृष्टे न सन्निकृष्टत्वमिहात्मनोऽस्ति ॥९५॥भेदाश्रयात्मेन्द्रियसन्निकर्षो नेत्युक्तमेतच्चतुरं न यस्मात् ।चित्तात्मनोर्द्रव्यतया द्वयोरप्यस्त्येव संयोगसमाश्रयत्वम् ॥९६॥आत्मा विभुः स्वादथवाऽणुमात्रः संयोगिता नोभयथाऽपि युक्ता ।दृष्टा हि सा सावयवस्य लाके संयोगिता सावयवेन योगिन् ॥९७॥मनोऽक्षमित्यभ्युपगम्य भेदासङ्गित्वमुक्तं परमार्थतस्तु ।साहाय्यकृल्लोचनपूर्वकस्य दीपादिवन्नेन्द्रियमेव चित्तम् ॥९८॥भेदप्रमा नेन्द्रियजाऽस्तु तर्हि साक्षिस्वरूपैव तथाऽपि योगिन् ।तया विरोधात्परमात्मजीवाभेदं कथं बोधयितुं प्रमाणम् ॥९९॥प्रत्यक्षमात्मेश्वरयोरविद्यामायायुजोद्योतयति प्रभेदम् ।श्रुतिस्तयोः केवलयोरभेदं भिन्नाश्रयत्वान्न तयोर्विरोधः ॥१००॥स्याद्वा विरोधस्तदपि प्रवृत्तं प्रत्यक्षमग्रेऽबलमेव बाध्यम् ।प्राबल्यवत्या चरमप्रवृत्या श्रुत्याह्यपच्छेदनयोक्तरीत्या ॥१०१॥नन्वेवमप्यस्त्यनुमानबाघोऽभेदश्रुतेः संयमिचक्रवर्तिन् ।घटादिवद्ब्रह्मनिरूपितेन भेदेन युक्तोऽयमसर्ववित्वात् ॥१०२॥किमेष भेदः परमार्थभूतः प्रसाध्यते काल्पनिकोऽथवाऽऽद्ये ।दृष्टान्तहानिश्चरमे तु विद्वन्नूरीकृतोऽस्माभिरसाधनीयः ॥१०३॥स्वप्रत्ययाबाध्यभिदाश्रयत्वं साध्यं घटादौ च तदस्ति योगिन् ।त्वयाऽऽत्मबोधेन भिदा न बाध्येत्यनभ्युपेतेति न कोऽपि दोषः ॥१०४॥ननु स्वशब्देन सुखादिमान्वा विवक्षितस्तद्विधुरोऽथवाऽऽत्मा ।आद्योऽस्मदिष्टं ननु साध्यमन्त्ये दृष्टान्तहानिः पुनरेव ते स्यात् ॥१०५॥योगिन्ननौपाधिकभेदवत्त्वं विवक्षितं साध्यमिह त्वदिष्टः ।औपाधिकस्त्वीश्वरजीवभेदो घटेशभेदो निरुपाधिकश्च ॥१०६॥घटेशभेदेऽप्युपधिर्ह्यविद्या तवानुमानेषु जडत्वमेव ।चित्वादभिन्नः परवत्परस्मादात्मेति वाऽत्र प्रतिपक्षहेतुः ॥१०७॥घर्मिप्रमाबाध्यशरीरिभेदो ह्यसंसृतौ ब्रह्मणि साध्यमिष्टम् ।त्वयेष्यते ब्रह्मधियाऽऽत्मभेदो बाध्यो घटादिप्रमया त्वबाध्यः ॥१०८॥किं कृत्स्नधर्मिप्रमया न बाध्यः किं वा स यत्किञ्चनधर्मिबोधात् ।घटाधिके ब्रह्मणि चात्मभेदस्यैक्यात् पुनः स्यान्ननु पूर्वदोषः ॥१०९॥किञ्चागुणो वा सगुणो मनीषिन्विवक्ष्यते धर्मिपदेन नान्त्यः ।भेदस्य तद्द्बुध्यविबाध्यतेष्टेर्नाद्यश्च तत्रोभयथाऽपि दोषात् ॥११०॥किं निर्विशेष प्रमितं न वाऽन्त्ये प्राप्ताऽऽश्रयासिद्धिरथाद्यकल्पे ।शरीर्यभेदेन परस्य सिद्धेः प्राप्न्ति धर्मिग्रहमानकोषः ॥१११॥भो द्वा ``सुपर्णा सयुजा सखाये''त्याद्या श्रुतिर्भेदमुदीरयन्ती ।जीवेशयोः पिप्पलभोक्त्रभोक्त्र्स्तयोरभेदश्रुतिबाधिकाऽस्तु ॥११२॥प्रत्यक्षसिद्धे विफले परात्मभेदे श्रुतिर्नो नयवित्प्रमाणम् ।स्यादन्यथा मानमतत्परोऽपि स्वार्थेऽर्थवादः सकलोऽपि विद्वन् ॥११३॥स्मृतिप्रसिद्धार्थविबोधि वाक्यं यथेष्यते मूलतया प्रमाणम् ।प्रत्यक्षसिद्धार्थकवाक्यमेवं स्यादेव तन्मूलतया प्रमाणम् ॥११४॥श्रुतिः स्मृतेऽर्थे यदि वेदविद्भिर्भवेन्न तन्मूलतया प्रमाणम् ।कथं भवेद्वेदकथानभिज्ञैर्ज्ञातेऽपि भेदे परजीवयोः सा ॥११५॥जीवेश्वरौ सा वदतीत्युपेत्य प्रावोचमेतत्परमार्थतस्तु ।विविच्य सत्वात्पुरुषं समस्तसंसारराहित्यममुष्य वक्ति ॥११६॥यदीयमाख्यात्यथ सत्त्वजीवौ विहाय सर्वज्ञशरीरभाजौ ।जडस्य भोक्तृत्वमुदाहरन्ती प्रामाण्यमर्हन् कथमश्नुवीत ॥११७॥न चोदनीया वयमत्र विद्वन् यतस्त्वया पैङ्गिरहस्यमेव ।अत्तीति सत्वं त्वभिपश्यति ज्ञ इति स्म सम्यग्विवृणोति मन्त्रम् ॥११८॥शरीरवाची ननु सत्त्वशब्दः क्षेत्रज्ञशब्दः परमात्मवाची ।तत्राप्यतो नान्यपरत्वमस्य वाक्यस्य पैङ्गयोदितवर्त्मनाऽपि ॥११९॥तदेतदित्यादिगिरा हि चित्ते प्रदर्शिता सत्वपदस्य वृत्तिः ।क्षेत्रज्ञशब्दस्य च वृत्तिरुक्ता शारीरके द्रष्टरि तत्र विद्वन् ॥१२०॥येनेति हि स्वप्नदृशिक्रियायाः कर्तोच्यते तत्र स जीव एव ।क्षेत्रज्ञशब्दाभिहितश्च योगिन् स्यात्स्वप्नद्क् सर्वविदीश्वरोऽपि ॥१२१॥तिङप्रत्ययेनाभिहितोऽत्र कर्ता ततस्तृतीया करणेऽभ्युपेया ।द्रष्टा च शारीरतया मनीषिन् विशेष्यते तेन स नेश्वरः स्यात् ॥१२२॥वृत्तिः शरीरे भवतीत्यमुष्मिन्नर्थे हि शारीरपदस्य योगिन् ।तस्मिन् भवन् सर्वगतो महेशः कथं न शारीरपदाभिधेयः ॥१२३॥भवञ्छरीरादितरत्र चेशः कथं च शारीरपदाभिधेयः ।नभः शरीरेऽपि भवत्यथापि न केऽपि शारीरमितीरयन्ति ॥१२४॥यद्येष मन्त्रोऽनभिधाय जीवप्राज्ञौ वदेद्बुद्धिशरीरभाजौ ।अत्तीति भोक्तृत्वमचेतनाया बुद्धेर्वदेत्तर्हि कथं प्रमाणम् ॥१२५॥अदाहकस्याप्ययसः कृशानोराश्लेषणाद्दाहकता यथाऽऽस्ते ।तथैव भोक्तृत्वमचेतनाया बुद्धेरपि स्याच्चिदनुप्रवेशात् ॥१२६॥छायातपौ यद्वद्वतीव भिन्नौ जीवेश्वरौ तद्वदिति ब्रुवाणा ।ऋतं पिबन्ताविति काठकेषु श्रुतिस्त्वभेदश्रुतिबाधिकाऽस्तु ॥१२७॥भेदं वदन्ती व्यवहारसिद्धं न बाघतेऽभेदपरश्रुतिं सा ।एषा त्वपूर्वार्थतया बलिष्ठा भेदश्रुतेः प्रत्युत बाधिका स्यात् ॥१२८॥मानान्तरोपोद्बलिता हि भेदश्रुतिर्बलिष्ठा यमिनां वरेण्य ।तद्बाधितुं सा प्रभवत्यभेदश्रुतिं प्रमाणान्तरबाधितार्थाम् ॥१२९॥प्राबल्यमापादयति श्रुतीनां मानान्तरं नैव बुधाग्रयायिन् ।गतार्थतादानमुखेन तासां दौर्बल्यसम्पादकमेव किन्तु ॥१३०॥इत्याद्या दृढयुक्तिरस्य शुशुभे दत्तानुमोदा गिरांदेव्या तादृशविश्वरूपरभसावष्टम्भमुष्टिन्धया ।भर्तृन्यासविलक्ष्यसूक्तिजननीसाक्षित्वकुक्षिम्भरिःसश्लाघाद्भुतपुष्पवृष्टिलहरी सौगन्ध्यपाणिन्धया ॥१३१॥इत्थं यतिक्षितिपतेरनुमोद्य युक्तिं मालां च मण्डनगले मलिनामवेक्ष्य ।भिक्षार्थमुच्चलतमद्य युवामितीमावाचष्ट तं पुनरुवाच यतीन्द्रमम्बा ॥१३२॥कोपातिरेकवशतः शपता पुरा मां दुर्वाससा तदवधिर्विहितो जयस्ते ।साऽहं यथागतमुपैमि शमिप्रवीरेत्युक्त्वा ससम्भ्रमममुं निजधाम यान्तीम् ॥१३३॥बबन्ध निःशङ्कमरण्यदुर्गामन्त्रेण तां जेतुमना मुनीन्द्रः ।जयोऽपि तस्याः स्वमतैक्यसिद्ध्यै सार्वज्ञतः स्वस्य न मानहेतोः ॥१३४॥जानामि देवीं भवतीं विधातुर्देवस्य भार्यां पुरभित्सगर्भ्याम् ।उपात्तलक्ष्म्यादिविचित्ररूपां गुप्त्यै प्रपञ्चस्य कृतावताराम् ॥१३५॥व्रज जननि तदा त्वं भक्तचूडामणिस्तेनिजपदमनुदास्याम्यभ्यनुज्ञां यदैतुम् ।इति निजवचनेऽस्मिञ्छारदासम्मतेऽसौमुनिरथ मुदितोऽभून्माण्डनं हृद्भुभुत्सुः ॥१३६॥इति श्रीमाधवीये तन्मण्डनार्यकथापरः ।सङ्क्षेपशङ्करजये सर्गोऽसावष्टमोऽभवत् ॥८॥आदितः श्लोकाः ९२० N/A References : N/A Last Updated : January 23, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP