वैशाखमासमाहात्म्यम् - अध्याय २५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रुतदेव उवाच ॥
यास्तिस्रस्तिथयः पुण्या अंतिमाः शुक्लपक्षके ॥
वैशाखमासि राजेंद्र पूर्णिमांताः शुभावहाः ॥१॥
अन्त्याः पुष्करिणीसंज्ञाः सर्वपापक्षयावहाः ॥
माधवे मासि यः पूर्णं स्नानं कर्त्तुं न च क्षमः ॥२॥
तिथिष्वेतासु स स्नायात्पूर्ण मेव फलं लभेत् ॥
सर्वे देवास्त्रयोदश्यां स्थित्वा जंतून्पुनंति हि ॥३॥
पूर्णायाः पर्वतीर्थैश्च विष्णुना सह संस्थिताः ॥
चतुर्दश्यां सयज्ञाश्च देवा एतान्पुनंति हि ॥४॥
ब्रह्मघ्नं वा सुरापं वा सर्वानेतान्पुनंति हि ॥
एकादश्यां पुरा जज्ञे वैशाख्याममृतं शुभम् ॥५॥
द्वादश्यां पालितं तच्च विष्णुना प्रभविष्णुना ॥
त्रयोदश्यां सुधां देवान्पाययामास वै हरिः ॥६॥
जघान च चतुर्दश्यां दैत्यान्देवविरोधिनः ॥
पूर्णायां सर्वदेवानां साम्राज्याऽऽप्तिर्बभूव ह ॥७॥
ततो देवाः सुसंतुष्टा एतासां च वरं ददुः ॥
तिसृणां च तिथीनां वै प्रीत्योत्फुल्लविलोचनाः ॥८॥
एता वैशाख मासस्य तिस्रश्च तिथयः शुभाः ॥
पुत्रपौत्रादिफलदा नराणां पापहानिदाः ॥९॥
योऽस्मिन्मासे च संपूर्णे न स्नातो मनुजाधमः ॥
तिथित्रये तु स स्नात्वा पूर्णमेव फलं लभेत् ॥१०॥
तिथित्रयेप्यकुर्वाणः स्नानदानादिकं नरः ॥
चांडालीं योनिमासाद्य पश्चाद्रौरवमश्नुते ॥११॥
उष्णोदकेन यः स्नाति माधवे च तिथित्रये ॥
रौरवं नरकं याति यावदिंद्राश्चतुर्दश ॥१२॥
पितृन्देवान्समुद्दिश्य दध्यन्नं न ददाति यः ॥
पैशाचीं योनिमासाद्य तिष्ठत्याभूतसंप्लवम् ॥१३॥
प्रवृत्तानां च कामानां माधवे नियमे कृते ॥
अवश्यं विष्णुसायुज्यं युज्यते नाऽत्र संशयः ॥१४॥
आमासं नियमासक्तः कुर्याद्यदि दिनत्रये ॥
तेन पूर्णफलं प्राप्य मोदते विष्णुमंदिरे ॥१५॥
यो वै देवान्पितॄन्विष्णुं गुरुमुद्दिश्य मानवः ॥
न स्नानादि करोत्यद्धाऽमुष्य शापप्रदा वयम् ॥१६॥
निःसंतानो निरायुश्च निःश्रेयस्को भवेदिति ॥
इति देवा वरं दत्त्वा स्वधामानि ययुः पुरा ॥१७॥
तस्मात्तिथित्रयं पुण्यं सर्वाघौघविनाशनम् ॥
अंत्यं पुष्करिणीसंज्ञं पुत्रपौत्रविवर्द्धनम् ॥१८॥
या नारी सुभगाऽऽपूपपायसं पूर्णिमादिने ॥
ब्राह्मणाय सकृद्दद्यात्कीर्तिमंतं सुतं लभेत् ॥१९॥
गीतापाठं तु यः कुर्यादंतिमे च दिनत्रये ॥
दिनेदिनेऽश्वमेधानां फलमेति न संशयः ॥२०॥
सहस्रनामपठनं यः कुर्य्याच्च दिनत्रये ॥
तस्य पुण्यफलं वक्तुं कः शक्तो दिवि वा भुवि ॥२१॥
सहस्रनामभिर्देवं पूर्णायां मधुसूदनम् ॥
पयसा स्नाप्य वै याति विष्णुलोकमकल्मषम् ॥२२॥
समस्तविभवैर्यस्तु पूजयेन्मधुसूदनम् ॥
न तस्य लोकाः क्षीयन्ते युग कल्पादि व्यत्यये ॥२३॥
अस्नात्वा चाप्यदत्त्वा च वैशाखश्च मतो यदि ॥
स ब्रह्महा गुरुघ्नश्च पितॄणां घातकस्तथा ॥२४॥
श्लोकार्द्धं श्लोकपादं वा नित्यं भागवतोद्भवम् ॥
वैशाखे च पठन्मर्त्यो ब्रह्मत्वं चोपपद्यते ॥२५॥
यो वै भागवतं शास्त्रं शृणोत्येतद्दिनत्रये ॥
न पापैर्लिप्यते क्वाऽपि पद्मपत्रमिवांभसा ॥२६॥
देवत्वं मनुजैः प्राप्तं कैश्चित्सिद्धत्वमेव च ॥
कैश्चित्प्राप्तो ब्रह्मभावो दिनत्रयनिषेवणात् ॥२७॥
ब्रह्मज्ञानेन वै मुक्तिः प्रयागमरणेन वा ॥
अथवा मासि वैशाखे नियमेन जलाप्लुतेः ॥२८॥
नीलवृषं समुत्सृज्य वैशाख्यां च जलाप्लुतेः ॥
समस्तबंधनिर्मुक्तः पुमान्याति परं पदम् ॥२९॥
गां सवत्सां द्विजेंद्राय सीदते च कुटुम्बिने ॥
इहापमृत्युनिर्मुक्तः परत्र च परं व्रजेत् ॥३०॥
स्नानदानविहीनस्तु वैशाखी चैव यो नयेत् ॥
श्वानयोनिशतं प्राप्य विष्ठायां जायते कृमिः ॥३१॥
तिस्रः कोट्योऽर्धकोटिश्च तीर्थानि भुवनत्रये ॥
संभूय मंत्रयांचक्रुः पापसंघातशंकिताः ॥३२॥
जना अस्मासु पापिष्ठा विसृजन्ति स्वकं मलम् ॥
तदस्माकं कथं गच्छेदिति चिंतासमन्विताः ॥३३॥
तीर्थपादं हरिं जग्मुः शरण्यं शरणं विभुम् ॥
स्तुत्वा च बहुभिः स्तोत्रैः प्रार्थयामासुरंजसा ॥३४॥
देवदेव जगन्नाथ सर्वाघौघविनाशन ॥
जना अस्मासु पापिष्ठाः स्नात्वा पापानि सर्वशः ॥३५॥
विसृज्य त्वत्पदं यांति त्वदाज्ञाधारिणो भुवि ॥
अस्माकं चैव तत्पापं कथं गच्छेज्जनार्दन ॥३६॥
तदुपायं वदास्माकं त्वत्पादशरणैषिणाम् ॥
इति तीर्थैः प्रार्थितस्तु भगवान्भूतभावनः ॥३७॥
प्रहसन्प्राह तीर्थानि मेघगम्भीरया गिरा ॥
॥ श्रीभगवानुवाच ॥
सिते पक्षे मेषसूर्ये वैशाखान्तेदिनत्रये ॥३८॥
सर्वतीर्थमये पुण्ये ममाऽपि प्राणवल्लभे ॥
यूयं भगोदयात्पूर्वं बहिःसंस्थजलाप्लुताः ॥३९॥
विमुक्ताघाः पुण्यरूपा भवंत्वाशु सुनिर्मलाः ॥
भवद्भिश्च विमुक्ताघैर्ये न स्नाता दिनत्रये ॥४०॥
तेषु तिष्ठंतु तत्पापं जनैर्युष्मद्विरेचितम् ॥
इति तीर्थपदो विष्णुस्तीर्थानां च वरं ददौ ॥४१॥
अनुज्ञाप्य च तान्योगात्तत्रैवांतरधीयत ॥
स्वधामानि पुनः प्राप्य तानि तीर्थानि नित्यशः ॥४२॥
प्रतिवर्षं तु वैशाखे तथैवांत्यदिनत्रये ॥
तेनाघौघं विमुच्यैव यांति निर्मलता महो ॥४३॥
ये तु स्नानं न कुर्वंति वैशाखांतदिनत्रये ॥
ते भवन्तु समस्तानां जनानां पातकाऽऽश्रयाः ॥४४॥
इति शापं च तीर्थानि ह्यस्नातानां वदन्ति च ॥
न तेन सदृशः पापो यो न स्नातो दिनत्रये ॥४५॥
विचारितेषु शास्त्रेषु न दृष्टो न च वै श्रुतः ॥
तस्माद्दिनत्रये कार्यं स्नानदानार्चनादिकम् ॥४६॥
अन्यथा नरकं याति यावदिंद्राश्चतुर्दश ॥
इत्येतत्सर्वमाख्यातं श्रुतकीर्ते महामते ॥४७॥
पृष्टं वैशाखमाहात्म्यं यथा दृष्टं यथाश्रुतम् ॥
माहात्म्यस्य च लेखोऽयं माधवस्य च वर्णितः ॥४८॥
कार्त्स्न्याद्वक्तुं च ब्रह्माऽपि नालं वर्षशतैरपि ॥
पुरा कैलासशिखरे पार्वत्यै शंकरः स्वयम् ॥४९॥
आह माधवमाहात्म्यं पृच्छंत्यै शतवत्सरम् ॥
तथापि नांतमगमदशक्तो विरराम ह ॥५०॥
को नु वर्णयितुं शक्तः कार्त्स्न्यान्माहात्म्यमुत्तमम् ॥
विना विष्णुं जगन्नाथं नारायणमनामयम् ॥५१॥
पुरा सर्वेऽपि ऋषयो माहात्म्यं पापनाशनम् ॥
लेशस्य लेशं व्याचख्युर्जनानां हितकाम्यया ॥५२॥
नांतः केनापि व्याख्यातो ह्यशक्तत्वान्महीपते ॥
त्वं च मासे तु वैशाखे कुरु दानादिसत्क्रियाः ॥५३॥
तेन भुक्तिं च मुक्तिं च संप्राप्नोषि न संशयः ॥
इति तं बोधयित्वा च मैथिलं जनकाह्वयम् ॥५४॥
श्रुतदेवस्तमामंत्र्य गन्तुं चक्रे मनस्ततः ॥
जाताह्लादः स राजर्षिर्गलद्वाष्पाकुलेक्षणः ॥५५॥
उत्सवं कारयामास स्वाभिवृद्ध्यै मनोरमम् ॥
ग्रामं प्रदक्षिणीकृत्य शिबिकामधिरोप्य तम् ॥५६॥
चतुरंगबलैर्युक्तः स्वयं पृष्ठमथाऽन्वगात् ॥
पुनश्चांतःपुरं प्राप्य सकलैर्विभवैरपि ॥५७॥
वस्त्रैराभरणैश्चैव गोभूतिलहिरण्यकैः ॥
प्रणम्य च परिक्रम्य तस्थौ प्रांजलिरग्रतः ॥५८॥
ततः स तु महातेजाः श्रुतदेवो महायशाः ॥
सन्तुष्टः परमप्रीतो ययौ धाम स्वकं मुनिः ॥५९॥
त्रयोदश्यां चतुर्दश्यां पौर्णमास्यां च माधवे ॥
स्नानं दानं पूजनं च कथाश्रवणमेव च ॥६०॥
वैशाखधर्मनिरतः स वै मोक्षमवाप्नुयात् ॥
धनशर्मा ब्राह्मणश्च प्रेताश्चैव यथा पुरा ॥६१॥
॥ नारद उवाच ॥
इत्येतत्परमाख्यानमंबरीष तवोदितम् ॥
श्रवणात्सर्वपापघ्नं सर्वसंपद्विधायकम् ॥६२॥
तेन भुक्तिं च मुक्तिं च ज्ञानं मोक्षं च विंदति ॥
इति तस्य वचः श्रुत्वा अंवरीषो महायशाः ॥६३॥
प्रहृष्टांतरवृत्तिश्च बाह्यव्यापारवर्जितः ॥
प्रणनाम तथा मूर्ध्ना दण्डवत्पतितो भुवि ॥६४॥
विभवैरखिलैश्चाऽपि पूजयामास तं पुनः ॥
संपूजितस्तमामंत्र्य नारदो भगवान्मुनिः ॥६५॥
लोकांतरं ययौ धीमाञ्च्छापान्नैकत्र संस्थितिः ॥
अम्बरीषोऽपि राजर्षिर्नारदोक्तानिमाञ्च्छुभान् ॥६६॥
धर्मान्कृत्वा विलीनोऽभूत्परे ब्रह्मणि निर्गुणे ॥
॥ सूत उवाच ॥
य इदं परमाख्यानं पापघ्नं पुण्यवर्धनम् ॥६७॥
शृणुयाद्वा पठेद्वाऽपि स याति परमां गतिम् ॥
लिखितं पुस्तकं येषां गृहे तिष्ठति मानदाः ॥६८॥
तेषां मुक्तिः करस्था हि किमु तच्छ्रवणात्मनाम् ॥६९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे फलश्रुतिकथनंनाम पंचविशोऽध्यायः ॥२५॥छ ॥
इति श्रीस्कान्दे महापुराणे द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्यं संपूर्णम् ॥
श्रीसीतारामचंद्रार्पणमस्तु॥

N/A

References : N/A
Last Updated : November 11, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP