वैशाखमासमाहात्म्यम् - अध्याय ५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ अम्बरीष उवाच ॥
वैशाखः सर्वधर्मेभ्यस्तपोधर्मेभ्य एव च ॥
स कथं सर्वमासेभ्यो दानेभ्योऽप्यधिकोऽभवत् ॥१॥
॥ नारद उवाच ॥
तद्वक्ष्यामि महाप्राज्ञ शृणु चैकमना भव ॥
कल्पांते देवराड्विष्णुः शेषशायी महाप्रभुः ॥२॥
कुक्षिस्थ लोकसङ्घोऽयं स शेते प्रलयार्णवे ॥
अनेको ह्येकतां प्राप्य भूतिभिर्योगमायया ॥३॥
निमेषस्यावसाने तु श्रुतिभिर्बोधितस्ततः ॥
कुक्षिस्थजीवसंघानां रक्षां चक्रे दयानिधिः ॥४॥
तत्तत्कर्मफलप्राप्त्यै सृष्टिं स्रष्टुं मनो दधे ॥
तस्य नाभेरभूत्पद्म सौवर्णं भुवनाश्रयम् ॥५॥
ब्रह्माणं जनयामास वैराजं पुरुषाह्वयम् ॥
तस्मिन्ससर्ज भगवान्भुवनानि चतुर्दश ॥६॥
भिन्नकर्माशयान्प्राणिसङ्घांश्च विविधान्बहून् ॥
त्रिगुणान्प्रकृतिं लोके मर्यादाश्चाधिपांस्तथा ॥७॥
वर्णाश्रमविभागांश्च धर्मक्लृप्तिं च सोऽकरोत् ॥
वेदैश्चतुर्भिस्तत्रैश्च सहितान्स्मृतिभिस्तथा ॥८॥
पुराणैरितिहासैश्च स्वाज्ञारूपैर्महेश्वरः ॥
ऋषीन्प्रवर्तकांश्चक्रे धर्मगुप्त्यै महाप्रभुः ॥९॥
तैः प्रवर्तितधर्मास्तु वर्णाश्रमविभागजाः ॥
प्रजाः श्रद्दधिरे सर्वाः स्वोचितान्विष्णुतोषदान् ॥१०॥
तांस्तु प्रवर्तमानांस्तु स्वाश्रमान्द्रष्टुमीश्वरः ॥
हृदिस्थोऽप्यव्ययः साक्षाद्विभीषार्थं परीक्षया ॥११॥
अनूनान्कुशलान्यत्र धर्मान्कुर्वंति वै प्रजाः ॥
स कालः को भवेद्विद्वानिति सर्चितयत्प्रभुः ॥१२॥
वर्षाकालो मया सृष्टः सीदंत्यस्ता इमाः प्रजाः ॥
तत्रानूनान्न कुर्वंति धर्मान्पंकाद्युपद्रुताः ॥१३॥
तान्दृष्ट्वा कोप एव स्यात्तेषु तुष्टिर्न मे भवेत् ॥
मयेक्षिता न सीदंतु तस्मात्तानवलोकये ॥१४॥
शरद्यपि तथा पूर्तिः कर्षणान्नैव जायते ॥
केचित्पक्वफलासक्ताः केचिद्वृष्टिभिरर्दिताः ॥१५॥
केचिच्छीतार्दिताश्चैव तान्दृष्ट्वा रोष एव मे ॥
वैगुण्यं पश्यतश्चैव न मे तोषोऽभिजायते ॥१६॥
उत्थापनं तु नेच्छंति प्रातर्हेमंत आगते ॥
कोपो मेऽनुत्थितान्दृष्ट्वा प्रातः सूर्योदये सति ॥१७॥
शिशिरेऽपि तथैवार्ताः प्रातःकाल इमाः प्रजाः ॥
तथा पक्वफलादानाशक्ता ह्यनिशमंजसा ॥१८॥
पुनः शीतार्दिताः प्रातःस्नानार्थमिति चिंतिताः ॥
तेषां तु कर्मलोपः स्यान्नैव पूर्तिः कथंचन ॥१९॥
प्रेक्षायाः समयो नाऽयमिति चिंताऽऽकुलो विभुः ॥
वसंत समयं मेने सर्वापत्तिनिवारकम् ॥२०॥
स्नाने दाने तथा यागे क्रियायां भोग एव च ॥
नानाधर्मविधाने च ह्यनुकूलस्त्वयं ह्यृतुः ॥२१॥
अप्रयासेन लभ्यानि द्रव्याण्यसुभृतां धुवम् ॥
येन केनापि द्रव्येण तुष्टिस्तनुभृतां भवेत् ॥२२॥
विष्णोराधारभूतानां तद्द्रव्यं धर्मसाधनम् ॥
वसंते सकलं द्रव्यं प्राणिनां तु सुखावहम् ॥२३॥
दानयोग्यं धर्मयोग्यं भोगयोग्यं तु सर्वशः ॥
निर्धनानां तु पङ्वादि विकलानां महात्मनाम् ॥२४॥
द्रव्याणि च सुलभ्यानि जलादीनि न संशयः ॥
द्रव्यैरेतैः स्वात्महितं धर्मं कुर्वंति मत्प्रियाः ॥२५॥
पत्रैः पुष्पैः फलैरन्यैः शाकैश्चापि प्रियोक्तिभिः ॥
स्रक्तांबूलैश्चन्दनाद्यैः पादप्रक्षालनादिभिः ॥२६॥
प्रश्रयाद्यैरहो तेषां वरदोऽहमितीरयन् ॥
संचिंत्य भगवान्विष्णुः प्रतस्थे रमया सह ॥२७॥
वनानि सर्वतः पश्यन्विकसत्कुसुमानि च ॥
हृष्टपुष्टजनाकीर्णं मत्तालिद्विजसेवितम् ॥२८॥
आश्रमाणां महार्हाणां वनग्रामनिवासिनाम्॥
प्रांगणादीनि रम्याणि ह्युद्यानानि स्थलानि च ॥२९॥
रमायै दर्शयन्विष्णुः सह देवैर्मुनीश्वरैः ॥
सिद्धचारणगन्धर्वकिन्नरोरगराक्षसैः ॥३०॥
स्तूयमानोऽभ्यगाद्गेहान्वर्णाश्रमनिवासिनाम् ॥
मीनादिकर्कटांतं वै स तिष्ठन्रमया सुरैः ॥३१॥
सार्द्धं प्रतीक्ष्य पुरुषान्कृताकृत सपर्यया ॥
तत्र धर्मवतां पुंसां ददातीष्टान्मनोरथान् ॥३२॥
मत्तान्न सहते पुंसो हरत्यायुर्धनादिकम् ॥
यदि कुर्वंति वैशाखे सपर्या परमात्मनः ॥३३॥
तत्रापि चलमूर्तीनां साधूनां यत्र वै विभुः ॥
मासेवन्येषु यज्जातं कर्मलोपं सहिष्यति ॥३४॥
यथा देशागतं भूपं दृष्ट्वा जानपदाः प्रजाः ॥
यदि तं चोपतिष्ठन्ति प्रश्रयाद्यैर्महार्हणैः ॥३५॥
तदा करादिकं न्यूनं पूर्णं जानाति पार्थिवः ॥
पुनरप्यधिकं चेष्टं तुष्टो दास्यति निश्चितम् ॥३६॥
तदा त्वकृतपूजानां दण्डं तेषां करोति च ॥
तथा विष्णुः स्वकीयानां वैशाखे माधवागमे ॥३७॥
सपर्यां कुर्वतां पुंसां ददातीष्टान्मनोरथान् ॥
अकुर्वतां तथा पुंसां धनादीनि हरत्यलम् ॥३८॥
धर्मगोप्तुर्महाविष्णोर्देवदेवस्य शार्ङ्गिणः ॥
परीक्षाकाल एवाऽयं तस्मान्मासोत्तमो ह्ययम् ॥३९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदांवरीषसंवादे वैशाखश्रेष्ठत्वनिरूपणं नाम पञ्चमोध्यायः ॥५॥
N/A
References : N/A
Last Updated : November 11, 2024
TOP