वैशाखमासमाहात्म्यम् - अध्याय १

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ अथ वैशाखमासमाहात्म्य प्रारंभः ॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥१॥
॥ सूत उवाच ॥
भूयोऽप्यंगभुवं राजा ब्रह्मणः परमेष्ठिनः ॥
पुण्यं माधवमाहात्म्यं नारदं पर्यपृच्छत ॥१॥
॥ अंवरीष उवाच ॥
सर्वेषामपि मासानां त्वत्तो माहात्म्यमंजसा ॥
श्रुतं मया पुरा ब्रह्मन्यदा चोक्तं तदा त्वया ॥२॥
वैशाखः प्रवरो मासो मासेष्वेतेषु निश्चितम् ॥
इति तस्माद्विस्तरेण माहात्म्यं माधवस्य च ॥३॥
श्रोतुं कौतूहलं ब्रह्मन्कथं विष्णुप्रियो ह्यसौ ॥
के च विष्णुप्रिया धर्मा मासे माधववल्लभे ॥४॥
तत्राप्यस्य तु कर्तव्याः के धर्मा विष्णुवल्लभाः ॥
किं दानं किं फलं तस्य कमुद्दिश्याऽऽचरेदिमान् ॥५॥
कैर्द्रव्यैः पूजनीयोऽसौ माधवो माधवागमे ॥
एतन्नारद विस्तार्य मह्यं श्रद्धावते वद ॥६॥
॥ श्रीनारद उवाच ॥
मया पृष्टः पुरा ब्रह्मा मासधर्मान्पुरातनान् ॥
व्याजहार पुरा प्रोक्तं यच्छ्रियै परमात्मना ॥७॥
ततो मासा विशिष्योक्ताः कार्तिको माघ एव च ॥
माधवस्तेषु वैशाखं मासानामुत्तमं व्यधात् ॥८॥
मातेव सर्वजीवानां सदैवेष्ट प्रदायकः ॥
दानयज्ञ्रव्रतस्नानैः सर्वपापविनाशनः ॥९॥
धर्म यज्ञक्रियासारस्तपःसारः सुरार्चितः ॥
विद्यानां वेदविद्येव मंत्राणां प्रणवो यथा ॥१०॥
भूरुहाणां सुरतरुर्धेनूनां कामधेनुवत् ॥
शेषवत्सर्वनागानां पक्षिणां गरुडो यथा ॥११॥
देवानां तु यथा विष्णुर्वर्णानां ब्राह्मणो यथा ॥
प्राणवत्प्रियवस्तूनां भार्येव सुहृदां यथा ॥१२॥
आपगानां यथा गंगा तेजसां तु रविर्यथा ॥
आयुधानां यथा चक्रं धातूनां कांचनं यथा ॥१३॥
वैष्णवानां यथा रुद्रो रत्नानां कौस्तुभो यथा ॥
मासानां धर्महेतूनां वैशाखश्चोत्तमस्तथा ॥१४॥
नानेन सदृशो लोके विष्णुप्रीतिविधायकः ॥
वैशाखस्नाननिरते मेषे प्रागर्यमोदयात् ॥१५॥
लक्ष्मीसहायो भगवान्प्रीतिं तस्मिन्करोत्यलम् ॥
जंतूनां प्रीणनं यद्वदन्नेनैव हि जायते ॥१६॥
तद्वद्वैशाखस्नानेन विष्णुः प्रीणात्यसंशयम् ॥
वैशाखस्नाननिरताञ्जनान्दृष्ट्वाऽनुमोदते ॥१७॥
तावतापि विमुक्तोऽघैर्विष्णुलोके महीयते ॥
सकृत्स्नात्वा मेषसंस्थे सूर्ये प्रातः कृताह्निकः ॥१८॥
महापापैर्विमुक्तोऽसौ विष्णोः सायुज्यमाप्नुयात् ॥
स्नानार्थं मासि वैशाखे पादमेकं चरेद्यदि ॥१९॥
सोऽश्वमेधायुतानां च फलमाप्नोत्यसंशयम् ॥
अथवा कूटचित्तस्तु कुर्यात्संकल्पमात्रकम् ॥२०॥
सोऽपि क्रतुशतं पुण्यं लभेदेव न संशयः ॥
यो गच्छेद्धनुरायामं स्नातुं मेषगते रवौ ॥२१॥
सर्वबंधविनिर्मुक्तो विष्णोः सायुज्यमाप्नुयात् ॥
त्रैलोक्ये यानि तीर्थानि ब्रह्मांडांतर्गतानि च ॥२२॥
तानि सर्वाणि राजेन्द्र संति बाह्येऽल्पके जले ॥
तावल्लिखितपापानि गर्जंति यमशासने ॥२३॥
यावन्न कुरुते जंतुर्वैशाखे स्नानमंभसि ॥
तीर्थादिदेवताः सर्वा वैशाखे मासि भूमिप ॥२४॥
बहिर्जलं समाश्रित्य सदा सन्निहिता नृप ॥
सूर्योदयं समारभ्य यावत्षड्घटिकावधि ॥२५॥
तिष्ठंति चाऽऽज्ञया विष्णोर्नराणां हितकाम्यया ॥
तावन्नागच्छतां पुंसां शापं दत्त्वा सुदारुणम् ॥
स्वस्थानं यांति राजेन्द्र तस्मात्स्नानं समाचरेत् ॥२६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे वैशाखमास प्रशंसापूर्वक वैशाखस्नानमाहात्म्यवर्णनं नाम प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : November 11, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP