वैशाखमासमाहात्म्यम् - अध्याय २३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रुतदेव उवाच ॥
अथातः संप्रवक्ष्यामि माहात्म्यं पापनाशनम् ॥
अक्षय्यायास्तृतीयायाः सिते पक्षे च माधवे ॥१॥
ये कुर्वंति च तस्यां वै प्रातः स्नानं भगोदये ॥
ते सर्वे पापनिर्मुक्ता यांति विष्णोः परं पदम् ॥२॥
देवान्पितॄन्मुनीन्यस्तु कुर्यादुद्दिश्य तर्पणम् ॥
तेनाऽधीतं च तेनेष्टं तेन श्राद्धशतं कृतम् ॥३॥
मधुसूदनमभ्यर्च्य कथां शृण्वंति ये नराः ॥
अक्षय्यायां तृतीयायां ते नरा मुक्तिभागिनः ॥४॥
ये दानं तत्र कुर्वंति मधुद्विट्प्रीतये शुभम् ॥
तदक्षय्यं फलत्येव मधुशासनशासनात् ॥५॥
देवर्षिपितृदैवत्या तिथिरेषा महाशुभा ॥
त्रयाणां तृप्तिदात्री च कृते धर्मे सनातने ॥६॥
प्रख्यातिश्च तिथेरस्याः केन चास्ति तदप्यहम्॥
वक्ष्यामि नृपशार्दूल सावधानमनाः शृणु ॥७॥
पुरा पुरंदरस्याऽऽसीद्युद्धं च बलिना सह ॥
देवानां चैव दैत्यानां द्वंद्वं युद्धमभूत्ततः ॥८॥
स निर्जित्य बलिं दैत्यं पातालतलवासिनम्॥
पुनर्भुवं समासाद्य चोतथ्यस्याऽऽश्रमं ययौ ॥९॥
तत्रापश्यच्च तत्पत्नीं गुर्विणीं मंदगामिनीम्॥
चलच्छ्रोणितटाबद्ध कांचीदाम्ना सुमंडिताम् ॥१०॥
क्वणत्कंकणनिर्घोष जितमत्तालिकोकिलाम् ॥
वल्गुचित्रांबरां रामां मंजुवाचं शुचिस्मिताम् ॥११॥
लसत्कुंभस्थलाभ्यां च कुचाभ्यामुपशोभिताम् ॥
हसत्पद्ममुखां दिव्यां नीलोत्पलसुलोचनाम् ॥१२॥
केतक्युदरपांडुभ्यां गंडाभ्यां च मनोरमाम् ॥
श्रमोच्छ्वसंतीं दीनाक्षीं पर्णशालामुखे स्थिताम् ॥१३॥
स्वपतीं शयने क्वाऽपि तां दृष्ट्वा मोहमागतः ॥
बलात्कारेण बुभुजे गुर्विणीं पाकशासनः॥१४॥
गर्भस्थस्तु तदा पिंडः स्वस्य पातविशंकया ॥
छादयामास वै योनिं द्वारे पादेन दुःखितः ॥१५॥
ततश्चस्कन्द वीर्यं तद्भूमावेव बलिद्विषः ॥
गर्भस्थाय चुकोपासौ भगवान्पाकशासनः ॥१६॥
तं शशाप च गर्भस्थं रुषा ताम्रांतलोचनः ॥
जात्यन्धो भव दुर्बुद्धे माऽवमंस्था यतः पदा ॥१७॥
प्रच्छाद्य योनिद्वारं च ततो दीर्घतपाह्वयः ॥
पदा प्रस्कंदिताद्वीर्याज्जालतः समजायत ॥१७॥
पश्चादिंद्रो ययौ शीघ्रमृषेः शाप विशंकितः ॥
पलायंतं हरिं दृष्ट्वा जहसुर्बटवोऽखिलाः ॥१९॥
ततस्तु व्रीडितो भूत्वा ययौ मेरोर्गुहां शुभाम् ॥
तत्र लीनश्चचाराऽसौ दुस्तरं वै तपो महत् ॥२०॥
मेरौ विलीय वसति देवेन्द्रे लज्जयाऽन्विते ॥
गूढैर्विज्ञाय तां वार्तां दैतेया बलिपूर्वकाः ॥२१॥
सुरानाक्रम्य बुभुजुर्बलींद्रश्चामरावतीम् ॥
दिक्पालानां विभूतीश्च शंबराद्या बलीयसः ॥२२॥
बलाद्बुभुजिरे हीननाथे राष्ट्रे दिवौकसाम् ॥
रक्षितारमजानंतो देवाश्चाग्निपुरोगमाः ॥२३॥
पप्रच्छुर्धिषणं देवं देवाचार्यमकल्मषम् ॥
पप्रच्छुरिंद्रवृत्तांतं क्व स्वित्तिष्ठति नः प्रभुः ॥२४॥
दैत्याक्रांतमिदं राष्ट्रं हीननाथं दिवौकसाम् ॥
कुतो नाऽऽयाति देवोऽसौ भूयान्कालो गतो विभो ॥२५॥
तं यामो यत्र धिषण प्रार्थयामश्च तं विभुम् ॥
इति पृष्टस्तदा देवैर्धिषणस्तानुवाच ह ॥२६॥
रसातले बलिं जित्वा चोतथ्यस्याऽऽश्रमं ययौ ॥
भुक्त्वा पत्नीं च दार्ढ्येन तच्छिष्यैरेव निन्दितः ॥२७॥
व्रीडितस्तु दिवं यातुं गुहां मेरोर्विवेश ह ॥
तत्रैवाऽऽस्ते शचीयुक्तः स्वकृतं चिन्तयन्विभुः ॥२८॥
इति तस्य वचः श्रुत्वा देवा अग्निपुरोगमाः ॥
गुहां मेरोर्ययुः शीघ्रं दृष्ट्वा प्रार्थयितुं विभुम् ॥२९॥
तत्र दृष्ट्वा गुहालीनं देवेन्द्रं पाकशासनम् ॥
तुष्टुवुर्विविधैः स्तोत्रैस्तद्वीर्यैर्लोकविश्रुतैः ॥३०॥
इंद्र तुभ्यं नमस्तेऽस्तु सर्वदेवाऽधिपाय ते ॥
वयं दैत्यैरर्दिताश्च त्वया हीना भृशार्दिताः ॥३१॥
स्थानभ्रष्टाश्चरामोंऽग नानादेशेषु दुःखिताः ॥
तस्मादागत्य देवेन्द्र जहि शत्रूनरिंदम ॥३२॥
इति स्तुतस्तदा देवैर्निश्चक्राम गुहामुखात् ॥
लज्जया ऽवनतो भूत्वा पश्यन्भूमिं च चक्षुषा ॥३३॥
न किंचिदपि चोवाच दुःखाद्गद्गदभाषणः ॥
तऽऽज्ञात्वा धिषणः प्राह तं सुरेन्द्रं भयानकम् ॥३४॥
मा शंका ते सुरपते कर्माधीनमिदं जगत्॥
मानामानौ सुखं दुःखं लाभालाभौ जयाजयौ॥ ३५॥
पूर्वकर्मानुरोधेन भवंत्येते न संशयः॥
जीवः कर्मानुगो दुःखं दिष्टं दैवेन कालतः॥ ३६॥
प्राज्ञाः प्रायो न शोचंति न प्रहृष्यंति वै सुखात्॥
तस्मात्प्रारब्धतः प्राप्तं दुःखं चेदं तव प्रभो॥३७॥
तत्प्राप्य मघवन्दुःखं नैव शोचितुमर्हसि ॥
इत्युक्तो गुरुणा चाह मघवानमराधिपान् ॥३८॥
॥ इन्द्र उवाच ॥
परस्त्रीसंगदोषेण बलं वीर्यं यशोऽमलम् ॥
मंत्रशक्तिःशास्त्रशक्तिर्विद्याशक्तिश्च मानद ॥३९॥
अभवन्नष्टवीर्यं मे तूष्णीं तेन वसाम्यहम् ॥
पाकशासनवाक्यं तु श्रुत्वा स्वाचार्यसंयुऽताः ॥४०॥
मंत्रयामासुरेकान्ते पुनस्तस्य बलाप्तये ॥
तदा गुरुश्च तान्प्राह करुणं च विदुत्तमः ॥४१॥
बृहस्पतिरुवाच॥
मासो वैशाखनामाऽयं प्रियो वै मधुघातिनः॥
सर्वाश्च तिथयः पुण्या मासेऽस्मिन्माधवप्रिये॥४२॥
तत्राऽपि च सिते पक्षे मासेऽस्मिन्नक्षयाह्वया ॥
या तस्यां स्नानदानादि श्रद्धया च करोति वै ॥४३॥
तस्य पापसहस्राणि नश्यंत्येव न संशयः॥
अनवद्यं तथैश्वर्यं बलं धैर्यं भवंति च ॥४४॥
तस्मात्तस्यां तृतीयायां हरिणा बलविद्विषा ॥
स्नानदानादिसद्धर्मान्कारयामो हिताऽऽप्तये ॥४५॥
भविष्यति च सा शक्तिर्विद्याया मन्त्रशास्त्रयोः ॥
बलं धैर्यं यशश्चैव यथापूर्वं भविष्यति ॥४६॥
इत्येवं तु विचार्याथ गुरुर्देवैः समाहितः ॥
इन्द्रेण कारयामास धर्मानेतान्हरिप्रियान् ॥४७॥
अक्षय्यायां तृतीयायां भुक्तिमुक्तिफलप्रदान् ॥
तेन पूर्ववदेवाऽऽसीद्बलं धैर्यादिकं विभोः ॥४८॥
परस्त्रीसंगदोषोऽपि सद्य एव व्यलीयत ॥
पश्चाद्धताशुभः शक्रो राहोर्मुक्त इवोडुपः ॥४९॥
देवतानां तथा मध्ये शुशुभे च हरिर्यथा ॥
पश्चाद्देवैः समायुक्तो विनिर्जित्य तथाऽसुरान् ॥५०॥
तृतीयायाश्च माहात्म्याद्भाग्ययुक्तोऽमरावतीम् ॥
विवेश विभवैः सार्द्धं शंखतूर्यादिनिःस्वनैः ॥५१॥
अनुज्ञाताश्च शक्रेण स्वधामानि ययुः सुराः ॥
ततस्ते यज्ञभागांश्च लेभिरे च यथा पुरा ॥५२॥
पिंडभागांश्च पितरो यथापूर्वं प्रपेदिरे ॥
स्वाध्याये मुनयस्तुष्टा दैत्यानां च पराजयः ॥५३॥
तदा प्रभृति लोकेऽस्मिंस्तृतीया चाऽक्षयाऽऽह्वया ॥
प्रख्याता सर्वलोकेषु देवर्षिपितृतुष्टिदा ॥५४॥
तस्मात्पुण्यतमा चैषा सर्वकर्मनिकृंतनी ॥
भुक्तिमुक्तिप्रदा नृणां तृतीया चाऽक्षयाऽऽह्वया ॥५५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादेऽक्षय्यतृतीयायाः श्रेष्ठत्वकथनं नाम त्रयोविंशोऽध्यायः ॥२३॥

N/A

References : N/A
Last Updated : November 11, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP