वैशाखमासमाहात्म्यम् - अध्याय ११
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ मैथिल उवाच ॥
वैशाखधर्माः सुलभाः पुण्यराशिविधायकाः ॥
विष्णुप्रीतिकराः सद्यः पुमर्थानां तु हेतवः ॥१॥
न प्रख्याताः कथं लोके शाश्वताः श्रुतिचोदिताः ॥
प्रख्याता राजसा धर्मास्तामसा अपि भूरिशः ॥२॥
दुर्घटा वहुयत्नाश्च वहुद्रव्यव्ययावहाः ॥
केचिन्माघं प्रशंसन्ति चातुर्मास्यान्परे जगुः ॥३॥
व्यतीपातादिधर्माश्च वर्णयन्तीह भूरिशः ॥
एतद्विवेकं विस्तार्य श्रोतुकामाय मे वद ॥४॥
॥ श्रुतदेव उवाच ॥
शृणु भूप प्रवक्ष्यामि न प्रख्याता इमे कथम् ॥
इतरेषां च धर्माणां कथं ख्यातिश्च भूतले ॥५॥
राजसास्तामसा भूमौ बहवः कामुका जनाः ॥
इच्छंत्यैहिकभोगांस्ते पुत्रपौत्रादिसंपदः ॥६॥
क्वचित्कथंचन क्वाऽपि जनेष्वेकोऽतिकृच्छ्रतः ॥
स्वर्गाय यतते लोके तस्माद्यज्ञादिसत्क्रियाः ॥७॥
कुरुतेऽतिप्रयत्नेन मोक्षं नोपासते नरः ॥
क्षुद्राशा भूरिकर्माणो जनाः काम्यानुपासते ॥८॥
प्रख्याता राजसा धर्मास्तामसा अपि तेन वै ॥
न ख्याताः सात्त्विका धर्मा हरिप्रीतिकरा इमे ॥९॥
निष्कामिका इमे धर्मा ह्यैहिकाऽऽमुष्मिकप्रदाः ॥
न जानन्ति जना मूढा मोहिता देवमायया ॥१०॥
यथाऽऽधिपत्ये संप्राप्ते सर्वसिद्धो मनोरथः ॥
मोहनार्थं स्थलं प्राप्तमाधिपत्येन हीयते ॥११॥
कारणं च प्रवक्ष्यामि गोपने भूतलेंऽजसा ॥
यद्वैशाखोक्तधर्माणां सात्त्विकानां नृणामिह ॥१२॥
सार्वभौमः पुरा काश्यामिक्ष्वाकुकुलभूषणः ॥
कीर्तिमानिति विख्यातो नृगपुत्रो महायशाः ॥१३ ऽ
जितेंद्रियो जितक्रोधो ब्रह्मण्यो राजसत्तमः ॥
एकदा मृगयासक्तो वसिष्ठाश्रममाययौ ॥१४॥
गच्छन्मार्गे ददर्शाऽसौ वैशाखे घर्मनिष्ठुरे ॥
भूयोभूयः कार्यमाणाञ्च्छिष्यांस्तस्य महात्मनः ॥१५॥
क्वचित्प्रपां प्रकुर्वन्ति छायामण्डपमेव च ॥
तटप्रपातं निस्तीर्य वापीं कुर्वन्ति निर्मलाम् ॥१६॥
सूपविष्टान्क्वचिद्वृक्षे व्यजनैर्वीजयन्ति च ॥
क्वचिद्दद्युर्हीक्षुदण्डान्क्वचिद्गन्धान्क्वचित्फलम्॥१७॥
मध्याह्ने छत्रदानं च सायाह्ने पानकस्य च ॥
क्वचिद्यच्छंति ताम्बूलं नेत्रे कर्पूरलेपनम् ॥१८॥
सुच्छाये च वने केचित्सुसंमृष्टांऽगणेषु च ॥
केचिदास्तरयंत्यद्धा वालुकानि हितानि च ॥१९॥
कुर्वन्त्यांदोलिकां राजन्वृक्षशाखावलंबिनीम् ॥
के यूयमिति पप्रच्छ वासिष्ठा इति तेऽब्रुवन् ॥२०॥
किमेतदिति पप्रच्छ धर्मा वैशाखचोदिताः ॥
पुमर्थहेतव इमे क्रियन्तेऽस्माभिरञ्जसा ॥२१॥
वसिष्ठस्याऽऽज्ञया चेति तेऽबुवन्नृपसत्तमम् ॥
एतदाचरणे पुंसां किं फलं कस्तु तुष्यति ॥२२॥
एतद्विस्तार्य मे ब्रूत यूयं सम्यग्यथाश्रुतम् ॥
इति राज्ञा तु संपृष्टाः प्रत्यूचुस्ते महीपतिम् ॥२३॥
गुरोराज्ञाक्रमेणैव कुर्वतां पथिसत्क्रियाः ॥
नास्माकमवकाशोऽत्र गुरुं पृच्छ यथोचितम् ॥२४॥
स वेत्ति तत्त्वतो नूनं धर्मानेतान्महायशाः ॥
इति शिष्यैर्वसिष्ठस्य प्रत्युक्तस्तु द्रुतं ययौ ॥२५॥
वसिष्ठस्याऽश्रमं पुण्यं विद्यायोगोपबृंहितम् ॥
समायान्तं नृपं वीक्ष्य वसिष्ठः प्रीतमानसः ॥२६॥
आतिथ्यं विधिवच्चक्रे सानुगस्य महात्मनः॥
सूपविष्टः कृताऽतिथ्यः प्रीतः पप्रच्छ तं गुरुम् ॥२७॥
॥ राजोवाच ॥
मार्गे दृष्टं महाश्चर्यं त्वच्छिष्यैश्च कृतं शुभम् ॥
मया पृष्टं च तैर्नोक्तं क्रियमाणं शुभावहम् ॥२८॥
नास्माकमवकाशोऽत्र ह्येतद्धर्मप्रशंसने ॥
कर्तब्या च क्रियाऽस्माभिर्गुरुणा या च चोदिता ॥२९॥
गुरुं गच्छेति तैरुक्त आगतोऽहं तवांतिकम् ॥
मृगयाऽऽसक्तचित्तेन श्रांतेनातिथ्यमिच्छता ॥३०॥
दृष्टं मार्गे त्विदं पुण्यं तव शिष्यैश्च कारितम् ॥
जिज्ञासाऽऽसीत्ततः श्रोतुं धर्मानेतान्मुनीश्वर ॥३१॥
त्वमादिरादिमान्धर्मान्समाचरसि वै यतः ॥
तान्धर्माञ्च्छ्रोतुकामाय शिष्याय प्रणताय च ॥३२॥
श्रद्दधानाय मे ब्रूहि विस्तरान्मुनिपुंगव ॥
इतीक्ष्वाकुकुलीनेन राज्ञा पृष्टो महायशाः ॥३३॥
मनसा तोषमापेदे सम्यक्पृष्टोऽधुनाऽमुना ॥
अहो व्यवसिता बुद्धी राजस्तेऽद्य सुशिक्षिता ॥३४॥
यस्माद्विष्णुकथायां च तद्धर्माचरणेऽपि च ॥
मतिरात्यंतिकी जाता सुकृतं फलितं तव ॥३५॥
इति संभाष्य राजानं जातहर्षस्तमब्रवीत् ॥
शृणु भूप प्रवक्ष्यामि यत्पृष्टोऽहं त्वयाधुना ॥३६॥
यस्य श्रवणमात्रेण मुच्यते सर्वकिल्बिषैः ॥
सर्वधर्मान्परित्यज्य वर्तते विषयात्मकः ॥३७॥
वैशाखस्नाननिरतः स प्रियो मधुविद्विषः ॥
सांगान्धर्माननुष्ठाय वैशाखो येन नादृतः ॥३८॥
स्नानदानार्चनैः पुण्यैस्तस्य दूरतरो हरिः ॥
अस्नाप्य चाऽप्यदत्त्वा च वैशाखो येन नीयते ॥३९॥
कर्मणा स तु चण्डालो नाऽत्र कार्या विचारणा ॥
वैशाखोक्तैर्महाधर्मैर्येन चाऽऽराधितो हरिः ॥४०॥
तैश्च तोषं समायाति प्रददाति समीहितम् ॥
लक्ष्मीभर्त्ता जगन्नाथो ह्यशेषाघौघनाशनः ॥४१॥
धर्मैः सूक्ष्मैश्च प्रीणाति न प्रयासैर्धनैरपि ॥
भक्त्या संपूजितो विष्णुः प्रददाति समीहितम् ॥४२॥
तस्माद्राजन्सदा भक्तिः कर्तव्या मधुविद्विषः ॥
जलेनाऽपि जगन्नाथः पूजितः क्लेशहा हरिः ॥४३॥
परितोषं व्रजत्याशु तृषार्तः सलिलैर्यथा ॥
महदप्यल्पदं कर्म तथा ह्यल्पं च भूरिदम् ॥४४॥
कर्मणाऽल्पत्वभूरित्वे न हेतू महदल्पके ॥
किन्तु कर्मस्वरूपं च गहना कर्मणो गतिः ॥४५॥
वैशाखोक्ता इमे धर्माः स्वल्पाऽऽयासकृता अपि ॥
बहुव्ययविनाशाश्च विष्णोः प्रीतिकरा शुभाः ॥४६॥
तस्मात्त्वमपि भूपाल वैशाखोक्तान्समाचर॥
त्वद्राष्ट्रीयैर्जनैः सर्वैः कारयेमाञ्च्छुभावहान्॥४७॥
न करोति च यो धर्मान्वैशाखोक्तान्नराधमः ॥
बहुधा शिष्यमाणोऽपि स दण्ड्यस्तव भूपते ॥४८॥
इत्यावश्यकतां सम्यक्छास्त्रैर्व्युत्पाद्य तस्य च ॥
पश्चाद्वैशाखनिर्दिष्टान्धर्मान्प्रोवाच सर्वशः॥४९॥
श्रुत्वा तान्सकलान्धर्मान्गुरुं संपूज्य भक्तितः ॥
स राजा गृहमागत्य सर्वान्धर्मांश्चकार ह ॥५०॥
भक्तिमान्केशवे राजन्देवदेवे निरञ्जने ॥
नाऽन्यं पश्यति देवेशात्पद्मनाभान्महीपतिः ॥५१॥
भेरीमुद्वाह्य मातंगं स्वराष्ट्रेऽघोषयद्भटैः ॥
अष्टवर्षाधिको मर्त्यो ह्यशीतिर्नहि पूर्यते ॥५२॥
प्रातर्न स्नाति मेषस्थे सूर्ये सर्वोऽपि यो जनः ॥
स मे दंड्यश्च वध्यश्च निर्यास्यो विषयाद्ध्रुवम् ॥५३॥
पिता वा यदि वा पुत्रो भार्या वाऽथ सुहृज्जनः ॥
वैशाखधर्महीनश्च निर्ग्राह्यो दस्युवन्मया ॥५४॥
दातव्यं विप्रमुख्येभ्यः स्नात्वा प्रातर्जले शुभे ॥
प्रपादानादिधर्मांश्च कुरुध्वं शक्तितोऽनघाः ॥५५॥
विप्रं च धर्मवक्तारं ग्रामेग्रामे न्यवेशयत् ॥
पञ्चानामपि ग्रामाणामकरोदधिकारिणम् ॥५६॥
दण्डार्थं त्यक्तधर्माणां दशवाजिनिषेवितम् ॥
एवं प्रवृत्तः सर्वत्र सार्वभौमस्य शासनात् ॥५७॥
प्रवृद्धो धर्मवृक्षोयं सर्वदेशेषु विस्तरात् ॥
ये केचिन्निधनं यांति भूपालविषये नराः ॥५८॥
प्रमादाच्च नृपश्रेष्ठ ते यांति हरिमन्दिरम् ॥
अवश्यं वैष्णवो लोकः प्राप्यते मानवैर्द्रुतम् ॥५९॥
व्याजेनाऽपि सकृत्स्नातः प्रातर्मेषगते रवौ ॥
सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम् ॥६०॥
न प्राप्नोति यमं धर्मं सकृद्वैशाखस्नानतः ॥
वैलेख्यमगमद्राजा रविसूनुस्तदा नृप ॥६१॥
लेख्यकर्मणि विश्रान्तश्चित्रगुप्तोऽभवत्तदा ॥
मार्जितानि च लेख्यानि पुरा पापोद्भवानि च ॥६२॥
गच्छद्भिर्वैष्णवं लोकं स्वकर्मस्थैर्जनैः क्षणात् ॥
शून्यास्तु नरकाः सर्वे पापिप्राणिविवर्जिताः ॥६३॥
भग्नयानोऽभवन्मार्गो वैशाखस्य प्रभावतः ॥
सर्वेऽपि विमलाकारा जना यान्ति हरेः पदम् ॥६४॥
दिवौकसां तु ये लोकाः शून्याः सर्वे तथाऽभवन् ॥
शून्ये त्रिविष्टपे जाते शून्येषु नर केषु च ॥६५॥
नारदो धर्मराजानं गत्वा चेदमुवाच ह ॥
नाक्रन्दः श्रूयते राजन्प्राक्च्छ्रुतो नरके यथा ॥६६॥
तथा न क्रियते लेख्यं किंचिद्दुष्कृतकर्मणाम्॥
चित्रगुप्तो मुनिरिव स्थितोऽयं मौनसंस्थितः ॥६७॥
कारणं ब्रूहि राजेंद्र न यान्ति तव मन्दिरम् ॥
मनुष्याः पापकर्माणो मायादम्भविवर्धिताः ॥६८॥
एवमुक्ते तु वचने नारदेन महात्मना ॥
प्राह वैवस्वतो राजा किंचिद्दैन्यसमन्वितः ॥६९॥
योऽयं नारद भूपालः पृथिव्यां सांप्रतं स्थितः ॥
सोऽतिभक्तो हृषीकेशे पुराणपुरुषोत्तमे ॥७०॥
प्रबोधयति वैशाखधर्मे भेरीस्वनेन च ॥
अष्टवर्षाधिको मर्त्यो ह्यशीतिर्न हि पूर्यते ॥७१॥
यो वै ह्यकृतवैशाखः स मे दण्ड्यो न संशयः ॥
तद्भयाद्धि जनाः सर्वे नोल्लंघंति कदाचन ॥७२॥
गच्छंति वैष्णवं धाम कर्मणा तेन नारद ॥
वैशाखसेवनाल्लोका यास्यंति हरिमंदिरम् ॥७३॥
तेन राज्ञा मुनिश्रेष्ठ मार्गो लुप्तो ममाऽधुना ॥
कृता हि नरकाः शून्या लोकाश्चापि दिवौकसाम् ॥७४॥
विश्रांतो लेखको लेखे लिखितं मार्जितं जनैः ॥
वैशाखमासधर्मस्य माहात्म्यं त्वीदृशं मुने ॥७५॥
ब्रह्महत्यादिपापानि विमुक्तानि जनैर्द्विज ॥
कृत्वा वैशाखकृत्यानि यांति विष्णोः परं पदम् ॥७६॥
सोऽहं काष्ठसमो जातो न कश्चिन्मम गोचरः ॥
युद्धं कृत्वा तु तं हन्मि सर्वथाऽद्य महाबलम् ॥७७॥
अकृत्वा स्वामिकार्यं तु निर्व्यापारो यदि स्थितः ॥
तस्य वित्तं समश्नाति स याति नरकं धुवम् ॥७८॥
यदि देवादवध्योऽयं तदा ब्रह्माणमेत्य च ॥
निवेद्य तस्मै तत्सर्वं पश्चात्स्वस्थस्थितिर्भवम् ॥७९॥
इत्युक्त्वा द्विजमामंत्र्य सानुगः प्रययौ भुवम् ॥
स कालो महिषारूढो दण्डमुद्यम्य भीषणम् ॥८०॥
मृत्युरोगजराद्यैश्च पार्षदैश्च महोत्कटः ॥
पञ्चाशत्कोटिसंख्याकैर्यमदूतैर्वृतस्ततः ॥८१॥
स तूर्णं तस्य राजर्षे रुरोध सकलां पुरीम् ॥
शंखं दध्मौ महाघोरं सर्वलोकभयंकरम् ॥८२॥
तच्छुत्वा स तु राजर्षि र्ज्ञात्वा वैवस्वतं यमम् ॥
स सज्जीकृतसर्वस्वः पत्तनान्निर्ययौ रुषा ॥८३॥
तयोर्युद्धमभूत्तत्र भीषणं रोमहर्षणम् ॥
मृत्युं कालं तथा रोगं यमं दूतपतिं तथा ॥८४॥
जित्वा क्षणेन राजर्षिर्द्रावयामास रोषतः ॥
ततः क्रुद्धो यमो राजा स्वयमभ्येत्य तं रुषा ॥८५॥
युयोध बहुभिर्बाणैः सिंहनादं चकार ह ॥
चकर्त राजा तस्याऽपि कार्मुकं विशिखैस्त्रिभिः ॥८६॥
पुनश्चर्मासिमादाय यमो हंतुमथाऽऽगमत् ॥
तं दृष्ट्वा तु नृपः क्रुद्धः पुनश्छित्त्वाऽसिचर्मणी ॥८७॥
निचखान ललाटे च शरं कालोरगप्रभम् ॥
यमस्तेनाऽऽहतः क्रुद्धस्ततो दंडमुपाददे ॥
ब्रह्मास्त्रेण च संमंत्र्य दण्डं तस्मै मुमोच ह ॥८८॥
हाहाकारो महानासीज्जनानां पश्यतां तदा ॥
तदा विष्णुः स्वभक्तस्य रक्षायै प्राहिणोदरि ॥८९॥
विष्णुमुक्तं तदा चक्रं शीघ्रमागत्य तद्रणे ॥
यमदण्डेन संयुध्य तद्ब्रह्मास्त्रं निवार्य च ॥९०॥
यमं हंतुमथारेभे सहस्रारं महाद्भुतम् ॥
देवभक्तस्ततो भीतस्तदाऽस्तौच्चक्रमञ्जसा ॥९१॥
सहस्रार नमस्तेऽस्तु विष्णुपाणिविभूषण ॥
त्वं सर्वलोकरक्षायै हरिणा च धृतं पुरा ॥९२॥
त्वां याचेऽद्य यमं त्रातुं विष्णुभक्तं महाबलम् ॥९३॥
नृणां देवद्रुहां कालस्त्वमेव हि न चाऽपरः॥
तस्मादेनं यमं रक्ष कृपां कुरु जगत्पते ॥९४॥
नृपेणैवं स्तुतं चक्रं यमं हित्वा नृपांतिकम् ॥
पुनर्ययौ महाराज देवानां पश्यतां दिवि ॥९५॥
ततो यमोऽतिनिर्विण्णो ब्रह्मणः सदनं ययौ ॥
स ददर्श समासीनं मूर्तामूर्तजनैर्वृतम् ॥९६॥
धुवाश्रयं जगद्बीजं सर्वलोकपितामहम्॥
उपास्यमानं विबुधैर्लोकपालैर्दिगीश्वरैः ॥९७॥
इतिहासपुराणाद्यैर्देवैर्विग्रहसंस्थितैः ॥
मूर्तिमद्भिः समुद्रैश्च नदीभिश्च सरोवरैः ॥९८॥
देहवद्भिस्तथा वृक्षैरश्वत्थाद्यैरशेषितैः ॥
वापीकूपतडागैश्च मूर्तिमद्भिश्च पर्वतैः ॥९९॥
अहोरात्रैस्तथा पक्षैर्मासैः संवत्सरैस्तथा ॥
कलाकाष्ठा निमेषैश्च ऋतुभिश्चाऽयनैर्युगैः ॥१००॥
संकल्पैश्च विकल्पैश्च निमिषोन्मेषणैस्तथा ॥
ऋक्षैर्योगैश्च करणैः पूर्णिमाभिः सुसंक्षयैः ॥१०१॥
सुखैर्दुःखैर्भयैश्चैव लाभाऽलाभैर्जयाजयैः॥
सत्त्वेन रजसा चैव तमसा च समन्वितम् ॥१०२॥
शांतमूढाऽतिप्रौढैश्च विकारैः प्राकृतैरपि ॥
वायुना देवदेवेन श्लेष्मपित्तादिभिर्वृतम् ॥१०३॥
तेषां मध्येऽविशत्सौरिः सव्रीडा च वधूर्यथा ॥
विलोकयन्धरापृष्ठं म्लानवक्त्रं व्यदर्शयत् ॥१०४॥
संप्रविष्टं यमं दृष्ट्वा सकाशस्थं सहानुगम् ॥
विस्मितास्ते मिथः प्रोचुः किमर्थं भास्करिस्त्विह ॥१०५॥
संप्राप्तो लोककर्तारं द्रष्टुं देवं पितामहम् ॥
निर्व्यापारः क्षणमपि योऽयं नास्ति रवेः सुतः ॥१०६॥
सोऽयमभ्यागतः कस्मात्कच्चित्क्षेमं दिवौकसाम् ॥
आश्चर्याऽतिशयोऽयं च संमार्जितपटस्त्वयम् ॥१०७॥
लेखकस्तमनुप्राप्तो दैन्येन महताऽन्वितः ॥
न कदाचित्पटो ह्यस्य मार्जितो धर्मभीरुणा ॥१०८॥
यन्न दृष्टं श्रुतं वाऽपि तदिहाऽद्य प्रपद्यते ॥
एवमुच्चरतां तेषां भूतानां भूतशासनः ॥
निष्पपाताऽग्रतो भूमौ ब्रह्मणो रविनंदनः ॥१०९॥
कृत्तमूलो यथा शाखी त्राहित्राहीति वै रुदन्॥
परिभूतोऽस्मि देवेश संमार्जितपटःकृतः ॥११०॥
त्वयि नाथे न विफलं पश्यामि कमलासन ॥१११॥
एवमुक्त्वा हि निश्चेष्टो बभूव नृपसत्तम ॥
ततः कोलाहलः शब्दः सभायां समजायत ॥११२॥
यो हि खेदयते मर्त्यान्सर्वान्स्थावरजंगमान् ॥
स वै रुदति दुःखार्तः कस्माद्वैवस्वतो यमः ॥१३४॥
जनसंतापकर्त्ता यः सोचिराद्यात्यशोभनम् ॥
नहि दुष्कृतकर्त्ता हि नरः प्राप्नोति शोभनम् ॥११४॥
ततो निवारयामास वायुस्तेषां वचस्तदा ॥
लोकानां समवेतानां मतं ज्ञात्वा स वेधसः ॥११५॥
निवार्य लोकान्मार्तंडि शनैरुत्थापयन्मरुत् ॥
भुजाभ्यां शालपीनाभ्यां लोकसूत्र उदारधीः ॥११६॥
विह्वलं तं परायत्तमासने संन्यवेशयत् ॥
आसनस्थमुवाचेदं व्योमसूनू रवेः सुतम् ॥११७॥
केन त्वमभिभूतोऽसि केन स्थानान्निवारितः ॥
केनाऽयं मार्जितो देव पटो लेखपटस्तव ॥११८॥
ब्रूहि सर्वमशेषेण कुतो हैतोस्त्वमागतः ॥
यः प्रभुस्तात सर्वेषां स ते कर्ता ममाऽपि च ॥
अपि कस्माच्च मार्तंडे दुःखं हृदयसंस्थितम् ॥११९॥
स एवमुक्तः श्वसनेन सत्यमादित्यसूनुर्वचनं बभाषे ॥
विलोक्य वक्त्रं कुशकेतुसूनोः सगद्गदं चेदमहोऽतिदीनम् ॥१२०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे कीर्तिमद्विजयवर्णनंनामैकादशोऽध्यायः ॥११॥
N/A
References : N/A
Last Updated : November 11, 2024
TOP