वैशाखमासमाहात्म्यम् - अध्याय ७
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ नारद उवाच ॥
राजा तदद्भुतं दृष्ट्वा मैथिलो धर्मवित्तमः ॥
कृताञ्जलिः सुखासीनं विस्मितो वाक्यमब्रवीत् ॥१॥
॥ मैथिल उवाच ॥
दृष्टमेतन्महाश्चर्यं साधूनां चरितं तथा ॥
येन धर्मेण मुक्तोऽभूद्राजा चेक्ष्वाकुनन्दनः ॥२॥
तं धर्मं विस्तरेणैव श्रोतुं कौतूहलं हि मे ॥
मह्यं श्रद्धावते विद्वत्कृपया विस्तराद्वद ॥३॥
इति राज्ञा सुसंपृष्टः श्रुतदेवो महामनाः ॥
साधुसाध्विति संभाष्य व्याजहार नृपोत्तमम् ॥४॥
॥ श्रुतदेव उवाच ॥
सम्यग्व्यवसिता बुद्धिस्तव राजर्षिसत्तम ॥
वासुदेवप्रियान्धर्माञ्छ्रोतुं यस्मान्मतिस्तव ॥५॥
बहुजन्मार्जितं पुण्यं विना कस्यापि देहिनः ॥
वासुदेवकथालापे मतिनैवोपजायते ॥६॥
यूने राजाधिराजाय जातेयं मतिरीदृशी ॥
शुद्धं भागवतं मन्ये तेन त्वां साधुसत्तमम् ॥७॥
तस्मात्तुभ्यं ब्रुवे सौम्य धर्मान्भागवताञ्च्छुभान् ॥
याञ्ज्ञात्वा मुच्यते जंतुर्जन्मसंसारबन्धनात्॥ ८॥
यथा शौचं यथा स्नानं यथा सन्ध्या च तर्पणम् ॥
अग्निहोत्रं यथा श्राद्धं तथा वैशाखसत्क्रियाः ॥९॥
वैशाखे माधवे धर्मानकृत्वा नोर्ध्वगो भवेत् ॥
न वैशाखसमो धर्मो धर्मजातेषु विद्यते ॥१०॥
संत्येव बहवो धर्माः प्रजाश्चाराजका इव ॥
उपद्रवैश्च लुप्यंति नात्र कार्या विचारणा ॥११॥
सुलभाः सकला धर्माः कर्तुं वैशाखचोदिताः ॥
उदकुम्भं प्रपादानं पथिच्छायादिनिर्मितिः ॥१२॥
उपानत्पादुकादानं छत्रव्यजनयोस्तथा॥
तिलयुक्तमधोर्दानं गोरसानां श्रमापहम् ॥१३॥
वापीकूपतडागादिकरणं पथिकाश्रयम्॥
नारिकेलेक्षुकर्पूरकस्तूरीदानमेव च ॥१४॥
गन्धानुलेपनं शय्या खट्वा दानं तथैव च ॥
तथा चूतफलं रम्यमुर्वारुक रसायनम् ॥१५॥
दानं दमनपुष्पाणां तथा सायं गुडोदकम् ॥
चित्राण्यन्नानि पूर्णायां दध्यन्नं प्रत्यहं तथा ॥१६॥
तांबूलस्य सदा दानं चैत्रदर्शे करीरकम् ॥
रवावनुदिते सूर्ये प्रातः स्नानं दिनेदिने ॥१७॥
मधुसूदनपूजा च कथायाः श्रवणं तथा ॥
अभ्यंगवर्जने चैव तथा वै पत्रभोजनम् ॥१८॥
मध्येमध्ये श्रमार्तानां वीजनं व्यजनेन च ॥
सुगंधैः कोमलैः पुष्पैः प्रत्यहं पूजनं हरेः ॥१९॥
फलं दध्यन्न नैवेद्यं धूपदीपौ दिनेदिने ॥
गोग्रासं वृषपत्नीनां द्विजपादावनेजनम् ॥२०॥
गुडनागरदानं च धात्रीपिष्टप्रदापनम् ॥
पथिकानां प्रश्रयं च दानं तन्दुल शाकयोः ॥
एते धर्माः प्रशस्ता हि वैशाखे माधवप्रिये ॥२१॥
तथा च विष्णौः कुसुमार्पणं हरेः पूजा च कालोचित पल्लवाद्यैः ॥
दध्यन्ननैवेद्यनिवेदनं च समस्तपापौघ विनाशहेतुः ॥२२॥
नारी पुष्पैर्माधवं नार्चयेद्या कालोत्पन्नैर्मन्दिरे वा गृहे वा ॥
पुत्रं सौख्यं क्वाऽपि नाप्नोति हंति चायुर्भर्तुः स्वात्मनो वा महात्मन् ॥२३॥
रमासहाये माधवे मासि विष्णौ परीक्षायै धर्मसेतोः प्रजानाम् ॥
गृहं याते मुनिभिर्दैवतैश्च काले पुष्पैर्नार्चयेद्यस्तु मूढः ॥२४॥
स मूढात्मा रौरवं प्राप्य पश्चाद्यायाद्योनिं राक्षसीं पञ्चवारम् ॥
जलं चान्नं सर्वदा देयमस्मिन्क्षुधार्तानां प्राणिनां प्राणहेतुः ॥२५॥
तिर्यग्जंतुर्जायते वार्यदानादन्नादानाज्जायते वै पिशाचः ॥
अन्नादाने चानुभूतां कथां ते ह्यहं वक्ष्ये चाद्भुतां भूमिपाल ॥२६॥
रेवातीरे मत्पिताऽभूत्पिशाचः स्वमांसाशी क्षुत्तृषाश्रांतगात्रः ॥
छायाहीने शाल्मलीवृक्षमूले ह्यन्नाभावान्नष्टचैतन्य एषः ॥२७॥
क्षुधा तृषा कर्मणा यस्य बह्वी सूक्ष्मं छिद्रं कण्ठनालस्य चाऽसीत् ॥
मांसं चान्तःकण्ठमध्ये निषण्णं कुर्यात्पीडां प्राणपर्यन्तमेव ॥२८॥
जलं दृष्ट्वा कालकूटप्रकल्पं कौप्यं शीतं वाऽपि कासारसंस्थम् ॥
तस्यास्तीरे चागतं दैवयोगाद्गङ्गायात्राकारणान्मार्गमध्ये ॥२९॥
दृष्ट्वाऽद्भुतं शाल्मली वृक्षमूले त्रुटवा त्रुट्वा भक्षयन्तं स्वमांसम् ॥
क्रोशन्तं तं बहुधा शोचमानं क्षुधातृषाव्याधितं कर्मभिः स्वैः ॥३०॥
स मां हन्तुं प्राद्रवत्पापकर्मा मत्तेजसा निहतो दुद्रुवे च ॥
तं चाऽब्रवं कृपया क्लिन्नचित्तो मा भैष्ट त्वं ह्यभयं मे हि दत्तम् ॥३१॥
कस्त्वं तात ब्रूहि सद्योऽत्र हेतुं कृच्छ्रादस्मान्मोचये मा विषीद ॥
इत्युक्तो मां प्राह पुत्रं त्वजानन्पुरानर्ते भूवराख्ये पुरे च ॥३२॥
नाम्ना मैत्रः सांकृतेर्गोत्रजोऽहं तपोविद्यादानयज्ञादिनिष्ठः ॥
मयाऽधीताध्यापिताः सर्वविद्याः कृतो मया सर्वतीर्थाऽवगाहः ॥३३॥
दत्तं नाऽन्नं मासि वैशाखसंज्ञे लोभाद्भिक्षामात्रमप्येव काले ॥
शोचे चाऽहं प्राप्य पैशाचयोनिं नाऽन्यो हेतुः सत्यमेवोक्तमङ्ग ॥३४॥
पुत्रोऽधुना वर्तते मद्गृहे च भूरिख्यातिः श्रुतदेवाऽभिधानः ॥
वाच्या तस्मै मद्दशा चाऽऽत्मजाय वैशाखान्नादानतोऽभूत्पिशाचः ॥३५॥
दृष्टस्तीरे ते पिता नर्मदाया नोर्ध्वं गतो वर्तते वृक्षमूले ॥
खादन्मांसं स्वीयमेवाऽन्वखिद्यत्पितुर्मुक्त्यै मासि वैशाखसंज्ञे ॥३६॥
प्रातः स्नात्वा पूजयित्वा च विष्णुं निर्व्याजान्मां तर्पयित्वा जलैश्च ॥
देयं चाऽन्नं द्विजवर्ये गुणाढ्ये मुक्तो यो वै याति विष्णोः पदं च ॥३७॥
इत्थं चोक्तं त्वत्पुरस्ताद्वदेति दया चैषा मत्कृते नाऽत्र शंका ॥
भद्रं भूयात्सर्वतो मंगलं ते श्रुत्वा चाऽहं भाषितं मे पितुश्च ॥३८॥
दुःखात्कायं दंडवत्पातयित्वा भृशार्तोऽहं पादयोर्भूरिकालम् ॥
निदन्निदन्भूर्यहं बाष्पनेत्रः पुत्रोऽहं ते तात दैवाऽऽगतोऽहम् ॥३९॥
कर्मभ्रष्टो भूसुराणां विनिन्द्यो नाऽभूद्यस्मात्क्लेशमोक्षः पितॄणाम् ॥
आख्याहि त्वं कर्मणा केन मुक्तो भविता वै तत्करोमि द्विजेंद्र ॥४०॥
ततः प्राह प्रीतसर्वान्तरात्मा यात्रां कृत्वा शीघ्रमागत्य गेहम् ॥
प्राप्ते मासे मेषसंस्थे च भानौ निवेद्याऽन्नं विष्णवे त्वं गुणाढ्यम् ॥४१॥
दानं देहि द्विजवर्ये महात्मंस्तस्मान्मोक्षो भविता सान्वयस्य ॥
पित्राऽऽदिष्टः कृतयात्रः स्वगेहे प्राप्याऽकरं माधवे चाऽन्नदानम् ॥४२॥
तस्मान्मुक्तो मत्पिता मां समेत्य यानारूढो ह्यभिनंद्याऽऽशिषा च ॥
गतो लोकं श्रीपतेर्दुर्विभाव्यं यस्मिन्गता न निवर्तंति भूयः ॥४३॥
तस्माद्दानं सर्वशास्त्रेषु चोक्तं तुभ्यं प्रोक्तं धर्मसारं सुधर्म्यम् ॥
किमन्यत्ते श्रोतुमिच्छा वदस्व श्रुत्वा सर्वं ते वदामीति सत्यम् ॥४४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे पिशाचमोक्षप्राप्तिर्नाम सप्तमोऽध्यायः ॥७॥
N/A
References : N/A
Last Updated : November 11, 2024
TOP