वैशाखमासमाहात्म्यम् - अध्याय १६
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रुतदेव उवाच ॥
तद्दर्शनाह्लादपरिप्लुताशयः सद्यः समुत्थाय ननाम मूर्ध्ना ॥
चिरं निरीक्ष्याऽऽकुललोचनो ह्यमुं विश्वात्मदेवं जगतामधीशम् ॥१॥
दधार पादाववनिज्य तज्जलं यत्पादजाऽऽब्रह्म जगत्पुनाति ॥
समर्चयामास महाविभूतिभिर्महार्हवस्त्राभरणानुलेपनैः ॥२॥
स्रग्धूपदीपामृतभक्षणादिभिस्त्वग्गात्रवित्तात्मसमर्पणेन ॥
तुष्टाव विष्णुं पुरुषं पुराणं नारायणं निर्गुणमद्वितीयम् ॥३॥
निरंजनं विश्वसृजामधीशं वन्दे परं पद्मभवादिवंदितम् ॥
यन्मायया तत्त्वविदुत्तमा जना विमोहिता विश्वसृजामधीश्वरम् ॥४॥
मुह्यंति मायाचरितेषु मूढा गुणेषु चित्रं भगवद्विचेष्टितम् ॥
अनीह एतद्बहुधैक आत्मना सृजत्यवत्यत्ति न सज्जतेऽप्यथ ॥५॥
समस्तदेवासुरसौख्यदुःखप्राप्त्यै भवान्पूर्णमनोरथोऽपि ॥
तत्राऽपि काले स्वजनाभिगुप्त्यै बिभर्षि सत्त्वं खलनिग्रहाय ॥६॥
तमोगुणं राक्षस बन्धनाय रजोगुणं निर्गुण विश्वमूर्ते ॥
दिष्ट्या त्वदंघ्रिः प्रणताघनाशनस्तीर्थास्पदं हृदि धृतः सुविपक्वयोगैः ॥७॥
उत्सिक्तभक्त्युपहृताशय जीवभावाः प्रापुर्गतिं तव पदस्मृतिमात्रतो ये ॥
भवाख्यकालोरगपाशबन्धः पुनःपुनर्जन्मजरादिदुःखैः ॥८॥
भ्रमामि योनिष्वहमाखुभक्ष्यवत्प्रवृद्धतर्षस्तव पादविस्मृतेः ॥
नूनं न दत्तं न च ते कथा श्रुता न साधवो जातु मयाऽपि सेविताः ॥९॥
तेनारिभिर्ध्वस्तपरार्ध्यलक्ष्मीर्वनं प्रविष्टः स्वगुरुह्यघं स्मरन् ॥
स्मृतौ च तौ मां समुपेत्य दुःखात्संबोधयांचक्रतुरार्तबंधू ॥१०॥
वैशाखधर्मैः श्रुतिचोदितैः शुभैः स्वर्गापवर्गादि पुमर्थहेतुभिः ॥
तद्बोधतोऽहं कृतवान्समस्ताञ्च्छुभावहान्माधवमासधर्मान् ॥११॥
तस्मादभून्मे परमः प्रसादस्तेनाखिलाः संपद ऊर्जिता इमाः ॥
नाग्निर्न सूर्यो न च चन्द्रतारका न भूर्जलं खं श्वसनोऽथ वाङ्मनः ॥१२॥
उपासितास्तेऽपि हरत्यघं चिराद्विपश्चितो घ्नन्ति मुहूर्तसेवया ॥
यान्मन्यसे त्वं भविनोऽपि भूरिशस्त्यक्तेषणांस्त्वत्पदन्यस्तचित्तान् ॥१३॥
नमः स्वतंत्राय विचित्रकर्मणे नमः परस्मै सदनुग्रहाय ॥
त्वन्मायया मोहितोऽहं गुणेषु दारार्थरूपेषु भ्रमाम्यनर्थदृक् ॥१४॥
त्वत्पादपद्मे सति मूलनाशने समस्तपापापहरं सुनिर्मलम् ॥
सुखेच्छयानर्थनिदानभूतैः सुतात्मदारैर्ममताभियुक्तः ॥१५॥
न क्वापि निद्रां लभते न शर्म प्रवृद्धतर्षः पुनरेव तस्मिन् ॥
लब्ध्वा दुरापं नरदेवजन्म त्वं यत्नतः सर्वपुमर्थहेतुः ॥१६॥
पदारविन्दं न भजामि देव संमूढचेता विषयेषु लालसः ॥
करोमि कर्माणि सुनिष्ठितः सन्प्रवृद्धतर्षस्तदपेक्षया ददत् ॥१७॥
पुनश्च भूयामहमद्य भूयामित्येव चिन्ताशतलोलमानसः॥
तदैव जीवस्य भवेत्कृपा विभो दुरंतशक्तेस्तव विश्वमूर्ते ॥१८॥
समागमः स्यान्महतां हि पुंसां भवांबुधिर्येन हि गोष्पदायते ॥
सत्संगमो देव यदैव भूयात्तर्हीश देवे त्वयि जायते मतिः ॥१९॥
समस्तराज्यापगमं हि मन्ये ह्यनुग्रहं ते मयि जातमञ्जसा ॥
यथार्य ते ब्रह्मसुरासुराद्यैर्निवृत्ततर्षैरपि हंसयूथैः ॥२०॥
इतः स्मराम्यच्युतमेव सादरं भवापहं पादसरोरुहं विभो ॥
अकिंचनप्रार्थ्यममन्दभाग्यदं न कामयेऽन्यत्तव पादपद्मात् ॥२१॥
अतो न राज्यं न सुतादिकोशं देहेन शश्वत्पतता रजोभुवा ॥
भजामि नित्यं तदुपासितव्यं पादारविंदं मुनिभिर्विचिन्त्यम् ॥२२॥
प्रसीद देवेश जगन्निवास स्मृतिर्यथा स्यात्तव पादपद्मे ॥
सक्तिः सदा गच्छतु दारकोशपुत्रात्मचिह्नेषु गणेषु मे प्रभो ॥२३॥
भूयान्मनः कृष्णपदारविन्दयोर्वचांसि ते दिव्यकथानुवर्णने ॥
नेत्रे ममेमे तव विग्रहेक्षणे श्रोत्रे कथायां रसना तदर्पिते ॥२४॥
घ्राणं च त्वपादसरोजसौरभे त्वद्भक्तगन्धादिविलेपने सकृत् ॥
स्यातां च हस्तौ तव मन्दिरे विभो संमार्ज्जनादौ मम नित्यदैव ॥२५॥
पादौ विभो क्षेत्रकथाऽनुसर्पणे मूर्धा च मे स्यात्तव वन्दनेऽनिशम् ॥
कामश्च मे स्यात्तव सत्कथायां बुद्धिश्च मे स्यात्तव चिंतनेऽनिशम् ॥२६॥
दिनानि मे स्युस्तव सत्कथोदयैरुद्गीयमानैर्मुनिभिर्गृहागतैः ॥
हीनः प्रसंगस्तव मे न भूयात्क्षणं निमेषार्द्धमथाऽपि विष्णो ॥२७॥
न पारमेष्ठ्यं न च सार्वभौमं न चापवर्गं स्पृहयामि विष्णो ॥
त्वत्पादसेवां च सदैव कामये प्रार्थ्यां श्रिया ब्रह्मभवादिभिः सुरैः ॥२८॥
इति राज्ञा स्तुतो विष्णुः प्रसन्नः कमलेक्षणः ॥
मेघगम्भीरया वाचा तमुवाच क्षितीश्वरम् ॥२९॥
॥ श्रीभगवानुवाच ॥
जाने त्वां दासवर्यं मे निष्कामुकमकल्मषम् ॥
अथाऽपि ते प्रदास्यामि वरं दैवतदुर्लभम् ॥३०॥
आयुष्यं चायुतं दिव्यं संपदश्च नरेश्वर ॥
भक्तिर्मयि दृढा भूयादन्ते सायुज्यमेव च ॥३१॥
त्वया कृतेन स्तोत्रेण मां स्तुवन्ति च ये भुवि ॥
तेषां तुष्टः प्रदास्यामि भुक्तिं मुक्तिं न संशयः ॥३२॥
तृतीयैषाऽक्षयानाम भुवि ख्याता भविष्यति ॥
यस्यां तव प्रसन्नोऽहं भुक्तिमुक्तिफलप्रदः ॥३३॥
ये कुर्वंति नरा मूढाः स्नानदानादिकाः क्रिया ॥
व्याजेनाऽपि स्वभावाद्वा यांति मत्पदमव्ययम् ॥३४॥
ये चाऽक्षयतृतीयायां पितॄनुद्दिश्य मानवाः ॥
श्राद्धं कुर्वंति तेषां वै तदानंत्याय कल्पते ॥३५॥
न चानया तिथिर्लोके समा वा नाधिका भुवि॥
अस्यां कृतं स्वल्पमपि तदक्षय्यफलं भवेत् ॥३६॥
यो गां दद्यान्नृपश्रेष्ठ ब्राह्मणाय कुटुंबिने ॥
सर्वसंपत्प्रवर्षाख्या भुक्तिमुक्तिः करे स्थिता ॥३७॥
यो हि दद्यादनड्वाहं सर्वपापविनाशनम् ॥
कालमृत्युविमुक्तः सन्दीर्घायुष्यमवाप्नुयात् ॥३८॥
वैशाखमासे यो धर्मान्कुरुते मत्प्रियावहान् ॥
तेषां मृत्युजराजन्मभयं पापं हराम्यहम् ॥३९॥
यथा वैशाखधर्मैस्तु तुष्टः स्यां सकलैरपि ॥
मासधर्मैर्न तुष्टः स्यां मासो मे माधवः प्रियः ॥४०॥
सर्वधमोज्झिता वापि ब्रह्मचर्यविवर्जिताः॥
वैशाखमासनिरता यांति मत्पदमव्ययम् ॥४१॥
यद्दुरापं तपोभिश्च सांख्ययोगैर्मखैरपि ॥
तद्धाम परमं यांति वैशाखनिरता नराः ॥४२॥
अपि पापसहस्रं वा मासोऽयं हरतेऽनघ ॥
प्रायश्चित्तविहीनं वा मत्पादस्मरणं यथा ॥४३॥
गुरूपदिष्टः कांतारे वैशाखे निरतो भवान् ॥
समाराध्य जगन्नाथं तेनाप्तमखिलं नृप ॥४४॥
धर्मेणानेन संप्रीतः प्रत्यक्षोऽहं भवामि ते ॥
भुक्त्वा भोगान्यथाकामान्देवैरपिसुदुर्लभान् ॥४५॥
इति तस्मै वरं दत्त्वा देवदेवो जनार्दनः ॥
पश्यतामेव सर्वेषां तत्रैवांतरधीयत ॥४६॥
ततो भूपालवर्योऽसौ बभूवात्यंतविस्मितः ॥
हृष्टपुष्टतनुर्भूप लब्धनष्टधनो यथा ॥४७॥
ततः शशास पृथिवीं तच्चित्तस्तत्परायणः ॥
महद्भिर्बोधितो नित्यं गुरुभिश्च निरंतरम् ॥४८॥
नान्यं प्रियतमं मेने वासुदेवमृते नृपः ॥
यत्संपर्कात्प्रिया आसन्दारामात्यसुतादयः ॥४९॥
सर्वान्धर्मांश्चकाराऽसौ वैशाखोक्तान्पुनःपुनः ॥
तेन पुण्यप्रभावेन पुत्रपौत्रादिभिर्वृतः ॥५०॥
भुक्त्वा मनोरथान्सर्वान्देवानामपि दुर्लभान् ॥
अंते जगाम सायुज्यं विष्णोर्देवस्य चक्रिणः ॥५१॥
य इदं परमाख्यानं शृण्वन्ति श्रावयंति च ॥
ते सर्वे पापनिर्मुक्ता यांति विष्णोः परं पदम् ॥५२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्वरीषसंवादे पांचालाधिपतेः सायुज्यप्राप्तिर्नाम षोडशोऽध्यायः ॥१६॥
N/A
References : N/A
Last Updated : November 11, 2024
TOP