वैशाखमासमाहात्म्यम् - अध्याय १५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रुतदेव उवाच ॥
भूयः शृणुष्व भूपाल माहात्म्यं पापनाशनम् ॥
वैशाखस्य च मासस्य वल्लभस्य मधुद्विषः ॥१॥
पुरा पांचालदेशे तु राजा पुरुयशोऽभवत् ॥
तनयो भूरियशसः पुण्यशीलस्य धीमतः ॥२॥
पितर्युपरते भूप राज्यस्थो धर्मलालसः ॥
शौर्यौदार्यगुणोपेतो धनुर्विद्याविशारदः ॥३॥
शशास पृथिवीं सर्वां स्वधर्मेण महामतिः ॥
पूर्वजन्मजलादानाद्दोषेण महता वृतः ॥४॥
संपद्धानिमवापाऽसौ कालेन कियताऽनघ ॥
हया गजा मृतिं याता महद्रोगेण पीडिताः ॥५॥
दुर्भिक्षमतुलं चासीन्निर्मानुष्यविधायकम् ॥
राज्यं कोशं तदा चाऽऽसीद्गजभुक्तकपित्थवत् ॥६॥
बलहीनं नृपं ज्ञात्वा कोशराष्ट्रविवर्जितम् ॥
तं जेतुमेष समय इति निश्चितमानसाः ॥७॥
आजग्मुः शतशो भूपा रिपवस्तस्य भूपतेः ॥
जिग्युर्युद्धेन तं भूपं पांचालविषयाधिपम् ॥८॥
पराजितस्ततो राजा विवेश गिरिगह्वरे ॥
शिखिन्या भार्यया साकं धात्र्यादिगणसंयुतः ॥९॥
अज्ञातपद्धतिश्चान्यैर्बहुदुःखसमाकुलः ॥
त्रिपंचाशत्समाश्चैव नीतास्तेन विलीयता ॥१०॥
चिन्तयामास भूपालः किमेतदिति भूरिशः ॥
कर्मणा जन्मशुद्धोऽहं मातृपितृहिते रतः ॥११॥
गुरुभक्तः सदाक्षिण्यो ब्रह्मण्यो धर्मतत्परः ॥
दयावान्सर्वभूतेषु देवभक्तो जितेन्द्रियः ॥१२॥
न भ्राता मे न पुत्रो मे न च मे सुहृदो हिताः ॥
दयापौरुषविख्याताः कुलीनस्याऽपि मे कुतः ॥१३॥
केन वा कर्मणा चाप्तं दारिद्र्यं भूरिदुःखदम् ॥
केन वाऽपजयो मेऽद्य केन वा वनवासिता ॥१४॥
इति चिन्ताकुलो राजा गुरुं सस्मार खिन्नधीः॥
याजोपयाजकौ नाम सर्वज्ञौ मुनिसत्तमौ ॥१५॥
आजग्मतुर्मुनीद्रौ तौ राज्ञाहूतौ महामती ॥
तौ दृष्ट्वा सहसोत्थाय राजा पांचालवल्लभः ॥१६॥
ननाम शिरसा भक्त्या प्रवासेनाऽतिपीडितः ॥
राजचिह्नविहीनश्च केनाप्यज्ञातपद्धतिः ॥१७॥
तूष्णीं तस्थौ मुहूर्तं हि पतित्वा भुवि पादयोः ॥
दोर्भ्यामुत्थापितस्ताभ्यां परिमृष्टाऽश्रुलोचनः ॥१८॥
विधिवत्पूजयामास वन्यैरेवाऽर्हणैः शुभैः ॥
सूपविष्टौ तु तौ विप्रौ पप्रच्छाऽऽनतकन्धरः ५११॥
ब्राह्मणौ वदतं दुःखकारणं च क्षितीशितुः ॥
कर्मणा जन्मशुद्धस्य पितृदेवप्रियस्य च ॥२०॥
पापभीरोः कृपालोश्च गुरुभक्तस्य मे कुतः ॥
दारिद्र्यं कोशहानिश्च रिपुभिश्च पराभवः ॥२१॥
कस्मादरण्यवासश्च कुत एकाकिता मम ॥
न पुत्रो न च मे भ्राता न हिताः सुहृदश्च मे ॥२२॥
दुर्भिक्षं वा कुतश्चासीद्देशे मत्पालितेऽनघे ॥
एतद्विस्तार्य मे ब्रूतं कारणं मुनिपुंगवौ ॥२३॥
इत्युक्तौ तौ मुनिश्रेष्ठौ भूतेनात्यन्तदुःखिना ॥
प्रत्यूचतुर्महात्मानौ किंचिद्ध्यानपरायणौ ॥२४॥
॥ याजोपयाजकावूचतुः ॥
शृणु भूप प्रवक्ष्यावस्तव दुःखस्य कारणम् ॥
पुरा भूप महापापी व्याधस्त्वं दशजन्मसु ॥२५॥
निष्ठुरः सर्वलोकानां सदा हिंसापरायणः ॥
धर्मलेशाकरः क्वापि न दमो न च वै शमः ॥२६॥
न जिह्वा वक्ति नामानि विष्णोर्वापि कथंचन ॥
चेतः स्मरति गोविन्दचरणांबुरुहद्वयम् ॥२७॥
न प्रणामः कृतः क्वापि शिरसा परमात्मने ॥
नवजन्मानि ते भूप गतान्येवं दुरात्मनः ॥२८॥
दशमे जन्मनि प्राप्ते व्याधस्त्वं सह्य भूधरे ॥
निष्ठुरः सर्वलोकानां नराणां त्वं नरांतकः ॥२९॥
दयाहीनः शस्त्रजीवी सदा हिंसापरायणः ॥
निर्गुणः सकलत्रस्त्वं मार्गपीडाकरः शठः॥ ३०॥
प्रजानां गौडदेश्यानां राक्षसो मानुषाशनः ॥
एवं चाब्दान्यतीतानि नैजं हितमजानतः ॥३१॥
बालापत्यमृगाणां च पक्षिणां च वधात्तव ॥
दयाहीनस्य दुर्बुद्धेर्जन्मन्यस्मिन्नपुत्रता ॥३२॥
विश्वासघातकत्वेन भ्रातरो नैव सोदराः ॥
मार्गपीडाकरत्वेन सुहृज्जनविवर्जितः ॥३३॥
साधूनां च तिरस्काराच्छत्रुभिस्ते पराजयः ॥
कदाप्यदत्तदोषेण दारिद्यं पतितं गृहे ॥३४॥
सदैवोद्वेगकारित्वात्प्रवासस्ते दुरासदः ॥
सर्वेषामप्रियत्वाच्च दुःखमत्यंतदुःसहम् ॥३५॥
निराहारोप्यतः पूर्वं सदा क्रूरेण कर्मणा ॥
तस्माद्राज्यापहारस्ते जन्मन्यस्मिन्महामते ॥३६॥
अथ ते सत्कुलीनत्वे हेतूंश्चापि ब्रवीम्यहम् ॥
यदाऽभूर्गौडदेशीयो ह्यंतिमे व्याधजन्मनि ॥३७॥
स्वकर्मनिरते क्रूरे विपिने कण्टकाविले ॥
तिष्ठत्येवं दयाहीने सर्वभूतांतके पथि ॥३८॥
वैश्यावाजग्मतुर्दिव्यौ धनाढ्यौ घर्मपीडितौ ॥
मुनिश्च कर्षणोनाम वेदवेदांगपारगः ॥३९॥
जटाचीरधरः पुण्यः कमण्डलुपरिग्रहः ॥
तान्दृष्ट्वा धनुरादाय मार्गं रुद्ध्वा व्यवस्थितः ॥४०॥
अनुद्रुत्य शरी वैश्यौ कृत्वा छिन्नशरीरकौ ॥
तयोरेकं च त्वं हत्वा गृहीत्वाऽखिल तत्पणम् ॥४१॥
अपरं हन्तुमुद्युक्ते स दुद्राव भयाद्द्रुतम् ॥
पणं गुल्मे विनिक्षिप्य भीतः प्राणपरीप्सकः ॥४२॥
कर्षणोऽपि मुनिः शीघ्रं व्याधान्मृतिविशंकया ॥
आतपे धावमानः संस्तृषाघर्मप्रपीडितः ॥४३॥
मूर्च्छामाप गलत्स्वेदः संज्ञामात्रावशेषितः ॥
विहायैनं दुद्रुवे च वैश्यो जीवनतत्परः ॥४४॥
त्वं तावनुद्रुतौ दृष्ट्वा मूर्छितं पथि भूसुरम् ॥
पणं कुत्र विनिक्षिप्तं कियद्दूरं गतो वणिक् ॥४५॥
इति पृष्टं द्विजं श्रांतमुज्जीवयितुमुद्यतः ॥
फूत्कृत्वा कर्णयोस्तस्य नागरं स्मृतिकारणम् ॥४६॥
पल्वलस्थोदकेनैव कृमिकर्दमसंयुजा ॥
नेत्रे संमृज्य श्रांतस्य पर्णैः संवीज्य तन्मुखे ॥४७॥
ससंज्ञं च मुनिं कृत्वा त्वमात्थ स्वस्थमानसः ॥
मा शंका ते मुने कार्या मत्तः शस्त्रभृतो वने ॥४८॥
निष्किंचनः सुखी लोके कुतस्ते भयमुल्बणम् ॥
भिन्नपात्रेण जीर्णेन न मे किंचिद्भविष्यति ॥४९॥
एतावद्वद मे विद्वन्वणिक्कुत्र पलायितः ॥
कुत्र गुल्मे धनं क्षिप्तं तेन शीघ्रं पलायता ॥५०॥
अन्यथा त्वां हनिष्यामि यदि मिथ्या वदिष्यसि ॥
॥ कर्षण उवाच ॥
धनं गुल्मे विनिक्षिप्तं मार्गादस्मात्पलायितः ॥५१॥
इति प्राह भयात्सोपि पृष्टः प्राणपरीप्सया॥
गच्छ विप्र सुखं मार्गं मत्तो भीतिं विहाय व ॥५२॥
इतो विदूरे सलिलं तडागे वर्तते शुभम् ॥
तत्पीत्वा सलिलं पुण्यं गच्छ ग्रामं गतश्रमः ॥५३॥
अधुनैवागमिष्यंति राजकीयाः पथा जनाः ॥
मत्पदान्वेषणे सक्ताः श्रुत्वा रावं वणिक्पतेः ॥५४॥
तृषार्तमनुगंतुं मे न शक्यं त्वां ततो द्विज ॥
वीजयानेन पर्णेन घर्मः किंचिद्गमिष्यति ॥५५॥
तस्मै दत्त्वा पलाशं च त्वमागा विपिनं पुनः ॥
तेन पुण्यप्रभावेन वैशाखे घर्मघर्घरे ॥५६॥
स्वकार्यार्थं कृतेनापि मुनेस्त्राणाय पद्धतौ ॥
जन्मासीत्ते महापुण्ये राजवंशेऽतिविस्तृते ॥५७॥
यदीच्छसि सुखं राज्यं धनधान्यादिसंपदः ॥
स्वर्गापवर्गौ यदि वा सायुज्यं वा हरेः पदम् ॥५८॥
कुरु वैशाखधर्मांस्त्वं सर्वसौख्यमवाप्स्यसि ॥
मासोऽयं माधवो नाम तृतीया चाक्षयाह्वया ॥५९॥
गां च सकृत्प्रसूताख्यां देहि विप्राय सीदते ॥
तेन ते कोशपूर्तिः स्याच्छय्यां देहि सुखं भवेत् ॥६०॥
कुरु च्छत्रप्रदानं च साम्राज्यं ते भविष्यति ॥
स्नानं कुरु यथान्यायं तथैवार्चय माधवम् ॥६१॥
देहि त्वं प्रतिमां दिव्यां कृत्वा तेन जयो भवेत् ॥
आत्मतुल्यगुणान्पुत्रान्यदि कामयसे नृप ॥६२॥
सर्वभूतहितार्थाय प्रपादानं च त्वं कुरु ॥
वैशाखोक्तानिमान्धर्मान्सम्यगाचर भूमिप ॥६३॥
तेन ते सकला लोका वशं यांति न संशयः ॥
निष्कामकेन चित्तेन यदि धर्मान्करिष्यसि ॥६४॥
वैशाखे पुण्यमासेऽस्मिन्प्रीतये मधुघातिनः ॥
प्रत्यक्षो भविता विष्णुस्तवनिर्मलचेतसः ॥६५॥
येन चाचरिताः पुंसा धर्माह्येते शुभावहाः ॥
तेषां च ह्यक्षया लोकाः पुराणे कवयो विदुः॥६६॥
एतत्सर्वं तव प्रोक्तं यथादृष्टं यथाश्रुतम् ॥
इति राजानमामंत्र्य ब्राह्मणौ च पुरोधसौ ॥६७॥
याजोपयाजकौनाम जग्मतुस्तौ यथागतौ ॥
ततो राजा महावीर्यः पुरोधोभ्यां च बोधितः ॥६८॥
वैशाखधर्मात्सकलांश्चकार श्रद्धयाऽन्वितः ॥
यथोपदिष्टं च तथा मधुसूदनमर्चयत् ॥६९॥
ततो लब्धप्रभावः सन्बंधुभिः सकलैर्वृतः ॥
पांचालनगरीं प्राप हतशेषबलान्वितः ॥७०॥
ततस्तु शत्रवो भूपा उपश्रुत्य च भूपतेः ॥
प्रवेशं च पुरस्याऽथ पुनराजग्मुरुद्धताः ॥७१॥
तदा पांचालभूपेन नृपाणामभवद्रणम्॥
जिग्ये सर्वान्महाबाहूनेक एव महारथः ॥७२॥
पलायितेषु भूपेषु नानादेशपथिष्वपि ॥
राज्ञां कोशगजानश्वान्स्वयं जग्राह वीर्यवान् ॥७३॥
अश्वानां निर्बुदं चैव गजानां च त्रिकोटिकम् ॥
रथानामर्बुदं चैव दीर्घग्रीवायुतं तथा ॥७४॥
रासभाणां त्रिलक्षाणि प्रापयामास तां पुरीम् ॥
वैशाखधर्ममाहात्म्यात्क्षणात्सर्वे च भूभृतः ॥७५॥
करदा भग्नसंकल्पाः पादाक्रांता बभूविरे ॥
सुभिक्षमतुलं चासीत्पांचालविषयेषु च ॥७६॥
एकच्छत्रमभूद्राज्यं प्रसादान्मधुघातिनः ॥
पुत्राः पंचाऽपि तस्यासञ्च्छौर्य्यौदार्यगुणान्विताः ॥७७॥
धृष्टकीर्तिर्धृष्टकेतुर्धृष्टद्युम्नस्तथाऽपरे ॥
विजयश्चित्रकेतुश्च मयूरध्वजसन्निभाः ॥७८॥
अनुरक्ताः प्रजाश्चासन्धर्मेण प्रतिपालिताः ॥
वैशाखस्य प्रतापेन प्रत्ययस्तत्क्षणादभूत् ॥७९॥
पुनश्चकार तान्धर्मान्पांचालनगरीश्वरः ॥
अकामुकेन चित्तेन प्रीतये मधुघातिनः ॥८०॥
धर्मेणानेन संतुष्टो भगवान्मधुसूदनः ॥
अक्षयायां तृतीयायां प्रत्यक्षः समजायत ॥८१॥
तं दृष्ट्वा विस्मितो भूत्वा परमात्मानमच्युतम् ॥
नारायणं चतुर्बाहुं शंखचकगदाधरम् ॥८२॥
पीतांबरधरं देवं वनमालाविभूषितम् ॥
सलक्ष्मीकं सानुगं च गरुडोपरि संस्थितम् ॥८३॥
निरीक्ष्य दुःसहं तेजः सद्यो मीलितलोचनः ॥
उत्पतन्संपतन्हर्षान्मत्तोन्मत्त इव भ्रमन् ॥८४॥
पुलकांकितसर्वांगो गलद्वाष्पाकुलेक्षणः ॥
तुष्टाव परया भक्त्या प्रांजलिः प्रणतो भुवि ॥८५॥
इति श्रीस्कांदे महा पुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमास माहात्म्ये नारदाम्बरीषसंवादे पांचालदेशाधिपतेर्जयप्राप्ति दरिद्रनाशवर्णनं नाम पंचदशोऽध्यायः ॥१५॥
N/A
References : N/A
Last Updated : November 11, 2024
TOP