वैशाखमासमाहात्म्यम् - अध्याय १२
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ यम उवाच ॥
शृणु मे वचनं नाथ लोपितोऽहं पितामह ॥
मरणादधिकं मन्ये मत्पदस्य च खण्डनम् ॥१॥
नियोगी न नियोगं हि करोति कमलासन ॥
प्रभोर्वित्तं समश्नाति स भवेत्काष्ठकीटकः ॥२॥
योऽश्नाति लोभाद्वित्तानि प्रज्ञावांश्च महीपते ॥
स तिर्यग्योनि नरके याति कल्पशतत्रयम् ॥३॥
निःस्पृहो नाऽऽचरेद्यस्तु नियोगं पद्मसंभव ॥
भुक्त्वा तु नरकान्घोरान्स पुमान्वायसो भवेत् ॥४॥
आत्मकार्यपरो यस्तु स्वामिकार्यं विलुंपति ॥
भवेद्वेश्मनि पापात्मा आखुः कल्पशतत्रयम् ॥५॥
नियोगी यश्च भूत्वा वै तिष्ठन्नित्यं स्ववेश्मनि ॥
शक्तस्तु कार्यकरणे मार्जारो जायते नरः ॥६॥
सोऽहं देव तवादेशात्प्रजा धर्मेण साधये ॥
पुण्येन पुण्यकर्तारं पापं पापेन कर्मणा ॥७॥
सम्यग्विचार्य मुनिभिर्धर्मशास्त्रान्वितैः प्रभो ॥
कल्पादौ वर्तमानस्य यातना दापयन्मम ॥८॥
कर्तुं नियोगमेवं हि त्वदीयो नैव शक्नुयाम् ॥
राज्ञा कीर्तिमता भग्नो नियोगस्तव च क्षितौ ॥९॥
भयादस्य जगन्नाथ पृथिवीं सागराम्बराम् ॥
वैशाखधर्मसहितां पालयन्वर्तते क्वचित् ॥१०॥
विहाय सर्वधर्मांश्च विहाय पितृपूजनम् ॥
विहायाऽग्निसपर्यां तु तीर्थ यात्रादिसत्क्रियाः ॥११॥
योगसांख्यावुभौ त्यक्त्वा त्यक्त्वा प्राणनिरोधनम् ॥
त्यक्त्वा होमं च स्वाध्यायं कृत्वा पापानि भूरिशः ॥१२॥
प्रयान्ति वैष्णवं लोकं कृत्वा वैशाखसत्क्रियाः ॥
मनुजाः पितृभिः सार्द्धं तथैव च पितामहैः ॥१३॥
तेषामतीतपितरः पितॄणां पितरस्तथा ॥
तथा मातामहा यांति तेषां वै जनकादयः ॥१४॥
तेषामपि च नेतारो जनित्रीणां च पूर्वजाः ॥
एतद्दुःखं पुनर्देव मम मस्तकभेदनम् ॥१५॥
प्रियायाः पितरो यान्ति मार्जयित्वा लिपिं मम ॥
पितॄणां बीजजो यस्तु धात्र्या कुक्षौ धृतो विभो ॥१६॥
यदंकेन कृतं कर्म तदेकेनैव भुज्यते ॥
तन्निरस्य कृतं सर्वं जानंस्त्वेकः कुले तु यः ॥१७॥
तारयेत्तावुभौ पक्षौ षड्विंशोपर्यलं विभो ॥
प्रियायाश्चाऽपि वै तात सर्वे वै कुक्षिसंभवाः ॥१८॥
तेऽपि सर्वे जगन्नाथ यान्ति विष्णोः परं पदम् ॥
न मे प्रयोजनं देव नियोगेनेदृशेन वै ॥१९॥
वैशाखधर्मनिरतः स मां त्यक्त्वा व्रजेद्धरिम् ॥
त्रिःसप्तकुलमुद्धत्य त्यक्तपापोऽतिशोभनः ॥२०॥
स त्यक्त्वा मम मार्गं हि प्रयाति हरिमंदिरम् ॥
न यज्ञैस्तादृशैर्देव गतिं प्राप्नोति मानवः ॥२१॥
सर्वतीर्थैर्न दानाद्यैर्न तपोभिश्च न व्रतैः ॥
अपि वा सकलैर्धर्मैर्युक्तो नाऽप्नोति तां गतिम् ॥२२॥
प्रयागपाताद्रणमध्यपाताद्भृगोश्च पातान्मरणाच्च काश्याम् ॥
न तां गतिं यांति जनाश्च सर्वे वैशाखनिष्ठेन च या प्रपद्यते ॥२३॥
प्रातः स्नात्वा देवपूजां च कृत्वा श्रुत्वा कथां मासमाहात्म्यसंज्ञाम् ॥
धर्मान्कृत्वा चोचितान्वैष्णवांश्च स वै भवेद्विष्णुलोकैकनाथः ॥२४॥
अप्रमाणमहं मन्ये लोकं विष्णोर्जगत्पतेः ॥
यो न पूर्येत कोट्योघैः सर्वतः कमलासन ॥२५॥
माधवावसथेनेह समस्तेन पितामहम् ॥
विकर्मस्थाऽविकर्मस्थाः शुचयोऽशुचयस्तथा ॥२६॥
कृत्वा वैशाखकृत्यानि लोका यान्ति नृपाऽऽज्ञया ॥
योऽस्माकं हि महच्छत्रुर्भवतां च विशेषतः॥२७॥
निग्राह्यो जगतां नाथ भवताऽसौ महीपतिः ॥
हित्वा हि सकलान्धर्मान्सकृद्वैशाखस्नानतः ॥२८॥
असंस्कृतजना यांति वैकुण्ठं हरिमंदिरम् ॥
अस्माभिस्तु कृतोपेक्षो लिणुपादैकसंश्रयः ॥२९॥
समस्तं नेष्यते लोकं पार्थिवो नात्र संशयः ॥
एष दण्डपटो ह्यद्य तव पद्भ्यां निवेदितः ३०॥
लोकपालत्वमतुलमर्जितं तेन भूभुजा॥
किमपत्येन जातेन मातुः क्लेशंकरेण वै॥३१॥
यो न पातयते शत्रुं ज्येष्ठमासीव भास्करः ॥
वृथासुता हि युवतिर्जाता चेद्धि कुपुत्रिणी ॥३२॥
न तस्याः स्फुरते कीर्तिर्घनस्येव शतह्रदा ॥
यत्पितुर्नोद्धरेत्पापाद्विद्यया वा बलेन वा ॥३३॥
मातुर्जठरजो रोगः स प्रसूतो धरातले ॥
धर्मे चाऽर्थे च कामे च यत्प्रतीपो भवेत्सुतः ॥३४॥
मातृहा ह्युच्यते सद्भिः स पुत्रः पुरुषाधमः ॥
तन्माता नृपपत्नी च लोकविख्यातसत्क्रिया ॥३५॥
एकैव वीरसूर्लोके वीरः स नात्र संशयः ॥
यथा वै कीर्तिमाञ्जातो मल्लिपेर्मार्जनाय वै ॥३६॥
नेदं व्यवसितं देव केनचित्क्षत्रियेण हि ॥
पुराणेषु जगन्नाथ न श्रुतं पटमार्जनम् ॥३७॥
सोऽहं न जानामि जगत्पतीश ऋते क्षितीशं हरितत्परं तम् ॥
प्रचोदयन्तं पटहं सुघोषाद्विलोपयानं मम वेश्ममार्गम् ॥३८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे यमदुःखनिरूपणंनाम द्वादशोऽध्यायः ॥१२॥
N/A
References : N/A
Last Updated : November 11, 2024
TOP