वैशाखमासमाहात्म्यम् - अध्याय ४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ नारद उवाच ॥
तैलाभ्यङ्गं दिवास्वापं तथा वै कांस्य भोजनम् ॥
खट्वा निद्रां गृहे स्नानं निषिद्धस्य च भक्षणम् ॥१॥
वैशाखे वर्जयेदष्टौ द्विभुऽक्तं नक्तभोजनम्॥
पद्मपत्रे तु यो भुंक्ते वैशाखे ब्रतसंस्थितः ॥२॥
स तु पापविनिर्मुक्तो विष्णुलोकं च गच्छति ॥
वैशाखे मासि मध्याह्ने श्रौतानां तु द्विजन्मनाम् ॥
पादावनेजनं कुर्यात्तद्व्रतं सुव्रतोत्तमम् ॥३॥
अध्वश्रान्तं द्विजं यस्तु मध्याह्ने स्वगृहागतम् ॥
उपवेश्यासने रम्ये कृत्वा पादावनेजनम् ॥५॥
धृत्वा शिरसि ताश्चापो विध्वस्ताखिलबंधनः ॥
गंगादिसर्वतीर्थेषु स्नातो भवति निश्चितम्॥ ६॥
अस्नायी वाऽप्यपत्राशी वैशाखं तु नयेद्यदि ॥
रासभी योनिमासाद्य पश्चादश्वतरो भवेत् ॥७॥
दृढाङ्गो रोगहीनश्च तथा स्वस्थोऽपि मानवः ॥
वैशाखे तु गृहे स्नात्वा चांडालीं योनिमाप्नुयात् ॥८॥
वैशाखे मासि राजेन्द्र मेषसंस्थे दिवाकरे ॥
न करोति बहिःस्नानं श्वानयोनिशतं व्रजेत् ॥९॥
अस्नात्वा चाप्यदत्त्वा च वैशाखो येन नीयते ॥
स पिशाचो भवेन्नूनमवैशाखादथो व्रजेत् ॥१०॥
यो न दद्याज्जलं चान्नं वैशाखे लोभमानसः ॥
पापहानिं दुःखहानिं नैवाप्नोति न संशयः ॥११॥
नदीस्नानं तु यः कुर्याद्वैशाखे विष्णुतत्परः ॥
जन्मत्रयार्जितात्पापान्मुच्यते नात्र संशयः ॥१२॥
समुद्रगनदीस्नानं कुर्यात्प्रातर्भगोदये ॥
सप्तजन्मार्जितैः पापैस्तत्क्षणादेव मुच्यते ॥१३॥
कुर्यादुषसि यः स्नानं सप्तगङ्गासु मानवः ॥
कोटिजन्मार्जितात्पापान्मुच्यते नात्र संशयः ॥१४॥
जाह्नवी वृद्धगङ्गा च कालिंदी च सरस्वती ॥
कावेरी नर्मदा वेणी सप्तगंगाः प्रकीर्तिताः ॥१५॥
देवखातेषु यः कुर्यात्प्रातर्वैशाखमज्जनम् ॥
जन्मारभ्य कृतात्पापान्मुच्यते नात्र संशयः ॥१६॥
वैशाखे मासि संप्राप्ते यो वापीष्ववगाहनम् ॥
प्रातः कुर्यान्महाराज महापातकनाशनम् ॥१७॥
अपि गोष्पदमात्रेषु बहिःस्थेषु जलेषु च ॥
तिष्ठंति सरितः सर्वा गंगाद्या इति निश्चयः ॥
इति जानन्समाप्नोति सर्वतीर्थाधिकं फलम् ॥१८॥
क्षीरं रसाधिकं क्षीरादधिकं दधि भूमिप ॥
दध्नोऽधिकं घृतं यद्वदूर्जो मासोऽधिकस्तथा ॥१९॥
कार्तिकादधिको माघो माघाद्वैशाख उत्तमः ॥
तस्मिन्मासे कृतो धर्मो वर्द्धते वटबीजवत् ॥२०॥
आढ्यो वाऽतिदरिद्रो वा परतंत्रोऽथ वा नरः ॥
यद्वस्तु लभते तेन तद्दातव्यं द्विजातये ॥२१॥
कन्दमूलफलं शाकं लवणं गुडमेव च ॥
कोलं पत्रं जलं तक्रमानंत्यायोपकल्पते ॥२२॥
नादत्तं लभते क्वापि ब्रह्माद्यैस्त्रिदशैरपि ॥२३॥
दानेन हीनो हि भवेदकिंचनो निष्किञ्चनत्वाच्च करोति पापम् ॥
पापादवश्यं नरकं प्रयाति दातव्यमस्मात्सुखमिच्छता तदा ॥२४॥
यथा गृहं सर्वगुणोपपन्नं परिच्छदैर्हीनमशोभनं तथा ॥
मासेषु धर्मः सकलेष्वनुष्ठितो वैशाखहीनस्तु वृथैव याति ॥२५॥
यथैव कन्या सकलैश्च लक्षणैर्युक्ताऽपि जीवत्पतिलक्षणा न हि ॥
क्रियाऽपि सांगा सकलाऽपि राजन्वैशाखहीना तु वृथैव तां विदुः ॥२६॥
दयाविहीनास्तु यथा गुणा वृथा वैशाखधर्मेण विना तथा क्रियाः ॥
शाकं तु यद्वल्लवणेन हीनं न रोचते सर्वगुणोपपन्नम् ॥२७॥
वैशाखहीनं तु तथैव पुण्यं न साधुसेव्यं न फलाप्तिहेतुः ॥
यद्वन्न भूषासहिताऽपि शोभते वस्त्रेण हीना ललना सुरूपा ॥
क्रियाकलापः सुकृतोऽपि पुंभिर्न भासते तन्मधुमासहीनम् ॥२८॥
तस्मात्सर्वप्रयत्नेन येन केनाऽपि जन्तुना ॥
धर्मो वैशाखमासे तु कर्तव्य इति निश्चयः ॥२९॥
मधुसूदनमुद्दिश्य मेषसंस्थे दिवाकरे ॥
प्रातः स्नात्वाऽर्चयद्विष्णुमन्यथा नरकं व्रजेत् ॥३०॥
कश्चिन्महीरथो राजा कामासक्तो जितेन्द्रियः ॥
वैशाखस्नानयोगेन वैकुण्ठं गतवान्स्वयम् ॥३१॥
वैशाखः सफलो मासो मधुसूदनदैवतः ॥
तीर्थयात्रातपोयज्ञदानहोमफलाधिकः ॥३२॥
॥प्रार्थनामंत्रः ॥
मधुसूदन देवेश वैशाखे मेषगे रवौ ॥
प्रातः स्नानं करिष्यामि निर्विघ्नं कुरु माधव ॥३३॥
॥ अर्घ्यमंत्राः ॥
वैशाखे मेषगे भानौ प्रातःस्नानपरायणः ॥
अर्घ्यं तेऽहं प्रदास्यामि गृहाण मधुसूदन ॥३४॥
गंगाद्याः सरितः सर्वास्तीर्थानि च ह्रदाश्च ये ॥
प्रगृह्णीत मया दत्तमर्घ्यं सम्यक्प्रसीदथ ॥३५॥
ऋषभः पापिनां शास्ता त्वं यमः समदर्शनः ॥
गृहाणार्घ्यं मया दत्तं यथोक्तफलदो भव ॥३६॥
इति चार्घ्यं समर्प्याथ पश्चात्स्नानं समाचरेत् ॥
वाससी परिधायाथ कृत्वा कर्माणि सर्वशः ॥३७॥
मधुसूदनमभ्यर्च्य प्रसूनैर्माधवोद्भवैः ॥
श्रुत्वा विष्णुकथां दिव्यामेतन्मासप्रशंसिनीम् ॥३८॥
कोटिजन्मार्जितात्पापान्मुक्तो मोक्षमवाप्नुयात् ॥३९॥
न जातु खिद्यते भूमौ न स्वर्गे न रसातले ॥
न गर्भे जायते क्वापि न भूयः स्तनपो भवेत् ॥४०॥
वैशाखे कांस्यभोजी यस्तथा चाश्रुतसत्कथः ॥
न स्नातो नापि दाता च नरकानेव गच्छति ॥४१॥
ब्रह्महत्यासहस्रस्य पापं शाम्येत्कथंचन ॥
वैशाखे येन न स्नातं तत्पापं नैव गच्छति ॥४२॥
स्वाधीनेन स्वकायेन जले स्वातंत्र्य वर्तिनि ॥
स्वाधीनजिह्वयोच्चार्यं हरिरित्यक्षरद्वयम् ॥४३॥
न कुर्याद्यदि वैशाखे प्रातःस्नानं नराधमः ॥
जीवन्नेव स पंचत्वमागतो नात्र संशयः ॥४४॥
येन केनाप्युपायेन माधवे मधुसूदनम्॥
नार्चयेद्यदि मूढात्मा शौकरीं योनिमाप्नुयात् ॥४५॥
योऽर्चयेत्तुलसीपत्रैर्वैशाखे मधुसूदनम् ॥
नृपो भूत्वा सार्वभौमः कोटिजन्मसु भोगवान् ॥
पश्चात्कोटिकुलैर्युक्तो विष्णोः सायुज्यमाप्नुयात्॥४६॥
विविधैर्भक्तिमार्गैश्च विष्णुं सेवेत यौ व्रतैः ॥
सगुणं निर्गुणं वाऽपि नित्यं ध्यायेदनन्यधीः ॥४७॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे वैशाखधर्मप्रशंसा नाम चतुर्थोऽध्यायः ॥४॥
N/A
References : N/A
Last Updated : November 11, 2024
TOP