वैशाखमासमाहात्म्यम् - अध्याय २४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रुतदेव उवाच ॥
तिथिष्वेतासु पुण्यासु द्वादशी सितपक्षिणी ॥
वैशाखमासे राजेंद्र सर्वाघौघविनाशिनी ॥१॥
किं दानैः किं तपोभिश्च किमुपोष्यैर्व्रतैश्च किम् ॥
किमिष्टैश्चैव पूर्तैश्च द्वादशी यैर्न सेविता ॥२॥
गंगायामुपरागे तु यो दद्याद्गोसहस्रकम् ॥
तत्फलं समवाप्नोति प्रातः स्नात्वा हरेर्दिने ॥३॥
यद्दत्तं चाऽर्हते चाऽन्नं द्वादश्यां च सिते शुभे ॥
सिक्थेसिक्थे भवेत्तस्य कोटिब्राह्मणभोजनम्॥४॥
यो दद्यात्तिलपात्रं तु द्वादश्यां मधुसंयुतम् ॥
निर्धूताऽखिलबंधस्तु विष्णुलोके महीयते ॥५॥
एकादश्यां सिते पक्षे कुर्य्याज्जागरणं हरेः ॥
स जीवन्नेव मुक्तः स्यात्तुष्टाः स्युः सर्वदेवताः ॥६॥
कोटींदुसूर्यग्रहणे तीर्थान्युत्प्लाव्य यत्फलम् ॥
तत्फलं समवाप्नोति प्रातः स्नात्वा हरेर्दिने ॥७॥
तुलस्याः कोमलैः पत्रैर्द्वादश्यां विष्णुमर्चयेत् ॥
समस्तकुलमुद्धृत्य विष्णुलोकाऽधिपो भवेत् ॥८॥
( क्षेपकः-तुलसीपत्रपुष्पैश्च वैशाखेऽश्वत्थपूजनम् ॥
पुष्पाद्यभावे धान्यैर्वा पूजयेन्मधुसूदनम् ॥१॥)
यमं पितॄन्गुरून्देवान्विष्णुमुद्दिश्य मानवः ॥
माधवे शुक्लद्वादश्यां सोदकुंभं सदक्षिणम्॥ ९॥
दध्यन्नं चैव यो दद्यात्तस्य पुण्यफलं शृणु॥
प्रयागे प्रत्यहं चैव कुर्याद्यः कोटिभोजनम् ॥१०॥
यावत्संवत्सरं पुण्यं षड्रसान्नैर्मनोरमैः ॥
तत्फलं समवाप्नोति मधुशासनशासनात् ॥११॥
शालिग्रामशिलादानं यः कुर्याद्द्वादशीदिने ॥
वैशाखे शुक्लपक्षे तु सर्वपापैः प्रमुच्यते ॥१२॥
द्वादश्यां पयसा यस्तु स्नापयेन्मधुसूदनम् ॥
राजसूयाऽश्वमेधाभ्यां यत्फलं परिजायते ॥१३॥
त्रयोदश्यां यजेद्विष्णुं पयोदधिविमिश्रितैः ॥
शर्करामधुभिर्द्रव्यैर्मधुसूदनप्रीतये ॥१४॥
तत्फलं समवाप्नोति गंगायां नाऽत्र संशयः ॥
पंचामृतैश्च यो विष्णुं भक्त्या संस्नापयेद्विभुम् ॥१५॥
स सर्वकुलमुद्धृत्य विष्णुलोके महीयते ॥
यो दद्यात्पानकं ह्यस्यां सायाह्ने प्रीतये हरेः ॥१६॥
जीर्णपापं जहात्याशु जीर्णां त्वचमिवोरगः ॥
सायाह्ने चैव यो दद्यादुर्वारुकरसायनम् ॥१७॥
भवेन्मुक्तः कर्मबंधादुर्वारुकरसायनात् ॥
इक्षुदण्डं चूतफलं दद्याद्द्राक्षाफलानि च ॥१८॥
न विच्छित्तिः संततेः स्यात्तस्य वै शतपूरुषम् ॥
यो दद्याद्गंधलेपं तु सायाह्ने द्वादशीदिने ॥१९॥
बाह्योपघातैः सकलैर्मुच्यते नाऽत्र संशयः ॥
यत्किंचित्कुरुते पुण्यं द्वादश्यां राजसत्तम॥२०॥
माधवे तु सिते पक्षे तदक्षय्यफलं भवेत् ॥
प्रख्यातिमस्या वक्ष्यामि येन जातेति भूमिप ॥२१॥
सर्वेषां सर्वपापघ्नीं सर्वमंगलदायिनीम् ॥
पुरा काश्मीरदेशे तु द्विजो देवव्रताऽऽह्वयः ॥२२॥
तस्याऽऽसीन्मालिनी नाम तनया चारुरूपिणी ॥
ददौ तां सत्यशीलाय विप्रवर्याय धीमते ॥२३॥
तामुद्वाह्य ययौ धीमान्स्वदेशं यवनाऽऽह्वयम् ॥
रूपयौवनसंपन्ना तस्य नैव प्रियाऽभवत् ॥२४॥
सदा विद्वेषसंयुक्तस्तस्यां तिष्ठति निष्ठुरः॥
नाऽन्यस्य कस्यचिद्द्वेष्टि तां विना नृपते पतिः ॥२५॥
तस्मिन्सा क्रोधसंयुक्ता वशीकरणलंपटा॥
अपृच्छत्प्रमदा राजन्यास्त्यक्ताः पतिभिः पुरा ॥२६॥
ताभिरुक्ता तु सा भूप वश्यो भर्त्ता भविष्यति॥
अस्माकं प्रत्ययो जातो भर्तृत्यागावमानिनाम् ॥२७॥
प्रयुज्य भेषजं वश्यं नीता हि पतयः पुरा ॥
योगिनीं त्वं तु गच्छाऽद्य दास्यते भेषजं शुभम् ॥२८॥
न विकल्पस्त्वया कार्यो भविता दासवत्पतिः ॥
योगिनीमंदिरे गत्वा तासां वाक्येन भूपते ॥२९॥
प्रसादमतुलं तस्या लेभे दुश्चारिणी सती॥
शतस्तंभसमायुक्तां कुटीं भेजे त्वरान्विता ॥३०॥
सुविस्तृतां सुवर्चस्कां तथैवाऽयातयामिकाम् ॥
प्रावृता दीर्घवस्त्रेण सन्निधिं तेन योगिनी ॥३१॥
दीर्घाभिश्च सटाभिस्तु प्रावृता दीप्तिसंयुता ॥
परिचारसमोपेता वीक्षमाणा शनैःशनैः ॥३२॥
अक्षसूत्रकरा सा तु जपंती प्रार्थिता तया ॥
ददौ वश्यकरं मंत्रं क्षोभकं प्रत्ययात्मकम् ॥३३॥
ततः सा प्रणता भूत्वा दद्याद्द्रव्यांऽगुलीयकम् ॥
वज्रमाणिक्यसंयुक्तमतिरक्तप्रभान्वितम् ॥३४॥
मृदुकांचनसंयुक्तं भानुरश्मिसमद्युति ॥
ततो दृष्ट्वा तु संतुष्टा पादस्थं चांगुलीयकम् ॥३५॥
हृदयं च तया ज्ञातं तत्पतेरवमानजम् ॥
तदोक्ता हि तया भूप तापस्याहितयुक्तया॥३६॥
चूर्णो रक्षान्वितो ह्येष सर्वभूतवशंकरः॥
चूर्णं भर्तरि संयुज्य रक्षां ग्रीवाश्रयां कुरु॥३७॥
भविष्यति पतिर्वश्यो नाऽन्यां यास्यति सुन्दरीम्॥
नाऽप्रियं वदति क्वाऽपि दुश्चारिण्यास्तवाऽपि च॥३८॥
चूर्णरक्षां गृहीत्वा सा प्राप भर्तृगृहं पुनः ॥
प्रदोषे पयसा युक्तश्चूर्णो भर्तरि योजितः ॥३९॥
ग्रीवायां हि कृता रक्षा न विचारः कृतस्तया ॥
तदा स पीतचूर्णस्तु भर्त्ता नृपवरोत्तम ॥४०॥
तच्चूर्णात्क्षयरोगोऽभूत्पतिः क्षीणो दिनेदिने ॥
गुह्ये तु कृमयो जाता घोरा दुष्टव्रणोद्भवाः ॥४१॥
दिनैः कतिपयै राजन्पत्युर्नैव व्यवस्थितिः ॥
उवास स्वेच्छया साऽपि पुंश्चली दुष्टचारिणी ॥४२॥
हततेजास्ततो भर्ता तामुवाचाऽऽकुलेन्द्रियः ॥
क्रन्दमानो दिवारात्रौ दासोऽस्मि तव शोभने ॥४३॥
त्राहि मां शरणं प्राप्तं नेच्छेऽहमपरां स्त्रियम् ॥
तत्तस्य विदितं ज्ञात्वा भीता सा मेदिनीपते ॥४४॥
अलंकारकृते पत्युर्जीवनेच्छुर्न वै हिता ॥
योगिनीं च ययौ शीघ्रं तस्यै सर्वं न्यवेदयत् ॥४५॥
तया च भेषजं दत्तं द्वितीयं दाहशांतये ॥
दत्ते च भेषजे तस्मिन्स्वस्थोऽभूत्तत्क्षणात्पतिः ॥४६॥
तिष्ठत्युपपतिर्गेहे गृहकृत्याऽपदेशतः ॥
सर्ववर्णसमुद्भूता जारास्तिष्ठंति वै गृहे ॥४७॥
न किंचिद्वचने शक्तिर्भर्तुर्जाता कथंचन ॥
ततस्तेनैव दोषेण सर्वांगेषु च जज्ञिरे ॥४८॥
कृमयश्चास्थिभेत्तारः कालांतकयमोपमाः ॥
तैर्नासाजिह्वयोश्चाऽऽसीच्छेदः कर्णद्वयस्य च ॥४९॥
स्तनयोश्चांगुलीनां च पंगुत्वं चाऽपि चाऽऽगतम् ॥
तेन पंचत्वमापन्ना गता नरकयातनाः ॥५०॥
ताम्रभांडे च सा दग्धाऽयुतानि दश पंच च ॥
श्वानयोनिषु संजाता शतवारं पुनःपुनः ॥५१॥
छिन्ननासा छिन्नकर्णा कृमिमूर्द्धा निरंतरम् ॥
छिन्नपुच्छा भग्नपादा ताडिता च गृहेगृहे ॥५२॥
पश्चात्सौवीरदेशेषु पद्मबन्धोर्द्विजस्य च ॥
दास्या गृहे शुनी जाता बहुदुःखसमाकुला ॥५३॥
छिन्नकर्णा छिन्ननासा छिन्नपुच्छांघ्रिरातुरा ॥
कृमिपूर्णशिरा नित्यं कृमियोनिश्च तिष्ठति ॥५४॥
एवं त्रिंशद्गता वर्षा अस्मिञ्जन्मनि भूमिप ॥
दैवात्कर्मविपाकेन वैशाखे मेषगे रवौ ॥५५॥
शुक्लपक्षे तु द्वादश्यां पद्मबंधोस्तनूद्भवः ॥
नद्यां स्नात्वा शुचिर्भूत्वा सार्द्रवस्त्रो गृहं ययौ ॥५६॥
तुलसीवेदिकां प्राप्य पादाववनिजे निजौ ॥
वेदिकायामधो देशे सा शुनी स्वापमागता ॥५७॥
प्राक्सूर्योदयवेलायां पादोदकपरिप्लुता ॥
सद्यो ध्वस्ताऽशुभा जाता जातिस्मृतिरभूत्क्षणात् ॥५८॥
स्मृत्वा कर्म कृतं पूर्वं सा शुनी तापसं सदा ॥
चुक्रोश करुणा दीना मुने त्राहीति वै पुनः॥५९॥
स्वकर्म च मुनींद्राय स्मृत्वाचख्यौ भयाऽऽकुला॥
भर्तुर्विषप्रयोगं तु स्वस्य दुश्चरितं तथा ॥६०॥
याऽन्यापि युवती ब्रह्मन्भर्तुर्वश्यं समाचरेत् ॥
वृथाधर्मा दुराचारा पच्यते ताम्रभाजने ॥६१॥
भर्ता नाथो गुरुर्भर्ता भर्ता दैवतमुत्तमम् ॥
विक्रियां कृत्य साध्वी सा कथं सुखमवाप्नुयात् ॥६२॥
तिर्यग्योनिशतं याति कृमिकोटिशतानि च ॥
तस्माद्भूसुर कर्तव्यं स्त्रीभिर्भर्तुर्वचः सदा ॥६३॥
साऽहं पश्ये पुनर्योनिं कुत्सितां यातनान्विताम् ॥
यदि नोद्धरसे ब्रह्मन्नद्य त्वद्दृष्टिसंमुखाम् ॥६४॥
तस्मादुद्धर मां ब्रह्मन्दुष्कृतां पापचारिणीम् ॥
सुकृतस्य प्रदानेन वैशाखे शुक्लपक्षके ॥६५॥
या कृता तु त्वया ब्रह्मन्द्वादशी पुण्यवर्द्धिनी ॥
तस्यां त्वया कृतं पुण्यं स्नानदानान्नभोजनैः ॥६६॥
दुश्चारिण्या अपि ब्रह्मंस्तेन मुक्तिर्भविष्यति ॥
यस्यां तु भूसुरः स्नातः स्वगृहे मनुजः किल ॥६७॥
सर्वतीर्थफलावाप्तिं लभते नाऽत्र संशयः ॥
तप्तं दत्तं हुतं यत्र कृतं देवार्चनादि यत् ॥६८॥
तदक्षय्यफलं ज्ञेयं यत्कृतं द्वादशीदिने ॥
एवंविधफलं यत्स्यात्तद्देहि सकलं मम ॥६९॥
द्वादश्यामुपवासेन त्रयोदश्यां तु पारणात् ॥
यत्फलं स्यात्तदप्यद्धा तेन मुक्तिर्भविष्यति॥७०॥
दयां कुरु महाभाग दीनायां दीनवत्सल ॥
दीननाथो जगन्नाथो युष्मन्नाथो जनार्दनः ॥७१॥
तदीयास्तादृशा एव यथा राजा तथा प्रजाः ॥
वैवस्वतपदध्वंसिन्परित्राहि सुदुःखिताम् ॥७२॥
त्वद्वारवासिनीं दीनां शुनीं मां दीनवत्सल ॥
ब्रह्महत्यासहस्रं वा गोहत्यानां सहस्रकम् ॥७३॥
अगम्यानां च कोटीश्च दहत्येव शुभा तिथिः ॥
तस्यां कृतं महापुण्यं मह्यं दत्त्वा महामुने ॥७४॥
मामुद्धर समुद्विग्नां दीनां नाथ समुद्धर ॥
अन्ते तुभ्यं द्विजेद्राय नमउक्तिं वदाम्यहम् ॥७५॥
इति तस्या वचः श्रुत्वा शुनीमाह मुनेः सुतः ॥
स्वकृतं जंतवोश्नंति सुखदुःखात्मकं शुनि ॥७६॥
तस्मात्किमु त्वया कार्यं क्षुद्रया पापशीलया ॥
यया भर्ता वशं नीतो रक्षाचूर्णादिभिर्द्विजः ॥७७॥
साधुभ्यो यत्कृतं पापं स्वस्य दुःखकरं भवेत् ॥
साधुभ्यो यत्कृत पुण्यं स्वस्य दुःखहरं भवेत् ॥७८॥
उभयं भ्रंशतामेति पापेभ्यो यत्कृतं भवेत् ॥
शर्करामिश्रितं क्षीरं काद्रवेयनिवेदितम्॥७९॥
विषवृद्धिकरं दृष्टमेवं पापकरं भवेत ॥
वदत्येवं मुनिसुते शुनी दुःखैकरूपिणी ॥८०॥
पुनश्चुकोशोर्ध्वस्वरं तत्पित्रे बहुभाषिणी ॥
पद्मबन्धो परित्राहि शुनी तद्द्वारवासिनीम् ॥८१॥
त्वदुच्छिष्टाशिनी नित्यं त्वं पाहीति पुनःपुनः ॥
स्त्रपोष्या ये हि वर्तंते गृहस्थस्य महात्मनः ॥८२॥
तेषामुद्धरणं कार्यमिति वेदविदां मतम् ॥
चण्डाला वायसाश्चैव सारमेयाश्च नित्यशः ॥८३॥
गृहस्थानां दयापात्रं प्रत्यहं बलिभोजिनः ॥
अशक्तं नोद्धरेत्पोष्यं रोगाद्युपहतं यदि ॥८४॥
सोऽधः पतेन्न संदेह इति वेदविदां मतम् ॥८५॥
कर्तारमेकं जगतां हि कर्ता कृत्वात्मना पाति समस्तजंतून् ॥
दारादिरूपव्यपदेशतो हरिस्तस्मात्तदाज्ञा खलु पोष्यरक्षा ॥८६॥
स्वपोष्यरक्षां परिहृत्य जंतुर्देवेन क्लृप्त्या यदि वर्ततेऽन्यधीः ॥
स देवद्रोग्धा सकलस्य हंता कीनाशलोकाननु संप्रयाति ॥८७॥
कर्तव्यत्वाद्दयालुत्वादेतामुद्धर दुर्मतिम् ॥
इति तस्या वचः श्रुत्वा दुःखार्ताया गृहे सुतः ॥
निश्चक्राम गृहात्तूर्णं पद्मबंधुर्दयानिधिः ॥८८॥
किमेतदिति तां प्राह पुत्रः सर्वं न्यवेदयत् ॥
स तु पुत्रवचः श्रुत्वा तमेवं प्राह विस्मितः ॥८९॥
॥ पद्मबन्धुरुवाच ॥
ममात्मज कथं वाक्यमीदृशं व्याहृतं त्वया ॥
न साधूनामिदं वाक्यं भवतीह वरानन ॥९०॥
आत्मसौख्यकराः पापा भवंति परिभाविता ॥
पश्य पुत्र जनाः सर्वे परोपकरणाय वै ॥९१॥
शशी सूर्योऽथ पवनो रजनी हुतभुग्जलम् ॥
चंदनं पादपाः संतः परोपकरणे स्थिताः ॥९२॥
अस्थिदानं कृतं पुत्र कृपया हि दधीचिना ॥
देवानामुपकाराय ज्ञात्वा दैत्यान्महाबलान् ॥९३॥
कपोताऽर्थे स्वमांसानि शिबिना भूभुजा पुरा ॥
प्रदत्तानि महाभाग श्येनाय क्षुधितानि वै ॥९४॥
जीमूतवाहनो राजा पुराऽऽसीत्क्षितिमंडले ॥
तेनाऽपि जीवितं दत्तं गरुडाय महात्मने ॥९५॥
तस्माद्दयालुना भाव्यं भूसुरेण विपश्चिता ॥
शुद्धे वर्षति देवस्तु किमशुद्धे न वर्षति ॥९६॥
किन्न दीपयते चन्द्रश्चंडालानां गृहे सदा ॥
तस्मादहं शुनीमेतां याचंतीं च पुनः पुनः ॥९७॥
उद्धरिष्ये निजैः पुण्यैः पंकमग्नां च गां यथा ॥
इति पुत्रं निराकृत्य प्रतिजज्ञे महामतिः ॥९८॥
दत्तं दत्तं महापुण्यं द्वादशीदिनसंभवम् ॥
शुनि गच्छ हरेर्धाम निर्धूताऽखिलकल्मषा ॥९९॥
तद्वाक्यात्सहसा भूप दिव्याऽऽभरणभूषिता ॥
विमुच्य देहं जीर्णं तु दिव्यरूपधरा शुभा ॥१००॥
शताऽऽदित्यप्रभा जाता सावित्रीप्रतिमा यथा ॥
जगामाऽऽमंत्र्य तं विप्रं द्योतयन्ती दिशो दश ॥१॥
भुक्त्वा दिवि महाभोगान्पश्चाजाता महीतले ॥
नरनारायणाद्देवादुर्वशीनाम नामतः ॥२॥
वैशाखशुद्धद्वादश्याः प्रभावेण वरांगना ॥
देवानां च प्रिया जाता अप्सरस्त्वं च सा ययौ ॥३॥
यद्योगिगम्यं हुतभुक्प्रकाशं वरं वरेण्यं परमार्थरूपम् ॥
यत्प्राप्य सन्तोऽपि हि यांति मोहं तत्प्राप रूपं च शुनी हि देवी ॥४॥
पश्चात्स पद्मबंधुर्हि तां तिथिं पुण्यवर्द्धिनीम् ॥
लोवेटीं ख्यापयामास मधुद्विट्प्राणवल्लभाम् ॥५॥
कोटींदुसूर्यग्रहणाधिका सा समस्तरूपाधिकपुण्यरूपा ॥
यज्ञैः समस्तैरतिरिच्यमाना द्विजेन ख्याता भुवनत्रये च ॥१०६॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे शुनीमोक्षप्राप्तिर्नाम चतुर्विंशोऽध्यायः ॥२४॥
N/A
References : N/A
Last Updated : November 11, 2024
TOP