वैशाखमासमाहात्म्यम् - अध्याय १७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


वाल्मीके:पूर्वजन्मस्य कथा
श्रुतकीर्तिरुवाच॥
वैशाखधर्मानखिलानिहामुत्र फलप्रदा॥
भूयोऽपि शृण्वतश्चासीत्तृप्तिर्नाऽद्यापि मानद॥१॥
यत्र चाकैतवो धर्मो यत्र विष्णुकथा शुभाः॥
तच्छास्त्रं शृण्वतो नैव तृप्तिः कर्णरसायनम्॥२॥
पूर्वजन्मकृतं पुण्यं दिष्ट्या पारमुपागतम् ॥
आतिथ्यव्यपदेशेन यद्भवान्गृहमागतः॥ ३॥
वचोऽमृतं मुखांभोजनिःसृतं परमाद्भुतम्॥
पीत्वा तृप्तः पारमेष्ठ्यं मोक्षं वा च न कामये॥४॥
तस्मात्तानेव धर्मान्मे भुक्तिमुक्तिप्रदायकान्॥
विष्णुप्रीतिकरान्दिव्यान्भूयो विस्तरतो वद॥५॥
इत्युक्तस्तु पुरा राज्ञा श्रुतदेवो महायशाः॥
संहृष्टाऽऽत्मा शुभान्धर्मान्पुनर्व्याहर्तुमारभत्॥६॥
        "श्रुतदेव उवाच॥
शृणु राजन्प्रवक्ष्यामि कथां पापप्रणाशिनीम् ॥
वैशाखधर्मविषयां भावितां मुनिभिर्मुहुः॥७॥
पम्पातीरे द्विजः कश्चिच्छंखोनाम महायशाः॥**
गुरौ सिंहगते चागान्नदीं गोदावरीं शुभाम्॥८॥
तीर्त्वा भीमरथीं पुण्यां कान्तारे कण्टकाचले॥
निर्जले निर्जने घोरे वैशाखे तपकर्षितः॥९॥
वृक्षे चोपविवेशाऽसौ मध्याह्नसमये द्विजः ॥
तदा कश्चिद्दुराचारो व्याधश्चापधरः शठः॥१०॥
निर्घृणः*सर्वभूतेषु कालान्तक इवाऽपरः॥
तं कुण्डलधरं विप्रं दीक्षितं भास्करोपमम्॥११॥
दृष्ट्वा बद्ध्वा स जग्राह कुण्डलादिकमुग्रधीः॥
उपानहौ चच्छत्रं च अक्षमालां कमण्डलुम्॥१२॥
पश्चाद्विसृज्य तं विप्रं गच्छेत्याह विमूढधीः ॥१३॥
ततः स गच्छन्पथि शर्कराऽऽविले सूर्यांशुतप्ते जलवर्जिते खरे॥
सन्तप्तपादस्तृणछादिते स्थले क्वचिच्चचारोपवसन्नूर्ध्वरेताः ॥१४॥
स वै द्रुतं सम्पतन्क्वापि तुष्यन्हाहेति वादी स जगाम तूर्णम्॥
दृष्ट्वा मुनिं खिद्यमानं पृथिव्यां मध्यं गते पूष्णि दया बभूव ॥१५॥
व्याधस्य धर्मविमुखस्य च पापबुद्धेस्तस्मै ददामि सुखदां खलु पादरक्षाम्॥१६॥
चौर्येणैव स्वधर्मेण या गृहीता वनान्तरे॥
तदीयमेव तत्सर्वं व्याधानां धर्मनिर्णयः॥
तस्मादुपानहौ दास्ये मुहुर्दुःखापनुत्तये॥१७॥
तेन श्रेयो भवेद्यच्च तद्भवेन्मम पापिनः॥
जीर्णे चोपानहौ द्वे च वर्तेते पादयोर्मम॥
न ताभ्यामस्ति मे कृत्यं तस्मात्ते वै ददाम्यहम्॥१८॥
इति निश्चित्य मनसि तूर्णं गत्वा ददौ च ते॥
शर्करातप्तपादाय द्विजवर्याय सीदते ॥१९॥
उपानहौ गृहीत्वा ते निर्वृतिं च परां ययौ॥
सुखी भवेति तं व्याधमाशीर्भिरभिनन्द्य च॥२०॥
नूनं सुपक्वपुण्योऽयं वैशाखे दत्तवानमू ॥
व्याधस्यापि च दुर्बुद्धेः प्रायो विष्णुः प्रसीदति ॥२१॥*
सर्वस्याऽऽप्त्या च भूयोऽपि यत्सुखं तदभून्मम॥
ततोऽभिश्रुत्य तद्वाक्यं किमेतदिति विस्मितः॥२२॥
व्याजहार पुनर्विप्रं ब्रह्मिष्ठं ब्रह्मवादिनम् ॥
त्वदीयं तु मया दत्तं कथं पुण्यं भवेन्मम॥२३॥
प्रशंससि च वैशाखं हरिस्तुष्टो भवेदिति॥
एतदाचक्ष्व मे ब्रह्मन्को वैशाखस्तु को हरिः ॥२४॥
को धर्मः किं फलं तस्य शुश्रूषोर्मे दयानिधे॥
इति व्याधवचः श्रुत्वा शंखस्तुष्टमना अभूत्॥२५॥
प्रशंसन्स च वैशाखं पुनर्विस्मितमानसः ॥
इदानीं दत्तवान्पादत्राणे मे लुब्धकः शठः॥२६॥
यद्दुर्बुद्धेश्च वैषम्यं जातं चित्रमहो वत॥
सर्वेषामेव धर्माणां फलं जन्मांतरेषु वै॥२७॥
वैशाखमासधर्माणां फलं सद्यः क्षणे नृणाम् ॥
पापाचारस्य दु्र्बुद्धेर्व्याधस्यापि दुरात्मनः॥२८॥
दैवादुपानहोर्दानात्सत्त्वशुद्धिरभूदहो ॥
यच्च विष्णोः प्रियं कर्म यत्तत्सन्तोषनिर्मलम् ॥२९॥
तदेव धर्ममित्या हुर्मन्वाद्या धर्मवित्तमाः॥
धर्मा माधवमासीयाः प्रिया विष्णोरतीव ते॥३०॥
धर्मैर्माधवमासीयैर्यथा तुष्यति केशवः॥
न तथा सर्वदानैश्च तपोभिश्च महामखैः ॥३१॥
नानेन सदृशो धर्मः सर्वधर्मेषु विद्यते ॥
मा गयां यांतु मा गंगां मा प्रयागं तु पुष्करम् ॥३२॥
मा केदारं कुरुक्षेत्रं मा प्रभासं स्यमन्तकम् ॥
मा गोदा मा च कृष्णां च मा सेतुं मा मरुद्वृधम् ॥३३॥
वैशाखधर्ममाहात्म्यं शंसंती च कथाऽऽपगा॥
तत्र स्नातस्य वै विष्णुः सद्यो हृद्यवरुध्यते॥३४॥
मासे माधवसंज्ञेऽस्मिन्यस्त्वल्पेनैव साध्यते ॥
न तद्बहुव्ययैर्दानैर्न धर्मैर्वाऽपि वै मखैः॥३५॥
मासोऽयं माधवोनाम* व्याध पुण्यविवर्द्धनः ॥
तस्मिन्मह्यं त्वया दत्ते पादुके तापनाशने ॥३६॥
तेन ते पूर्वकालीनं पुण्यं पाकमुपागतम्॥
तुष्टस्तु भगवान्प्रायः श्रेयो व्याधविधास्यति॥३७॥
अन्यथा ते कथं भूयाद्बुद्धिरेतादृशी शुभा ॥
मुनावेवं ब्रुवाणे च मृत्युना प्रेरितो बली ॥३८॥
सिंहो व्याघ्रवधार्थाय प्राद्रवत्क्रोधविह्वलः ॥
मध्ये दृष्ट्वा च मातङ्गं दैवाद्देवेन कल्पितम् ॥३९॥
तं हंतुमुद्यतोऽगच्छत्पदाक्रांतं व्यवस्थितम्॥
तयोर्युद्धमभूद्राजन्सिंहमातंगयोर्वने॥४०॥
श्रान्तौ युद्धाच्च विरतौ निरीक्षन्तौ च तस्थतुः ॥
व्याधमुद्दिश्य यच्चोक्तं मुनिना च महात्मना॥४१॥
समस्तपातकध्वंसि दैवाच्छुश्रुवतुश्च तौ ॥
तेनैव मासमाहात्म्यश्रवणेनामलाशयौ ॥४२॥
शापान्मुक्तौ च तौ देहात्सद्यो मुक्तौ दिवं गतौ ॥
दिव्यरूपधरौ दिव्यौ दिव्यगन्धानुलेपनौ ॥४३॥
दिव्यं विमानमारूढौ दिव्यनारीनिषेवितौ॥
सद्योऽवनतमूर्द्धानौ प्राञ्जली चोपतस्थतुः॥४४॥
मुनींद्रो धर्मवक्ता च व्याधमुद्दिश्य वै पथि ॥
तौ दृष्ट्वा विस्मितः प्राह कौ युवामिति निश्चलः ॥४५॥
दुर्योनौ तु कुतो जन्म युवयोर्वा कथं मृतिः ॥
अहेतोर्विपिने चाऽस्न्मिपरस्परवधोद्यतौ ॥४६॥
एतत्सर्वं सुविस्तार्य सम्यग्वदत मेऽनघौ॥
इत्युक्तौ मुनिना तेन वचः प्रत्यूचतुः पुनः॥४७॥
मतंगस्य मुनेः पुत्रौ दन्तिलः कोहलोऽपरः ॥
शापदोषेण तौ जातौ नाम्ना दन्तिलकोहलौ ॥४८॥
रूपयौवनसंपन्नौ सर्वविद्याविशारदौ॥
आवामुद्दिश्य प्रोवाच पिता धर्मार्थकोविदः॥४९॥
मतंगोनाम ब्रह्मर्षिः सर्वधर्मविदुत्तमः ॥
वैशाखे मासि तनयौ मधुसूदनवल्लभे॥५०॥
प्रपां कुरुत मार्गे च जनान्वीजयतं क्षणम्॥
मार्गे छाया विधत्तां च भूर्यन्नं शीतलांबु च॥५१॥
कुरुतं स्नानमुषसि तथैवार्चयतं विभुम् ॥
कथां च शृणुतं नित्यं यया बन्धो निवर्तते॥५२॥
एवं च बहुभिर्वाक्यैर्बोधितावपि दुर्मती ॥
कुद्धोऽभवं दन्तिलोऽहं मत्तोऽहं कोहलाह्वयः॥ ५३॥
क्रुद्धः शशाप तौ सद्यः पिता धर्मेषु लालसः॥ ५४॥
पुत्रं च धर्मविमुखं भार्यां चाऽप्रियवादिनीम् ॥
अब्रह्मण्यं च राजानंत्यजेत्सद्यो न चेत्पतेत्५५॥
दाक्षिण्यादर्थलोभाद्वा संसर्गं ये प्रकुर्वते॥
ते सर्वे नरकं यांति यावदिंद्राश्चतुर्दश॥
इति ज्ञात्वा शशापावां मदक्रोधपरिप्लुतौ॥५६॥
कुद्धोऽयं दंतिलो भूयात्सिंहः क्रोधपरिप्लुतः॥
मत्तस्तु कोहलो भूयान्मत्तो मातंगयूथपः॥५७॥
कृतानुतापौ पश्चात्तु प्रार्थयावो विमोचनम्॥
आवाभ्यां प्रार्थितो भूयो विशापं च ददौपिता॥ ५८॥
युवां प्राप्य च दुर्योनिं कियत्कालान्तरेऽपि च ॥
संगमो भविता तत्र परस्परवधेषिणोः॥५९॥
तस्मिन्नेव हि समये संवादो व्याधशंखयोः ॥
वैशाखधर्मविषयो दैवाद्वां श्रवणेऽपि च॥६०॥
गमिष्यति क्षणादेव तस्मान्मुक्तिर्भविष्यति ॥
शापान्मुक्तौ पूर्वमेव रूपमास्थाय पुत्रकौ॥६१॥
मामेव प्राप्य वसतं नान्यथा मे वचो भवेत्॥
इति शप्तौ च गुरुणा दुर्योनिं प्राप्य दुर्मती॥६२॥
प्राप्य दैवात्संगतिं च परस्परवधैषिणौ ॥
संवादं युवयोर्दिव्यं शुभं तं शुश्रुवावहे ॥६३॥
तेन सद्यो विमुक्तिश्च क्षणादेवाऽऽवयोरभूत्॥
इति सर्वं समाख्याय प्रणम्य च मुनीश्वरम्॥६४॥
समामंत्र्याभ्यनुज्ञातौ जग्मतुः पितुरंतिकम्॥
तदेवं संप्रदृश्याह मुनिर्व्याधं दयानिधिः ॥६५॥
पश्य वैशाखमाहात्म्यश्रवणस्य फलं महत् ॥
मुहूर्तश्रवणादेव तयोर्मुक्तिः करे स्थिता ॥६६॥
इति ब्रुवाणं मुनिपुंगवं तं दयानिधिं निःस्पृहमग्र्यबुद्धिम्॥
विशुद्धसत्त्वं सुकृतैकपात्रं स न्यस्तशस्त्रः पुनराह व्याधः॥६७॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे दंन्तिलकोहलमुक्तिप्राप्तिवृत्तान्तवर्णनं नाम सप्तदशोऽध्यायः॥१७॥

N/A

References : N/A
Last Updated : November 11, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP