वैशाखमासमाहात्म्यम् - अध्याय १४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रुतदेव उवाच ॥
यः प्रातः स्नाति वैशाखे मेषसंस्थे दिवाकरे ॥
मधुसूदनमभ्यर्च्य कथां श्रुत्वा हरेरिमाम् ॥१॥
स तु पापविनिर्मुक्तो याति विष्णोः परं पदम् ॥
वाच्यमानां कथां हित्वा योऽन्यां सेवेत मूढधीः ॥२॥
रौरवं नरकं प्राप्य पैशाचीं योनिमाप्नुयात् ॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ॥३॥
पापघ्नं पावनं धर्म्यं सद्यो वंद्यं पुरातनम् ॥
पुरा गोदावरीतीरे क्षेत्रे ब्रह्मेश्वरे शुभे ॥४॥
दुर्वासशिष्यौ परमहंसौ ब्रह्मैकनिष्ठितौ ॥
सदैवोपनिषद्विद्यानिष्ठितौ निरपेक्षितौ ॥५॥
भिक्षामात्राशिनौ पुण्यौ तौ गुहावासिनावुभौ ॥
सत्यनिष्ठतपोनिष्ठाविति ख्यातौ जगत्त्रये ॥६॥
तयोर्मध्ये सत्यनिष्ठः सदा विष्णुकथापरः ॥
श्रोतॄणामप्यभावे च व्याख्यातॄणां तथा नृप ॥७॥
तदा कर्मकला नित्याः करोत्यद्धा मुनीश्वरः ॥
श्रोता चेदस्ति यः कश्चित्तस्मै व्याख्या त्यहर्निशम् ॥८॥
यदि व्याख्याति कश्चिद्वा पुण्यां विष्णुकथां शुभाम् ॥
तदा संकुच्य कर्माणि शृणोति श्रवणे रतः ॥९॥
अतिदूरस्थतीर्थानि देवतायतनानि च ॥
हित्वा कथाविरोधीनि तथा कर्माणि भूरिशः ॥१०॥
शृणोति च कथां दिव्यां श्रोतृभ्यो वक्ति वै स्वयम् ॥
विना कथां न जानाति सेव्यमन्यन्नरेश्वर ॥११॥
व्याख्याति च गृहे स्वस्य वक्ता रोगाद्युपद्रुतः ॥
कूपस्नानपरो भूत्वा शृणोत्येव कथां मुनिः ॥१२॥
कथायाश्च विरामे तु स्वकृत्यं साधयत्यलम् ॥
कथां वै शृण्वतः पुंसो जन्ममबन्धो न विद्यते ॥१३॥
सत्त्वशुद्धिस्ततो विष्णावरतिश्चैव गच्छति ॥
रतिश्च जायते विष्णौ सौहृदं चैव साधुषु ॥१४॥
नीरजं निर्गुणं ब्रह्म सद्यो हृद्यवरुध्यते ॥
ज्ञानहीनस्य वै पुंसः कर्म वै निष्फलं भवेत् ॥१५॥
बहुधा चरितं चाऽपि यथैवांधकदर्पणम् ॥
कर्माणि क्रियमाणानि बहुधा शोचितात्मभिः ॥१६॥
सत्त्वशुद्ध्यै भवंत्येव सत्त्वशुद्ध्या श्रुतिं व्रजेत् ॥
श्रुतेस्तु ज्ञानमासाद्य ज्ञात्वा ध्यानाय कल्पते ॥१७॥
बहुधा श्रवणं ध्यानं मननं श्रुतिचोदितम् ॥
यत्र विष्णुकथा नास्ति यत्र साधुजना नहि ॥१८॥
साक्षाद्गंगातटं वाऽपि त्याज्यमेव न संशयः ॥
यद्देशे तुलसी नास्ति वैष्णवं धाम वा शुभम् ॥१९॥
यत्र विष्णुकथा नास्ति मृतस्तत्र तमो व्रजेत् ॥
यद्ग्रामे वैष्णवं धाम नास्ति कृष्णमृगोऽपि वा ॥२०॥
यत्र विष्णुकथा नास्ति साधवो वा तदाश्रयाः ॥
मृतस्तत्र पुमान्क्षिप्रं श्वानयोनिशतं व्रजेत् ॥२१॥
विचार्योपनिषद्विद्यामिति निश्चित्य वै मुनिः ॥
सदा विष्णुकथाऽऽसक्तो विष्णुस्मृतिपरायणः ॥२२॥
न किंचिदधिकं जातु मन्यते श्रवणात्परम् ॥
इतरस्तु तपोनिष्ठः कर्मनिष्ठो दुराग्रही ॥२३॥
न व्याख्याति स्वयं वाऽपि न शृणोति च सत्कथाम् ॥
वाच्यमानां कथां हित्वा तीर्थस्नानाय गच्छति ॥२४॥
तीर्थेऽपि च प्रवृत्तायां कथायां भूमिपालक ॥
कर्मलोपभयाद्दूरं याति चांचल्यशक्तितः ॥२५॥
व्रजंति गृहकृत्यार्थं संगमात्परतो जनाः ॥
न श्रोतारो न वक्तारस्तस्य पार्श्वे तु कर्मिणः ॥२६॥
दुरात्मनस्तु दुर्बुद्धेः काल एवं क्षयं गते ॥
जिह्वां श्रुतिं च न क्वापि संप्राप्ता हि कथा विभोः ॥२७॥
अश्रोतृत्वादवक्तृत्वाद्दुर्बुद्धित्वाद्दुराग्रहात् ॥
पश्चात्पंचत्वमासाद्य सद्यो धर्मेण वै मुनिः ॥२८॥
पिशाचोऽभूच्छमीवृक्षे च्छिन्नकर्णाह्वयोऽबलः ॥
निराश्रयो निराहारः शुष्ककण्ठोष्ठतालुकः ॥२९॥
एवं वै खिद्यमानस्य समा दिव्यायुता गताः ॥
नापश्यत्स्वस्य त्रातारं निराहारोऽतिदुःखितः ॥३०॥
स्वकृतं चिंतयानश्च मत्तोन्मत्त इवाभ्रमत् ॥
क्षुधया पर्यटन्वाऽपि निर्वृतिं नाप मूढधीः ॥३१॥
कृशानुसदृशो वायुरंगं स्पृष्ट्वा कृतात्मनः ॥
कालाग्नितुल्या आपश्च फलपुष्पादिकं विषम् ॥३२॥
न क्वापि सुखमापेदे कर्मठो दीनधीरयम् ॥
एवं व्यवसिते तस्मिन्नरण्ये जनवर्जिते ॥३३॥
कथया रहिते क्षेत्रे स्वाश्रये साधुवर्जिते ॥
दैवादायात्सत्यनिष्ठस्तदा पैठिनसीं पुरीम् ॥३४॥
गच्छन्मार्गे ददर्शाऽसौ छिन्नकर्णं वहुव्यथम् ॥
दृष्ट्वाऽऽत्मानं द्रावयन्तं रुदंतं क्षुधयाऽऽतुरम् ॥३५॥
मा भैषीरिति चाभाष्य कोऽसीत्याह मुनीश्वरः ॥
दशेदृशी च कस्मात्ते न ते दुःखमतः परम्॥३६॥
इत्याश्वस्तोऽमुना च्छिन्नकर्णः प्राहातिविह्वलः ॥
तपोनिष्ठो यतिरहं शिष्यो दुर्वाससः परम् ॥३७॥
ब्रह्मेश्वरक्षेत्रवासी कर्मनिष्ठो दुराग्रही ॥
कर्मलोपभयान्मौढ्यान्मया दुर्बुद्धिना मुने ॥३८॥
साधुभिर्वाच्यमानाऽपि नादृता विष्णुसत्कथा ॥
न व्याख्याता च श्रोतृभ्यः कथा कर्मनिकृतंनी ॥३९॥
तेन कर्मविपाकेन महताऽहं मृतिं गतः ॥
छिन्नकर्णोऽभवं नाम्ना पिशाचो दुःखविह्वलः ॥४०॥
न पश्यामि च त्रातारं दुःखादस्मात्कथंचन ॥
तव दृष्टिपथं यातो दिष्टयाऽहं गतकल्मषः ॥४१॥
अद्य मे देवतास्तुष्टा गुरवः साधवश्च ये ॥
हरिश्च मे प्रसन्नोऽभूद्यतस्ते दर्शनं मम ॥४२॥
पपात पादयोर्भूमौ त्राहित्राहीति वै रुदन् ॥
ततस्तु कृपयाऽऽविष्टः सत्यनिष्ठो महायशाः ॥४३॥
दोर्भ्यामुत्थापयामास शंतमाभ्यां मुनीश्वरः ॥
ततस्त्वप उपस्पृश्य ददौ पुण्यमनुत्तमम् ॥४४॥
वैशाखमासमाहात्म्यश्रवणस्य मुहूर्तजम् ॥
तेन पुण्यप्रभावेन सद्यो ध्वस्ताखिलाशुभः ॥४५॥
पिशाचदेहनिर्मुक्तो दिव्यदेहधरोऽभवत् ॥
दिव्यं विमानमारुह्य तं प्रणम्य महामुनिम् ॥४६॥
आमंत्र्य च परिक्रम्य ययौ विष्णोः परं पदम् ॥
सत्यनिष्ठस्ततो धीमान्ययौ पैठिनसीं पुरीम् ॥४७॥
माहात्म्यश्रवणस्यैवं चिंतयानः पुनःपुनः ॥
॥ श्रुतदेव उवाच ॥
यत्र विष्णुकथा पुण्या शुभा लोकमलाऽपहा ॥४८॥
तत्र सर्वाणि तीर्थानि क्षेत्राणि विविधानि च ॥
यत्र प्रवहते पुण्या शुभा विष्णुकथाऽऽपगा ॥४९॥
तद्देशवासिनां मुक्तिः करसंस्था न संशयः ॥५०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे नारदाम्बरीषसंवादे कथाप्रशंसायां पिशाचमुक्तिप्राप्तिर्नाम चतुर्दशोऽध्यायः ॥१४॥


References : N/A
Last Updated : November 11, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP