नलोपाख्यानम् - पच्ञविंशतितमोsध्याय:
` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे.
बृहदश्व उवाच ।
सा नमस्कृत्य देवेभ्य: प्रहस्य नलमब्रवीत ।
अहं चैव हि यच्चान्यन्ममास्ति वसु किंचन ।
तत्सर्वैं तव विश्रब्धं कुरु प्रणयमीश्वर ॥१॥
हंसानां वचनं यत्त तन्मां दहति पार्थिव ।
त्वत्कृते हि मया वीर राजान: संनिपातिता: ॥२॥
यदि त्वं भजमानां मां प्रत्याख्यास्यसि मानद ।
विषमग्निं जलं रज्जुमास्थास्ये तव कारणात् ॥३॥
एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह ।
तिष्ठत्सु लोकपालेषु कथं मानुषमिच्छसि ॥४॥
येषामहं लोककृतामीश्वराणां महात्मनाम् ।
न पादरजसा तुल्यो मनस्ते तेषु वर्तताम् ॥५॥
विप्रियं ह्याचरन्मत्या देवानां मृत्युमृच्छति ।
त्राहि मामनवद्याङ्गिं वरयस्व सुरोत्तमान् ॥६॥
विरजांसि च वासांसि दिव्याश्चित्रा: स्त्रजस्तथा ।
भूषणानि च मुख्यानि देवान्प्राप्य तु भुङक्षस्व वै ॥७॥
य इमां पृथिवीं कृस्तानां संक्षिप्य ग्रसते पुन: ।
हुताशमीशं देवानां का तं न वरयेत्पतिम ॥८॥
यस्य दण्डभयास्तर्वे भूतग्रामा: समगता: ।
धर्ममेवानुरुध्यन्ति का तं न वरयेत्पतिम् ॥९॥
धर्मात्मानं महात्मानं दैत्यदानवमर्दनम् ।
महेन्द्रं सर्वदेवानां का तं न वरयेत्पतिम् ॥१०॥
क्रियतामविशङ्केन मनसा यदि मन्यसे ।
वरुणं लोकपालानां सुहृद्वाक्यमिदं शृणु ॥११॥
नैषधेनैवमुक्ता सा दमयन्ती वचोऽव्रवीत् ।
समाप्लुताभ्यां नेत्राभ्यां शोकजेनाथ वारिणा ॥१२॥
देवेभ्योऽहं नमस्कृत्य सर्वेभ्य: पृथिवीपते ।
वृणे त्वामेव भर्तारं सत्यमेतद्बवीमि ते ॥१३॥
तामुवाच ततो राजा वेपमानां कृताञ्जलिम् ।
दौत्येनागत्य कल्याणि कथं स्वार्थमिहोत्हे ॥१४॥
कथं ह्यहं पतिश्रुत्व देवतानां विशेषत: ।
परार्थे यत्नमारभ्य कथं स्वार्थमिहोत्सहे ॥१५॥
एष धर्मो यदि स्वार्थो ममापि भविता: तत: ।
एवं स्वार्थ करिष्यामि तथा भद्रे विधीयताम् ॥१६॥
ततो बाष्पाकुलां वाचं दयमन्ती शुचिस्मिता ।
प्रत्याहरन्ती शनकैर्नलं राजानमब्रवीत ॥१७॥
उपायोऽयं मया दृष्टो निरपायो नरेश्वर ।
येन दोषो न भविता तव राजन्कमंथन ॥१८॥
त्वं चैव हि नरश्रेष्ठ देवाश्चेन्द्रपुरोगमा: ।
आयान्तु सहिता: सव मम यत्र स्वयंवर ॥१९॥
ततोऽहं लोकपालानां संनिधौ त्वां नरेश्वर ।
वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति ॥२०॥
एवमुक्तस्तु वैदर्भ्या नलो राजा विशांपते ।
आजगाम पुनस्तत्र यत्र देवा: समागता: ॥२१॥
तमपश्यंस्तथायान्तं लोकपाला महेश्वरा: ।
दृष्टा चैनं ततोऽपृच्छन्वृत्तान्तं सर्वमेव तम् ॥२२॥
कच्चिददृष्टा त्वया राजन्दमयन्ती शुचिस्मिता ।
किमब्रवीच्च न: सर्वान्वद भूमिपतेऽनघ ॥२३॥
अथ तां व्युषितो रात्रिं नलो राजा स्वलंकृत: ।
वैदर्भ्या सहित: काले ददर्श वसुधाधिपम् ॥१॥
तं भीम: प्रतिजग्राह पुत्रवत्परया मुदा ।
यथार्ह पूजयित्वा च समाश्वासयत प्रभु: ॥२॥
तामर्हणां नलो राजा प्रतिगृह्य यथाविधि ।
परिचर्या स्वकां तस्मै यथावत्प्रत्यवेदयत् ॥३॥
ततो बभूव नगरे सुमहान्हर्षज: स्वन: ।
जनस्य संप्रह्रष्टस्य नलं दृष्टा तथागतम् ॥४॥
सिक्ता: सुमृष्टपुष्पाढ्या राजमार्गा: स्वलंकृता ।
द्वारि द्वारि च पौराणां पुष्पभग्ङ: प्रकल्पित : ॥५॥
ऋतुपर्णोsपि शुश्राव बाहुकच्छद्मिनं नलम् ।
दमयन्त्या समायुक्तं जह्र्षे च नराधिप: ॥६॥
तमानाय्य नल राजा क्षमयामास पार्थिवम् ।
दिष्ट्या समेतो दारै: स्वैर्भवानित्यभ्यनन्दत ॥७॥
कच्चित्त नापराधं ते कृतवानस्मि नैषध ।
अज्ञातवासं वसतो मद्गृहे वसुधाधिप ॥८॥
यदि वा बुध्दिपूर्वाणि यद्यबुध्दयापि कानिचित् ।
मया कृतान्यकार्याणि तानि त्वं क्षन्तुमर्हसि ॥९॥
नल उवाच ।
न मेsपराधं कृतवांस्त्वं स्वल्पमपि पार्थिव ।
कृतेsपि च न मे कोप: क्षन्तव्यं हि मया तव ॥१०॥
पूर्व ह्यपि सखा मेsसि संबन्धी च जनाधिप ।
अत ऊर्ध्व नु भूयस्त्वं प्रीतिमाहर्तुमर्हसि ॥११॥
सर्वकामै: सुविहितै: सुखमस्म्युषितस्त्वयि ।
न तथा स्वगृहे राजन्यथा तव गृहे सदा ॥१२॥
इदं चैव हयज्ञानं त्वदीयं मयि तिष्ठति ।
तदुपाकर्तुमिच्छामि मन्यसे यदि पार्थिव ॥१३॥
बृहदश्व उवाच ।
एवमुक्त्वा ददौ विद्यामृतुपर्णाय नैषध: ।
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा ॥१४॥
गृहीत्वा चाश्वह्रदयं राजन्भाग्ङासुरिनृप: ।
सूतमन्यमुपादाय ययौ स्वपुरमेव ह ॥१५॥
ऋतुपर्णे गते राजन्नलो राजा विशांपते ।
नगरे कुण्डिने कालं नातिदीर्घमिवावसत् ॥१६॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP