नलोपाख्यानम् - अष्टदशोsध्याय:
` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे.
बृहदश्व उवाच ।
अथ दीर्घस्य कालस्य पर्णादो नाम वै द्विज: ।
प्रत्येत्य नगरं भैमीमिदं वचनमब्रवीत् ॥१॥
नैषधं मृगयाणेन दमयन्ति मया नलम् ।
अयोध्यां नगरीं गत्वा भाग्ङासुरिरुपास्थित: ॥२॥
श्रावितश्च मया वाक्यं त्वदीयं स महामते ।
ऋतुपर्णो महाभागो यथोक्तं वरवर्णिनि ॥३॥
तच्छ्रुत्वा नाब्रवीत्किंचिदृतुपर्णो नराधिप: ।
न च परिषद: कश्चिद्भाष्यमाणो मयासकृत् ॥४॥
अनुज्ञातं तु मां राज्ञा विजने कश्चिदब्रवीत् ।
ऋतुपर्णस्य पुरुषो बाहुको नाम नामत: ॥५॥
सूतस्तस्य नरेन्द्रस्य विरुपो ह्रस्वबाहुक: ।
शीघ्रयानेषु कुशलो मिष्टकर्ता च भोजने ॥६॥
स विनि:श्वस्य बहुशो रुदित्वा च पुन: पुन: ।
कुशलं चैव मां पृष्टा पश्चादिदमभाषत ॥७॥
वैषम्यमपि संप्राप्ता गोपयन्ति कुलस्त्रिय: ।
आत्मानमात्मना सत्यो जितस्वर्गा न संशय: ॥८॥
रहिता भर्तृभिश्चैव न क्रुध्यन्ति कदाचन ।
प्राणांश्चारित्रकवचान्धारयन्ति वरस्त्रिय: ॥९॥
विषमस्थेन मूढेन परिभ्रष्टसुखेन च ।
यत्सा तेन परित्यक्ता तत्र न क्रोध्दुमर्हति ॥१०॥
प्राणायात्रां परिप्रेप्सो: शकुनैर्ह्रतवासस: ।
आधिभिर्दह्यमानस्य श्यामा न क्रोध्दुमर्हति ॥११॥
तस्य तद्वचनं श्रुत्वा त्वरितोsहमिहागत: ।
श्रुत्वा प्रमाणं भवती राज्ञश्चैव निवेदय ॥१२॥
एतच्छ्रुत्वाश्रुपूर्णाक्षी पर्णादस्य विशांपते ।
दमयन्ती रहोsभ्येत्य मातरं प्रत्यभाषत ॥१३॥
अयमर्थो न संवेद्यो भीमे मात: कथंचन ।
त्वत्संनिधौ नियोक्ष्येsहं सुदेवं द्विजसत्तमम् ॥१४॥
यथा न नृपतिर्भीम: प्रतिपद्देत मे मतिम् ।
तथा त्वया प्रयत्तव्यं मम चेत्प्रियमिच्छसि ॥१५॥
यथा चाहं समानीता सुदेवेनाशु बान्धवान् ।
तेनैव मग्ङलेनाशु सुदेवो यातु मा चिरम् ।
समानेतुं नलं मातरयोध्यां नगरीमित: ॥१६॥
विश्रान्तं तु तत: पश्चात्पर्णादं द्विजसत्तमम् ।
अर्चयामास वैदर्भी धनेनातीव भाविनी ॥१७॥
दमयन्त्युवाच ।
त्वया हि मे बहु कृतं यथा नान्य: करिष्यति ।
यद्भर्त्राहं समेष्यामि शीघ्रमेव द्विजोत्तम ॥१८॥
बृहदश्व उवाच ।
एवमुक्तोsथाश्वास्य तामाशीर्वादै: समग्ङलै: ।
गृहानुपययौ चापि कृतार्थ: सुमहामना: ॥१९॥
तत: सुदेवमानाय्य दमयन्ती युधिष्ठिर ।
अब्रवीत्संनिधौ मातुर्दु:खशोकसमन्विता ॥२०॥
गत्वा सुदेव नगरीमयोध्यावासिनं नृपम् ।
ऋतुपर्णी वचो ब्रूहि पतिमन्यं चिकीर्षती ॥२१॥
आस्थास्यति पुनर्भैमी दमयन्ती स्वयंवरम् ।
तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वश: ॥२२॥
तथा च गणित: काल: श्वोभूते स भविष्यति ।
यदि संभावनीयस्ते गच्छ शीघ्रमरिंदम ॥२३॥
सूर्योदये द्वितीयं सा भर्तारं वरयिष्यति ।
न हि स ज्ञायते वीरो नलो जीवति वा न वा ॥२४॥
एवं तया यथोक्तो वै गत्वा राजानमब्रवीत् ।
ऋतुपर्ण महाराज सुदेवो ब्राह्मणस्तदा ॥२५॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP