नलोपाख्यानम् - त्रयोविंशतितमोsध्याय:
` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे.
बृहदश्व उवाच ।
दमयन्ती तु तच्छ्रुत्वा भृशं शोकापरायणा ।
शग्ङमाना नलं तं वै केशिनीमिदमब्रवीत् ॥१॥
गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुके ।
अब्रुवाणा समीपस्था चरितान्यस्य लक्षय ॥२॥
न चास्य प्रतिबन्धेन देयोsग्निरपि केशिनि ।
याचते न जलं देयं सर्वथा त्वरमाणया ॥३॥
निमित्तं तत्त्वयां दृष्टं बाहुके दैवमानुषम् ।
यच्चान्यदपि पश्येथास्तच्चाख्येयं त्वया मम ॥४॥
दमयन्त्यैमुक्ता सा जगामाथ च केशिनी ।
निशम्याथ हयज्ञस्य लिग्ङानि पुनरागमत् ॥५॥
सा तत्सर्व यथावृत्तं दमयन्त्यै न्यवेदयत ।
निमित्तं यत्तया दृष्टं बाहुके दैवमानुषम् ॥६॥
केशिन्युवाच ।
दुष्टं शुच्युपचारोsसौ न मया मानुष: क्वचित् ।
दृष्टपूर्व: श्रुतो वापि दमयन्ति तथाविध: ॥७॥
हस्वमसाद्य तु द्वारं नासौ विनमते क्वचित् ।
तं तु दृष्टा यथासग्ङमुत्सर्पति यथासुखम् ॥८॥
ऋतुपर्णस्य चार्थाय भोजनीयमनेकश: ।
प्रेषितं तत्र राज्ञा तु मांसं बहु च पाशवम् ॥९॥
तस्य प्रक्षालनार्थाय कुभ्भस्तत्रोपकल्पिता: ।
ते तेनावेक्षिता: कुभ्भा: पूर्णा एवाभवंस्तत: ॥१०॥
तत: प्रक्षालनं कृत्वा समधिश्रित्य बाहुक: ।
तृणमुष्टिं समादाय सवितुस्तं समादधत् ॥११॥
अथ प्रज्वलितस्तत्र सहसा हव्यवाहन: ।
तदद्भुततमं दृष्टा विस्मिताहमिहागता ॥१२॥
अन्यच्च तस्मिन्सुमहदाश्चर्य लक्षितं मया ।
यदग्निमपि संस्पृश्य नैवासो दह्यते शुभे ॥१३॥
अतीव चान्यत्सुमहदाश्चर्य दृष्टवत्यहम् ।
यत्स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनै: ॥१४॥
मृद्यमानानि पाणिभ्य़ां तेन पुष्पाणि तान्यथ ।
भूय एव सुगन्धीनि ह्रषितानि भवन्ति हि ॥१५॥
बृहदश्व उवाच ।
दमयन्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम् ।
अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम् ॥१६॥
सा शग्ङमाना भर्तारं नल बाहुकरुपिणम् ।
केशिनी श्र्लक्ष्णया वाचा रुदती पुनरब्रवीत ॥१७॥
पुनर्गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम् ।
महानसाच्छृतं मांसं समादायैहि भाविनि ॥१८॥
सा दृष्टा बाहुके व्यग्रे तन्मांसमपकृष्य च ।
दमयन्त्यै तत: प्रादात्केशिनी कुरुनन्दन ॥१९॥
सोचिता नलिसिध्दस्य मांसस्य बहुश: पुरा ।
प्राश्य मत्वा नलं सूतं प्राक्रोशद्भृशदु:खिता ॥२०॥
वैक्लव्यं परमं गत्वा प्रक्षाल्य च मुखं तत: ।
मिथुनं प्रेषयामास केशिन्या सह भारत ॥२१॥
इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुक: ।
अभिद्रुत्य ततो राजा परिष्वज्याक्ङमानयत् ॥२२॥
बाहुकस्तु समासाद्य सुतौ सुरसुतोपमौ ।
भृशं दु:खपरीतात्मा सुस्वरं प्ररुरोद ह ॥२३॥
नैषधो दर्शयित्वा तु विकरमसकृत्तदा ।
उत्सृज्य सहसा पुत्रौ केशिनीमिदमब्रवीत् ॥२४॥
इदं सुसदृशं भद्रे मिथुनं मम पुत्रयो: ।
अतो दृष्टैव सहसा बाष्पमुत्सृष्टवानहम् ॥२५॥
बहुश: संपतन्तीं त्वां जन: शक्ङेत दोषत: ।
वयं च देशातिथयो गच्छ भद्रे यथासुखम् ॥२६॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP