संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|नलोपाख्यानम्| एकादशोsध्याय: नलोपाख्यानम् प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पच्ञमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: अष्टमोsध्याय: नवमोsध्याय: दशमोsध्याय: एकादशोsध्याय: द्वादशोsध्याय: त्रयोदशोsध्याय: चतुर्दशोsध्याय: पच्ञदशोsध्याय: षोडशोsध्याय: सप्तदशोsध्याय: अष्टदशोsध्याय: नवदशोsध्याय: विंशतितमोsध्याय: एकविंशतितमोsध्याय: द्वाविंशतितमोsध्याय: त्रयोविंशतितमोsध्याय: चतुर्विंशतितमोsध्याय: पच्ञविंशतितमोsध्याय: षडविंशतितमोsध्याय: नलोपाख्यानम् - एकादशोsध्याय: ` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे. Tags : damayantinalnalopakhyanदमयंतीनलनलोपाख्यानसंस्कृत एकादशोsध्याय: Translation - भाषांतर बृहदश्व उवाच ।अपक्रान्ते नले राजन्दमयन्ती गतक्लमा ।अबुध्यत वरारोहा संत्रस्ता विजने वने ॥१॥अपश्यमाना भर्तारं शोकदु:खसमन्विता ।प्राक्रोशदुच्चै: संत्रस्ता महाराजेति नैषधम् ॥२॥हा नाथ हा महाराज हा स्वामिन्किं जहासि माम् ।हा हतास्मि विनष्टास्मि भीतास्मि विजने वने ॥३॥ननु नाम महाराज धर्मज्ञ: सत्यवागसि ।कथमुक्त्वा तथा सत्यं सुप्तामुत्सृज्य मां गत: ॥४॥कथमुत्सृज्य गन्तासि दक्षां भार्यामनुव्रताम् ।विशेषतोsनपकृपे परेणापकृते सति ॥५॥शक्यसे ता गिरा: सम्यक्कर्तु मयि नरेश्वर ।यास्तेषां लोकपालानां संनिधौ कथिता: पुरा ॥६॥नाकाले विहितो मृत्युर्मर्त्यानां पुरुषर्षभ ।यत्र कान्ता त्वयोत्सृष्टा मुहूर्तमपि जीवति ॥७॥पर्याप्त: परिहासोsमेतावान्पुरुषर्षभ ।भीताहमतिदुर्धर्ष दर्शयात्मानमीश्वर ॥८॥दृश्यसे दृश्यसे राजन्नेष दृष्टोsसि नैषध ।आवार्य गुल्मैरात्मानं किं मां न प्रतिभाषसे ॥९॥नृशंस बत राजेन्द्र यन्मामेवंगतामिह ।विलपन्तीं समागम्य नाश्वासयसि पार्थिवं ॥१०॥न शोचाम्यहमात्मानं न चान्यदपि किंचन ।कथं नु भवितास्येक इति त्वां नृप शोचिमि ॥११॥कथं नु राजंस्तृषित: क्षुधित: श्रमकर्षित: ।सायाह्रे वृक्षमूलेषु मामपश्यन्भविष्यसि ॥१२॥तत: सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना ।इतश्चेतश्च रुदती पर्यधावत दु:खिता ॥१३॥मुहुरुत्पतते बाला मुहु: पतति बिह्लला ।मुहुरालीयते भीता मुहु: क्रोशति रोदिति ॥१४॥अतीव शोकसंतप्ता मुहुर्नि:श्वस्य दु:खिता ।उवाच भैमी नि:श्वस्य रोदमाना पतिव्रता ॥१५॥यस्यभिशापाद्दु:खार्तो दु:खं विन्दति नैषध: ।तस्य भूतस्य नो दु:खाद्दु:खमभ्यधिकं भवेत् ॥१६॥आपापचेतसं पापो य एवं कृतवान्नलम् ।तस्माद्दु:खतरं प्राप्य जीवत्वसुखजीविकाम् ॥१७॥एवं तु विलापन्ती सा राज्ञो भार्या महात्मन: ।हा हा राजन्निति मुहुरितश्चेतश्च धावति ॥१८॥तां क्रन्दमानामत्यर्थ कुररीमिव वाशतीम् ।करुणं बहु शोचन्तीं विलन्तीं मुहुर्मुहु: ॥१९॥सहसाभ्यागतां भैमीमभ्यासपरिवर्तिनीम् ।जग्राहाजगरो ग्राहो महाकाय: क्षुधन्वित: ॥२०॥सा ग्रस्यमाना ग्राहेण शोकेन च परिप्लुता ।नात्मानं शोचति तथा यथा शोचति नैषधम् ॥२१॥हा नाथ मामिह वने ग्रस्यमानामनाथवत् ।ग्राहेणानेन विजने किमर्थ नानुधावसि ॥२२॥कथं भविष्यासि पुनर्मामनुस्मृत्य नैषध ।शापान्मुक्त: पुनर्लब्ध्वा बुध्दिं चेतो धनानि च ॥२३॥श्रान्तस्य ते क्षुधार्तस्य परिम्लानस्य नैषध ।क: श्रमं राजशार्दुल नाशायिष्यति तेsनघ ॥२४॥तां तु कश्चिन्मृगव्याधो विचरन्गहने वने ।आक्रन्दमानां संश्रुत्य जवेनाभिससार ह ॥२५॥तां तु दृष्टवा तथा ग्रस्तामुरगेणायतेक्षणाम् ।मुखे तं पाटयामास शस्त्रेण निशितेण च ।निर्विचेष्टं भुजंगं तं विशस्य मृगजीवन: ॥२६॥मोक्षयित्वा स तां व्याध: प्रक्षाल्य सलिलेन च ।समाश्वास्य कृताहारामथ पप्रच्छ भारत ॥२७॥कस्य त्वं मृगशावाक्षि कथं चाभ्यागत्या वनम् ।कथं चेदं महत्कृच्छ्रं प्राप्तवत्यसि भाविनि ॥२८॥दमयन्ती तथानेन पृच्छ्यमाना विशांपते ।सर्वमेतद्यथावृत्तमावचक्षेsस्य भारत ॥२९॥तामर्धवस्त्रसंवीतां पीनश्रेणिपयोधराम् ।सुकुमारानवद्याग्ङीं पूर्णचंद्रनिभाननाम् ॥३०॥अरालपक्ष्मनयनां तथा मधुरभाषिणीम् ।लक्षयित्वा मृगव्याध: कामस्य वशमीयिवान् ॥३१॥तामेवं श्लक्ष्णया वाचा लुब्धको मृदुपूर्वया ।सान्त्वयामास कामार्तस्तदबुध्यत भाविनी ॥३२॥दमयन्ती तं दुष्टमुपलभ्य पतिव्रता ।तीव्रतोषसमाविष्टा प्रजज्वालेव मन्युना ॥३३॥स तु पापमति: क्षुद्र: प्रधर्षयितुमातुर: ।दुर्धर्षा तर्कयामास दीप्तामग्निशिखामिव ॥३४॥दमयन्ती तु दु:खर्ता पतिराज्यविनाकृता ।अतीतवाक्पथे काले शशापैनं रुषान्विता ॥३५॥यथाहं नैषधादन्यं मनसपि न चिन्तये ।तथायं पततां क्षुद्र: परासुर्मुगजीवन: ॥३६॥उक्तमात्रे तु वचने तथा स मृगजीवन: ।व्यसु: पपात मेदिन्यामग्निदग्ध इव द्रुम: ॥३७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP