संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|नलोपाख्यानम्| विंशतितमोsध्याय: नलोपाख्यानम् प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पच्ञमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: अष्टमोsध्याय: नवमोsध्याय: दशमोsध्याय: एकादशोsध्याय: द्वादशोsध्याय: त्रयोदशोsध्याय: चतुर्दशोsध्याय: पच्ञदशोsध्याय: षोडशोsध्याय: सप्तदशोsध्याय: अष्टदशोsध्याय: नवदशोsध्याय: विंशतितमोsध्याय: एकविंशतितमोsध्याय: द्वाविंशतितमोsध्याय: त्रयोविंशतितमोsध्याय: चतुर्विंशतितमोsध्याय: पच्ञविंशतितमोsध्याय: षडविंशतितमोsध्याय: नलोपाख्यानम् - विंशतितमोsध्याय: ` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे. Tags : damayantinalnalopakhyanदमयंतीनलनलोपाख्यानसंस्कृत विंशतितमोsध्याय: Translation - भाषांतर बृहदश्व उवाच ।तथा प्रयाते तु रथे तदा भाग्ङासुरिर्नृप: ।उत्तरीयमधोsपश्यद्भष्टं परपुरंजय: ॥१॥तत: स त्वरमाणस्तु पटे निपतिते तदा ।ग्रहीष्यमीति तं राजा नलमाह महामना: ॥२॥निगृह्नीष्व महाबुध्दे हयानेतान्महाजवान् ।वार्ष्णेयो यावदेनं मे पटमानयतामिह ॥३॥नलस्तं प्रत्युवाचाथ दूरे भ्रष्ट: पटस्तव ।योजनं समतिक्रान्तो नाहर्तु शक्यते पुन: ॥४॥एवमुक्तो नलेनाथ तदा भाग्ङासुरिर्नृप: ।आससाद वने राजन्फलवन्तं विभीतकम् ॥५॥तं दृष्टा बाहुकं राजा त्वरमाणोsभ्यभाषत ।ममापि सूत पश्य त्वं संख्याने परमं बलम् ॥६॥सर्व: सर्व न जानाति सर्वज्ञो नास्ति कश्चन ।नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे क्वचित् ॥७॥वृक्षेsस्मिन्यानि पर्णानि फलान्यपि च बाहुक ।पतितानि च यान्यत्र तत्रैकमधिकं शतम् ॥८॥ततो रथमवस्थाप्य राजानं बाहुकोsब्रवीत् ।परोक्षमिव मे राजन्कत्थसे शत्रुकर्षण ॥९॥प्रत्यक्षं ते महाराज शातयिष्ये विभीतकम् ।अहं हि नाभिजानामि भवेदेवं न वेति च ॥१०॥संख्यास्यामि फलान्यस्य पश्यतस्ते जनाधिप ।मुहूर्तमपि वार्ष्णेयो रश्मीन्यच्छतु वाजिनाम् ॥११॥तमब्रवीन्नृप: सूतं नायं कालो विलम्बितुम ।बाहुकस्त्वब्रवीदेनं परं यत्नं समास्थित: ॥१२॥प्रतीक्षस्व मूहुर्त त्वमथ वा त्वरते भवान् ।एष याति शिव: पन्था याहि वार्ष्णेयसारथि: ॥१३॥अब्रवीदृतुपर्णस्तु सान्त्वयन्कुरुनन्दन ।त्वमिव यन्ता नान्योsस्ति पृथिव्यामपि बाहुक ॥१४॥त्वत्कृते यातुमिच्छामि विदर्भान्हयकोविद ।शरणं त्वां प्रपन्नोsस्मि न विघ्नं कर्तुमर्हसि ॥१५॥कामं च ते करिष्यामि यन्मां वक्ष्यसि बाहुक ।विदर्भान्यदि यात्वाद्य सूर्य दर्शयितासि मे ॥१६॥अथाब्रवीद बाहुकस्तं संख्याय च विभीतकम् ।ततो विदर्भान्यास्यामि कुरुष्वैवं वचो मम ॥१७॥अकाम इव तं राजा गणयस्वेत्युवाच ह ।सोsवतीर्य रथात्तूर्ण शातयामास तं द्रुमम् ॥१८॥तत: स विस्मयविष्टो राजानमिदब्रवीत् ।गणयित्वा यथोक्तानि तावन्त्येव फलानि च ॥१९॥अत्यद्भुतमिदं राजन्दृष्टवानस्मि ते बलम् ।श्रोतुमि़च्छामि तां विद्यां ययैतज्ज्ञायते नृप ॥२०॥तमुवाच ततो राजा त्वरितो गमने नृप: ।विध्द्यक्षह्रदयज्ञं मां संख्याने च विशारदम् ॥२१॥बाहुकस्तमुवाचाथ देहि विद्यामिमां मम ।मत्तोsपि चाश्वह्रदयं गृहाण पुरुषर्षभ ॥२२॥ऋतुपर्णस्ततो राजा बाहुकं कार्यगौरवात् ।हयज्ञानस्य लोभाच्च तथेत्येवाब्रवीद्वच: ॥२३॥यथोक्तं त्वं गृहाणेदमक्षाणां ह्रदयं परम् ।निक्षेपो मेsश्वह्रदयं त्वयि तिष्ठति बाहुक ॥२४॥तस्याक्षह्रदयज्ञस्य शरीरान्नि:सृत: कलि: ।कर्कोटकविषं तीक्ष्णं मुखात्सततमुद्वमन् ॥२५॥ततो विषविमुक्तात्मा स्वं रुपमकरोत्कलि: ।तं शप्तुमैच्छत्कुपितो निषधाधिपतिर्नल: ॥२६॥तमुवाच कलिर्भीतो वेपमान: कृताञ्जलि: ।कोपं संयच्छ नृपते कीर्ति दास्यामि ते पराम् ॥२७॥इन्द्रसेनस्य जननी कुपिता माशापत्पुरा ।यदा त्वया परित्यक्ता ततोsहं भृशपीडित: ॥२८॥अवसं त्वयि राजेन्द्र सुदु:खमपराजित ।विषेण नागराजस्य दह्यमानो दिवानिशम् ॥२९॥शरणं त्वां प्रपन्नोsस्मि शृणु चेदं वचो मम ।ये च त्वां मनुजा लोके कीर्तयिष्यन्त्यतन्द्रिता: ॥३०॥मत्प्रसूतं भयं तेषां न कदाचिद्भविष्यति ।भयार्त शरणं यांत यदि मां त्वं न शप्स्यसे ॥३१॥एवमुक्तो नलो राजा न्ययच्छत्कोपमात्मन: ।ततो भीत: कलि: क्षिप्रं प्रविवेश विभीतकम् ।कलिस्त्वन्येन नादृश्यत्कथयन्नैषधेन वै ॥३२॥ततो गतज्वरो राजा नैषध: परवीरहा ।रथमारुह्य तेजस्वी प्रययौ जवनैर्हयै: ॥३३॥हयोतमानुत्पततो द्विजानिव पुन: पुन: ।नल: संनोदयामास प्रह्रष्टेनान्तरात्मना ॥३४॥विदर्भाभिमुखो राजा प्रययौ स महायशा: ।नले तु समतिक्रान्ते कलिरप्यगमदगृहम् ॥३५॥ततो गतज्वरो राजा नलोsभूत्पृथिवीपति: ।विमुक्त: कलिना राजन्रुपमात्रवियोजित: ॥३६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP