नलोपाख्यानम् - सप्तदशोsध्याय:
` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे.
सुदेव उवाच ।
विदर्भराजो धर्मात्मा भीमो नाम महाद्युति: ।
सुतेयं तस्य कल्याणी दमयन्तीति विश्रुता ॥१॥
राजा तु नैषधो नाम वीरसेनसुतो नल: ।
भार्येयं तस्य कल्याणी पुण्यश्लोकस्य धीमत: ॥२॥
स वै द्यूते जितो भ्रात्रा ह्रतराज्यो महीपति: ।
दमयन्त्या गत: सार्ध न प्राज्ञायत कर्हिचित् ॥३॥
ते वयं दमयन्त्यर्थ चराम: पृथिवीमिमाम् ।
सेयमासादिता बाला तव पुत्रनिवेशने ॥४॥
अस्या ह्येष भ्रुवोर्मध्ये सहज: पिप्लुरुत्तम: ।
श्यामाया: पद्मसंकाशो लक्षितोsन्तर्हितो मया ॥५॥
मलेन संवृतो ह्यस्याश्छन्नोsभ्रेणेव चन्द्रमा: ।
चिह्रभूतो विभूत्यर्थमयं धात्रा विनिर्मित: ॥६॥
अनेन वपुषा बाला पिल्लुनानेन सूचिता ।
लक्षितेयं मया देवी निभृतोsग्निरिवोष्मणा ॥७॥
बृहदश्व उवाच ।
तच्छ्रुत्वा वचनं तस्य सुदेवस्य विशांपते ।
सुनन्दा शोधयामास पिप्लुप्रच्छादनं मलम् ॥८॥
स मलेनापकृष्टेन पिप्लुस्तस्या व्यरोचत ।
दम्यन्त्यास्तदा व्यभ्रे नभसीफ़्व निशाकर: ॥९॥
पिप्लुं दृष्टा सुनन्दा च राजमाता च भारत ।
रुदन्त्यौ तां परिष्वज्य मुहूर्तमिव तस्थतु: ॥१०॥
उत्सृज्य बाष्पं शनकै राजमातेदब्रवीत् ।
भगिन्या दुहिता मेsसि पिप्लुनानेन सूचिता ॥११॥
अहं च तव माता च राज्ञस्तस्य महात्मन: ।
सुते दशार्णाधिपते: सुदान्मश्चारुदर्शने ॥१२॥
भीमस्य राज्ञ: सा दत्ता वीरबाहोरहं पुन: ।
त्वं तु जाता मया दृष्टा दशार्णेषु पितुर्गृहे ॥१३॥
यथैव ते पितुर्गेहं तथैव मम भाविनि ।
यथैव च ममैश्वर्य दमयन्ति तथा तव ॥१४॥
तां प्रह्रष्टेन मनसा दमयन्ती विशांपते ।
प्रणम्य मातुर्भगिनीमेदं वचनमब्रवीत् ॥१५॥
अज्ञायमानापि वासो भविष्यति न संशय: ।
चिरविप्रोषितां मातर्मामनुज्ञातुमर्हसि ॥१७॥
दारकौ च हि मे नीतौ वसंतस्तत्र बालकौ ।
पित्रा विहीनौ शोकातौ मया चैव कथं नु तौ ॥१८॥
यदि चापि प्रियं किंचिन्मयि कर्तुमिहेच्छसि ।
विदर्भान्यातुमिच्छामि शीघ्रं मे यानमादिश ॥१९॥
बाढमित्येव तामुक्त्वा ह्रष्टा मातृष्वसा नृप ।
गुप्तां बलेन महता पुत्रस्यानुमेत तत: ॥२०॥
प्रास्थापयद्राजमाता श्रीमतीं नरवाहिना ।
यानेन भरतश्रेष्ठ ह्यन्नपानपरिच्छदाम् ॥२१॥
तत: सा नचिरादेव विदर्भानगमत्पुन: ।
तां तु बन्धुजन: सर्व: प्रह्रष्ट: समपूजयत् ॥२२॥
सर्वान्कुशलिनो दृष्टा बान्धवान्दारकौ च तौ ।
मातरं पितरं चोभौ सर्व चैव सखीजनम् ॥२३॥
देवता: पूजयामास ब्राह्मणाश्च यशस्विनी ।
परेण विधिना देवी दमयन्ती विशांपते ॥२४॥
अतर्पयत्सुदेवं च गोसहस्त्रेण पार्थिव: ।
प्रीतो दृष्टैव तनयां ग्रामेण द्रविणेन च ॥२५॥
सा व्युष्टा रजनीं तत्र पितुर्वेश्मनि भाविनी ।
विश्रान्ता मातरं राजन्निदं वचनमब्रवीत्म ॥२६॥
मां चेदिच्छसि जीवन्तीं मात: सत्यं ब्रवीमि ते ।
नरवीरस्य चैतस्य नलस्यानयने यत ॥२७॥
दमयन्त्या तथोक्ता तु सा देवी भृशदु:खिता ।
बाष्पेणापिहिता राजन्नोतरं किंचिदब्रवीत् ॥२८॥
तदवस्थां तु तां दृष्टा सर्वमन्त:पुरं तदा ।
हाहाभूतमतीवासीद्भृशं च प्ररुरोद ह ॥२९॥
ततो भीमं महाराज भार्या वचनमब्रवीत ।
दमयन्ती तव सुता भर्तारमनुशोचति ॥३०॥
अपकृष्य च लज्जां सा स्वयमुक्तवती नृप ।
प्रयतन्तु तव प्रेष्या: पुण्यश्लोकस्य मार्गणे ॥३१॥
तया प्रदेशितो राजा ब्राह्मणान्वशवर्तिन: ।
प्रास्थापयिद्दिश: सर्वा यतध्वं नलमार्गणे ॥३२॥
ततो विदर्भाधिपतेर्नियोगाब्राह्मणास्तदा ।
दमयन्तीमथो सृत्वा प्रस्थिता: स्मेत्यथाब्रुवन् ॥३३॥
अथ तानब्रवीद्भैमी सर्वराष्ट्रेष्विदं वच: ।
ब्रूयास्त जनसंसत्सु तत्र तत्र पुन: पुन: ॥३४॥
क्व नु त्वं कितव च्छित्त्वा वस्त्रार्ध प्रस्थितो मम ।
उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय ॥३५॥
सा वै यथा समादिष्टा तथास्ते त्वत्प्रतीक्षिणी ।
दह्ममानां भृशं बाला वस्त्रार्धेनाभिसंवृता ॥३६॥
तस्या रुदन्त्या: सततं तेन शोकेन पार्थिव ।
प्रसादं कुरु वै वीर प्रतिवाक्यं वदस्व च ॥३७॥
भर्तव्या रक्षणीया च पत्नी पत्या हि नित्यदा ।
तन्नष्टमुभयं कस्माध्दर्मज्ञस्य सतस्तव ॥३८॥
एवं ब्रुवाणान्यदि व: प्रतिब्रूयाध्दि कश्चन ।
स नर: सर्वथा ज्ञेय: कश्चासौ क्व च वर्तते ॥३९॥
यश्चैवं वचनं श्रुत्वा ब्रूयात्प्रतिवचो नर: ।
तदादाय वचस्तस्य ममावेद्दं द्विजोत्तमा: ॥४०॥
यथा च वो न जानीयाद ब्रुवतो मम शासनात् ।
पुनरागमनं चैव तथा कार्यमतान्द्रितै: ॥४१॥
यदि वासौ समृध्द: स्याद्यादि वाप्यधनो भवेत् ।
यदि वाप्यर्थकाम: स्याज्ज्ञेयं तस्य चिकीर्षितम् ॥४२॥
एवमुक्तास्त्वगच्छंस्ते ब्राह्मणा: सर्वतो दिश: ।
नलं मृगयितुं राजंस्तदा व्यसनिनं तथा ॥४३॥
ते पुराणि सराष्ट्राणि ग्रामान्घोषांस्तथाश्रमान् ।
अन्वेषन्तो नलं राज्न्नाधिजग्मुर्द्विजातय: ॥४४॥
तच्च वाक्यं तथा सर्वे तत्र तत्र विशांपते ।
श्रावयांचक्रिरे विप्रा दमयन्त्या यथेरितम् ॥४५॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP