संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|नलोपाख्यानम्| प्रथमोऽध्याय: नलोपाख्यानम् प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पच्ञमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: अष्टमोsध्याय: नवमोsध्याय: दशमोsध्याय: एकादशोsध्याय: द्वादशोsध्याय: त्रयोदशोsध्याय: चतुर्दशोsध्याय: पच्ञदशोsध्याय: षोडशोsध्याय: सप्तदशोsध्याय: अष्टदशोsध्याय: नवदशोsध्याय: विंशतितमोsध्याय: एकविंशतितमोsध्याय: द्वाविंशतितमोsध्याय: त्रयोविंशतितमोsध्याय: चतुर्विंशतितमोsध्याय: पच्ञविंशतितमोsध्याय: षडविंशतितमोsध्याय: नलोपाख्यानम् - प्रथमोऽध्याय: ` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे. Tags : damayantinalnalopakhyanदमयंतीनलनलोपाख्यानसंस्कृत प्रथमोऽध्याय: Translation - भाषांतर बृहदश्व उवाच । आसीद्राजा नलो नाम वीरसेनसुतो बली ।उपपन्नो गुणैरिष्टै रूपवानश्वकोविद: ॥१॥अतिष्ठन्मनुजेन्द्राणां मूर्न्धि देवपतिर्यथा ।उपर्युपरि सर्वेषामादित्य इव तेजसा ॥२॥ब्रम्हण्यो वेदविच्छूरो निषधेषु महीपति: ।अक्षप्रिय: सत्यवादी महानक्षैहिणीपति: ॥३॥ईप्सितो नरनारीणामुदार: सयंतेन्द्रिय: ।रक्षिता धन्विना: श्रेष्ठ साक्षादिव मनु: स्वयम् ॥४॥तथैवासीद्विदर्भैषु भीमो भीमपराक्रम: । शूर: सर्वगुणैर्युक्त: प्रजाकाम: स चाप्रजा: ॥५॥स प्रजार्थे परं यत्नमकरोत्सुसमाहित: ।तमभ्यगच्छब्र्हह्मर्षिर्दमनो नाम भारत ॥६॥तं स भीम: प्रजाकामस्तोषयामास धर्मवित् ।महिष्या सह राजेन्द्र सत्कारेण सुवर्चनसम् ॥७॥तस्मैप्रसन्नो दमन: सभार्याय वरं ददौ ।कन्यारत्नं कुमारांश्च श्रीनुदारान्महायशा: ॥८॥दमयन्ती: दमं दान्तं दमनं च सुवर्चसम् ।उपपन्नान्गुणै: सर्वैर्भीमीन्भीमपराक्रमान् ॥९॥दमयन्ती तु रूपेण तेजसा यशसा श्रिया ।सौभ्यागेन च लोकेषु यश: प्राप सुमध्यमा ॥१०॥अथ तां वयसि प्राप्ते दासीनां समलंकृतम । शतं शतं सखीनां च पर्युपासच्छचीमिव ॥११॥तत्र स्म राजतै भैमी सर्वाभरणभूषिता ।सखीमध्येऽनवद्याङ्गी विद्युत्सौदामिनी यथा ॥१२॥अतीव रूपसंपन्ना श्रीरिवायतलोचना ।न देवेषु न यक्षेषु तादृग्रूपवती क्वचित् ॥१३॥मानुषेष्वपि चान्येषु दृष्टपूर्वाथवा श्रुता ।चित्तप्रमाथिनी बाला देवानामपि सुन्दरी ॥१४॥नलश्च नरशार्दूलो लोकेष्वप्रतिमो भुवि ।कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम् ॥१५॥तस्या: समीपे तु नलं प्रशशंसु: कुतूहलात् ।नैषधस्य समीपे तु दमयन्ती: पुन: पुन: ॥१६॥तयोरदृष्टकामोऽभूच्छृण्वतो: सततं गुणान् ।अन्योन्यं प्रति कौन्तेय स व्यवर्धत हृदच्छय: ॥१७॥अशक्नुवन्नल: कामं तदा धारयितुं हॄदा ।अन्त:पुरसमीपस्थे वन आस्ते रहोगत: ॥१८॥स ददर्श ततो हंसाञ्जातरूपपरिष्कृतान् ।वने विचरतां तेषामेकं जग्राह पक्षिणाम् ॥१९॥ततोऽन्तरिक्षगो वाचं व्याजहार नलं तदा ।हन्तव्योऽस्मि न ते राजन्करिष्यामि तव प्रियम् ॥२०॥दमयन्तीसकाशे त्वां कथयिष्यामि नैषध ।यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित् ॥२१॥एवमुक्तस्ततो हंसमुत्ससर्ज महीपति: ।ते तु हंसा समुत्पत्य विदर्भानगमंस्तत: ॥२२॥विदर्भनगरीं गत्वा दमयन्तास्तदान्तिके ।निपेतुस्ते गरुत्मन: सा ददर्श च तान्खगान् ॥२३॥सा तानद्भुतरूपान्वै दृष्टा सखीगणावृता ।हृष्टा ग्रहीतुं खगमांस्त्वरमाणोपचक्रमे ॥२४॥अथ हंसा विससृप: सर्वत: प्रमदावने ।एकैकशस्तदा कन्यास्तान्हंसान्समुपाद्रवन ॥२५॥दमयन्ति तु यं हंसं समुपाधावदन्तिके ।स मानुषीं गिरं कृत्वा दमयन्तीमथाब्रवीत ॥२६॥दमयन्ति नलो नाम निषधेषु महीपति: ।आश्विनो: सद्रुशो रूपे न समास्तस्य मानुषा: ॥२७॥तस्य वै यदि भार्या त्वं भवेथा वरवर्णिनी ।सफलं ते भवेज्जन्म रूपं चेदं सुमध्यमे ॥२८॥वयं हि देवगन्धर्वमानुषोरगक्षसान् ।दृष्टवन्तो न चास्माभिदृष्टपूर्वस्तथाविध: ॥२९॥त्वं चापि रत्नं नारीणां नरेषु च नलो वर: ।विशिष्टाया विशिष्टेन संगमो गुणवान्भवेत् ॥३०॥एवमुक्ता तु हंसेन दमयन्ती विशांपते ।अब्रवीत्तत्र तं हंसं त्वमप्येवं नले वद ॥३१॥तथेत्युक्त्वाण्डज: कन्यां विदर्भस्य विशांपते ।पुनरगम्य निषधन्नले सर्व न्यवेदयत् ॥३२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP