संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|नलोपाख्यानम्| सप्तमोsध्याय: नलोपाख्यानम् प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पच्ञमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: अष्टमोsध्याय: नवमोsध्याय: दशमोsध्याय: एकादशोsध्याय: द्वादशोsध्याय: त्रयोदशोsध्याय: चतुर्दशोsध्याय: पच्ञदशोsध्याय: षोडशोsध्याय: सप्तदशोsध्याय: अष्टदशोsध्याय: नवदशोsध्याय: विंशतितमोsध्याय: एकविंशतितमोsध्याय: द्वाविंशतितमोsध्याय: त्रयोविंशतितमोsध्याय: चतुर्विंशतितमोsध्याय: पच्ञविंशतितमोsध्याय: षडविंशतितमोsध्याय: नलोपाख्यानम् - सप्तमोsध्याय: ` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे. Tags : damayantinalnalopakhyanदमयंतीनलनलोपाख्यानसंस्कृत सप्तमोsध्याय: Translation - भाषांतर बृहदश्व उवाच ।एवं स समयं कृत्वा द्वापरेण कलि: सह ।आजगाम ततस्तत्र यत्र राजा न नैषध: ॥१॥स नित्यमन्तरप्रेप्सुर्निषधेष्वसच्चिरम्म ।अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम् ॥२॥कृत्वा मूत्रमुपस्पृश्य संध्यामन्वास्त नैषध: ।अकृत्वा पादयो: शौचं तत्रैनं कलिराविशत् ॥३॥स समाविश्य च नलं समीपं पुष्करस्य च ।गत्वा पुष्करमाहेदस्मेहि दीव्य नलेन वै ॥४॥अक्षद्यूचे नलं जेता भवान्हि सहितो मया ।निषधान्प्रतिद्यस्व जित्वा राज्यं नलं नृपम् ॥५॥एवमुक्तस्तु कलिना पुष्करो नलमभ्ययात् ।कलिश्चैव वृषो भूत्वा गवां पुष्करमभ्यगात् ॥६॥आसाद्य तु नलं वीरं पुष्कर: परवीरहा ।दीव्यवेत्यब्रवीद्भाता वृषेणेति मुहुर्मुहु: ॥७॥न चक्षमे ततो राजा समाह्नानं महामना : ।वैदर्भ्या: प्रेक्षमाणाया: पणकालममन्यत ॥८॥तमक्षमदसंमत्तं सुह्रदां न तु कश्चन ।निवारणेsभवच्छक्तो दीव्यमानमरिंदमम् ॥९॥तत: पौरजना: सर्वे मन्त्रिभि: सह भारत ।राजानं द्रष्टुमागच्छन्निवारयितुमातुरम् ॥१०॥तत: सूत उपागम्य दमयन्त्यै न्यवेदयत् ।एष पौरजनो देवि द्वारि तिष्ठति कार्यवान् ॥११॥निवेद्यतां नैषधाय सर्वा: प्रकृतय: स्थिता: ।अमृष्यमाणा व्यसनं राज्ञो धर्मार्थदर्शिन: ॥१२॥तत: सा बाष्पकलया वाचा दु:खेन कर्षिता ।उवाच नैषधं भैमी शोकोपहतचेतना ॥१३॥राजन्पौरजनो द्वारि त्वां दिदृक्षुरवस्थित: ।मन्त्रिभि: सहित: सर्वे राजभक्तिपुरस्कृत: ॥१४॥तां तथा रुचिरापाग्ङीं विलपन्तीं तथाविधम् ।आविष्ट: कलिना राजा नाभ्यभाषात किंचन ॥१५॥ततस्ते मन्त्रिण: सर्वे ते चैव पुरवासिन: ।नायमस्तीति दु:खार्ता व्रीडिता जग्मुरालयान् ॥१६॥तदा तदभवद्दयुतं पुष्करस्य नलस्य च ।युधिष्ठिर बहुन्मासान्पुण्यश्लोकस्त्वजीयत ॥१७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP