नलोपाख्यानम् - नवदशोsध्याय:

` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे.


बृहदश्व उवाच ।

श्रुत्वा वच: सुदेवस्य ऋतुपर्णो नराधिप: ।
सान्त्वञ्श्लक्ष्णया वाचा बाहुकं प्रत्यभाषत ॥१॥
विदर्बान्यातुमिच्छामि दमयन्त्या: स्वयंवरम् ।
एकाह्ना हयतत्त्वज्ञ मन्यसे यदि बाहुक ॥२॥
एवमुक्तस्य कौन्तेय तेन राज्ञा नलस्य ह ।
व्यदीर्यत मनो दु:खात्प्रदध्यौ च महामना: ॥३॥
दमयन्ती वदेदेतत्कुर्यद्दु:खेन मोहिता ।
अश्वदर्थे भवेद्वायमुपायश्चिन्तितो महान् ॥४॥
नृशंसं बत वैदर्भी कर्तुकामा तपस्विनी ।
मया क्षुद्रेण निकृता कृपणा पापबुध्दिना ॥५॥
स्त्रीस्वभावश्चलो लोके मम दोषश्च दारुण: ।
स्यादेवमपि कुर्यात्सा विवासाद्नतसौह्रदा ॥६॥
मम शोकेन संविग्ना नैराश्यात्तनुमध्यमा ।
नैवं सा कर्हिचित्कुर्यात्सापत्या च विशेषत: ॥७॥
यदत्र सत्यं वासत्यं गत्वा वेत्स्यामि निश्चयम् ।
ऋतुपर्णस्य वै काममात्मार्थ च करोम्यहम् ॥८॥
इति निश्चित्य मनसा बाहुको दीनमानस: ।
कृताञ्जलिरुवाचेदमृतुपर्ण नराधिपम् ॥९॥
प्रतिजानामि ते वाक्यं गमिष्यामि नराधिप ।
एकाह्ना पुरुषव्याघ्र विदर्भनगरीं नृप ॥१०॥
तत: परीक्षामश्वानां चक्रे राजन्स बाहुक: ।
अश्वशालामुपागम्य भाग्ङासुरिनृपाज्ञया ॥११॥
स त्वर्यमाणो बहुश ऋतुपर्णेन बाहुक: ।
अध्यगच्छत्कृशानश्वान्समर्थानध्वनि क्षमान् ॥१२॥
तेजोबलसमायुक्तान्कुलशीलसमन्वितान् ।
वर्जितॉंल्लक्षणैर्हीनै: पृथुप्रोथान्महाहनून ॥१३॥
दृष्टा तानब्रवीद्राजा किंचित्कोपसमन्वित: ।
किमिदं प्रार्थित्म कर्तु प्रलब्धव्या न ते वयम् ॥१४॥
कथमल्पबलप्राणा वक्ष्यन्तीमे हया मम ।
महदध्वानमपि च गन्तव्यं कथमीदृशै: ॥१५॥

बाहुक उवाच

एते हया गमिष्यन्ति विदर्भान्नात्र संशय: ।
यानन्यान्मसे राजन्ब्रूहि तान्योजयामि ते ॥१६॥

ऋतुपर्ण उवाच ।

त्वमेव हयतत्त्वज्ञ: कुशलो ह्यसि बाहुक ।
यान्मन्यसे समर्थास्त्वं क्षिप्रं तानेव योजय ॥१७॥

बृहदश्व उवाच ।

तत: सद्श्वांश्चतुर: कुलशीलसमन्वितान् ।
योजयामास कुशलो जवयुक्तान रथे नल: ॥१८॥
ततो युक्तं रथं राजा समारोहत्त्वरान्वित: ।
अथ पर्यतन्भूमौ जानुभिस्ते हयोत्तमा: ॥१९॥
ततो नरवर: श्रीमान्नलो राजा विशांपते ।
सान्त्वयामास तानश्वांस्तेजोबलसमन्वितान् ॥२०॥
रश्मिभिश्च समुद्दम्य नलो यातुमियेष स: ।
सूतमारोप्य वार्ष्णेयं जवमास्थाय वै परम् ॥२१॥
ते नोद्यमाना विधिवध्दाहुकेन हयोत्तमा: ।
समुत्पेतुरथाकाशं रथिनं मोहयन्निव ॥२२॥
तथा तु दृष्टा तानश्वान्वहतो वातरंहस: ।
अयोध्याधिपति: श्रीमान्विस्मयं परमं ययौ ॥२३॥
रथघोषं तु तं श्रुत्वा हयसंग्रहणं च तत् ।
वार्ष्णेयश्चिन्तयामास बाहुकस्य हयज्ञताम् ॥२४॥
किं नु स्यान्मातलिरयं देवराजस्य सारथि: ।
तथा तल्लक्षणं वीरे बाहुके दृश्यते महत् ॥२५॥
उतोहोस्विद्भवेद्राजा नल: परपुरंजय: ।
तुल्यं हि लक्षये ज्ञानं बाहुकस्य नलस्य च ॥२६॥
अपि चेदं वयस्तुल्यं बाहुकस्य नलस्य च ।
भवेत्तु मतिभेदो मे गात्रवैरुप्यतां प्रति ॥२७॥
एवं विचार्य बहुशो वार्ष्णेय: पर्यचिन्तयत् ।
ह्रदयेन महाराज पुण्यश्लोकस्य सारथि: ॥२८॥
ऋतुपर्णस्तु राजेन्द्रो बाहुकस्य हयज्ञताम् ।
कौशलं चापि संप्रेक्ष्य परां मुदमवाप ह ॥२९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP