नलोपाख्यानम् - द्वितीयोऽध्याय:
` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे.
बृहदश्व उवाच ।
दमयन्ती तु तच्छ्रुत्वा वचो हंसस्य भारत ।
तत: प्रभृति न स्वस्था नलं प्रति बभूव सा ॥१॥
ततश्चिन्तापरा दीना विवर्णवदना कृशा ।
बभूव दमयन्ती तु नि:श्वासपरमा तदा ॥२॥
ऊर्ध्वदृष्टिनपरा बभूवोन्मत्तदर्शना ।
पाण्डुवर्णा क्षणेनाथ हृच्छयाविष्टचेतना ॥३॥
न शय्यासनभोगेषुरतिं विन्दति कर्हिचित ।
न नक्तं न दिवा शेते हा हेति रुदती मुहु: ॥४॥
ततो विदर्भपतये दमययन्त्या: सखीजन: ।
न्यवेदयत्तामस्वस्थां दमयन्तीं नरेश्वर ॥५॥
तच्छृत्वा नृपतिर्भीमोसखीगणात् ।
चिन्तयामास तत्कार्यं समुहस्त्वां सुतां प्रति ॥६॥
स समीक्ष्य महीपाल: स्वां सुतां प्राप्तयौवनाम् ।
अपश्यदात्मना कार्य दमयन्त्या: स्वयंवरम ॥७॥
स संनिमन्त्रयामास महीपालान्विशांपति: ।
अनूभूयतामयं वीरा: स्वयंवर इति प्रभो ॥८॥
श्रुत्वा तु पार्थिवाः सर्वे दमयन्त्या: स्वयंवरम् ।
अभिजग्मुस्ततो भीमं राजानो भीमशासनात् ॥९॥
हस्त्यश्वरथघोषेण पूरयन्तो वसुंधराम् ।
विचित्रमाल्याभरणैलैर्दृश्ये: स्वलंकृतै: ॥१०॥
तेषां भीमो महाबाहु: पार्थिवानां महात्मनाम् ।
यथार्हमकरोत्पूजां तेऽवसंस्तत्र पूजिता: ॥११॥
एतस्मिन्नेव काले तु सुराणामृषिसत्तमौ ।
अटमानौ महात्मानाविन्द्रलोकमितौ गतौ ॥१२॥
नारद: पर्वतश्चैव महाप्राज्ञौ महाव्रतौ ।
देवराजस्य भवनं विविशाते सुपूजितौ ॥१३॥
ताबर्चयित्वा मघवा तत: कुशलमव्ययम् ।
पप्रच्छानामयं चापि तयो: सर्वगतं विभु: ॥१४॥
नारद उवाच ।
आवयो: कुशलं देव सर्वत्र गतमीश्वर ।
लोके च मघवन्कृत्सेन नृपा: कुशलिनो विभो ॥१५॥
बृहदश्व उवाच ।
नारदस्य वच: श्रुत्वा पप्रच्छ बलवृत्रहा ।
धर्मज्ञा: पृथिवीपालास्त्यक्तजीवितयोधिन: ॥१६॥
शस्त्रेण निधनं काले ये गच्छन्त्यपराङमुखा: ।
अयं लोकोऽक्षयस्तेषां यथैव मम कामदुक् ॥१७॥
क्व न ते क्षत्रिया: शूरा न हि पश्यामि तानहम् ।
आगच्छतो महीपालान्दयितानतिथीन्मम ॥१८॥
एवमुक्तस्तु शक्रेण नारद: प्रत्यभाषत ।
शृणु मे मघवन्येन न दृश्यते महीक्षित: ॥१९॥
विदर्भराज्ञो दुहिता दमयन्तीति विश्रुता ।
रूपेण समतिकान्ता पृथिव्यां सर्वयोषित: ॥२०॥
तस्या: स्वयंवर: शक्र भविता नाचिरादिव ।
तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वश: ॥२१॥
तां रत्नंभूतां लोकस्य प्रार्थयन्तो महीक्षित: ।
काङक्षन्ति स्म विशेषणे बलवृत्रनिषूदन ॥२२॥
एतस्मिन्कथ्यमाने तु लोकपालाश्च साग्निका: ।
आजग्मुर्दैवराजस्य समीपममतोत्तमा: ॥२३॥
ततस्ते शुश्रुत्व: सर्वे नारदस्य वचो महत् ।
श्रुत्वैव चाबुवन्हृष्टा गच्छामो वयमप्युत ॥२४॥
तत: सर्वे महाराज सगणा: सहवाहना: ।
विदर्भानभिजग्मुस्ते यत: सर्वै महीक्षित: ॥२५॥
नलोऽपि राजा कौन्तेय श्रुत्वा राज्ञां समागमम् ।
अभ्यगच्छददीनात्मा दमयन्तीमनुव्रत: ॥२६॥
अथ देवा: पथि नलं ददृशुर्भूतले स्थितम् ।
साक्षादिव स्थितं मूर्त्या मन्मथं रूपसंपदा ॥२७॥
तं दृष्टा लोकपालास्ते भ्राजमानं यथा रविम् ।
तस्थर्विगतसंकल्पा विस्मिता रूपसंपदा ॥२८॥
ततोऽन्तरिक्षे विष्टभ्य विमानानि दिवौकस: ।
अब्रुवन्नैषधं राजन्नवतीर्य नभस्तलात् ॥२९॥
भो भो नैषध राजेन्द्र नल सत्यव्रतो भवान् ।
अस्माकं कुरु साहाय्यं दूतो भव नरोत्तम ॥३०॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP