संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|नलोपाख्यानम्| त्रयोदशोsध्याय: नलोपाख्यानम् प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पच्ञमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: अष्टमोsध्याय: नवमोsध्याय: दशमोsध्याय: एकादशोsध्याय: द्वादशोsध्याय: त्रयोदशोsध्याय: चतुर्दशोsध्याय: पच्ञदशोsध्याय: षोडशोsध्याय: सप्तदशोsध्याय: अष्टदशोsध्याय: नवदशोsध्याय: विंशतितमोsध्याय: एकविंशतितमोsध्याय: द्वाविंशतितमोsध्याय: त्रयोविंशतितमोsध्याय: चतुर्विंशतितमोsध्याय: पच्ञविंशतितमोsध्याय: षडविंशतितमोsध्याय: नलोपाख्यानम् - त्रयोदशोsध्याय: ` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे. Tags : damayantinalnalopakhyanदमयंतीनलनलोपाख्यानसंस्कृत त्रयोदशोsध्याय: Translation - भाषांतर बृहदश्व उवाच ।सा तच्छ्रुत्वानवद्याग्ङी सार्थवाहवचस्तदा ।जगाम सह तेनैव सार्थेन पतिलालसा ॥१॥अथ काले बहुतिथे वने महित दारुणे ।तडागं सर्वतोभद्रं पद्मसौगन्धिकायुतम् ॥२॥ददृशुर्वणिजो रम्यं प्रभूतयवसेन्धनम् ।बहुपुष्पफलोपेतं नानापक्षिनिषेवितम् ॥३॥निर्मलस्वादुसलिलं मनोहारि सुशीतलम् ।सुपरिश्रान्तवाहास्ते निवेशाय मनो दधु: ॥४॥संमते सार्थवाहस्य विविशुर्वनमुत्तमम् ।उवास सार्थ: स महान्वेलामासाद्य पश्चिमाम् ॥५॥अथार्धरात्रसमये नि:शब्दस्तिमिते तदा ।सुप्ते सार्थे परिश्रान्ते हस्तियूथमुपागमत् ।पानीयार्थ गिरिनदीं मदप्रस्त्रवणाविलाम् ॥६॥ते तान्ग्राम्यगजान्दृष्टा सर्वे वनगजास्तदा ।समाद्रवन्त वेगेन जिघांसन्तो मदोत्कटा: ॥७॥तेषामापततां वेग: करिणां दु:सहोsभवत् ।नगाग्रादिव शीर्णानां शृग्ङाणां पततां क्षितौ ॥८॥मार्ग संरुध्य संसुप्तं पद्मिन्या: सार्थमुत्तमम् ।ते तं ममर्दु: सहसा चेष्टमानं महीतले ॥९॥हाहाकारं प्रमुश्चन्त: सार्थिका: शरणार्थिन: ।वनगुल्मांश्च धावन्तो निद्रान्धा बहवोsभवन् ॥१०॥निहतोष्ट्राश्वबहुला: पदातिजनसंकुला: ।भयादाधावमानाश्च परस्परहतास्तदा ॥११॥घोरान्नादान्विमुच्ञन्तो निपेतुर्धरणीतले ।वृक्षेष्वारुह्य संरब्धा: पतिता विषमेषु च ॥१२॥एव प्रकारैर्बहुभिदवनाक्रम्य हस्तिभि: ।राजन्विनिहतं सर्व समृध्दं सार्थमण्डलम् ॥१३॥अथापरेद्यु: संप्राप्ते हतशिष्टा जनास्तदा ।देशात्तस्माद्विनिष्क्रम्य शोचन्ते वैशसं कृतम् ।भ्रातरं पितरं पुत्रं सखायं च नराधिप ॥१४॥अशोचत्तत्र वैदर्भी किं नु मे दुष्कृतं कृतम् ।योsपि मे निर्जनेsरण्ये संप्राप्तोsयं जनार्णव: ।स हतो हस्तियूथेन मन्दभाग्यान्ममैव तत् ॥१५॥नाप्राप्तकालो म्रियते श्रुतं वृध्दानुशासनम् ।यन्नाहमद्य मृदिता हस्तियूयेन दु:खिता ॥१६॥ह्यदैवं कृतं किंचिन्नराणामिह विद्यते ।न च मे बालभावेsपि किंचित्पापकृतं कृतम् ॥१७॥मन्ये स्वयंवरकृते लोकपाला: समागता: ।प्रत्याख्याता मया तत्र नलस्यार्थाय देवता: ।नूनं तेषां प्रभावेण वियोगं प्राप्तवत्यहम् ॥१८॥एवमादीनि दु:खार्ता सा विलप्य वराग्ङना ।अगच्छद्राजशार्दूल चन्द्रलेखेव शारदी ॥१९॥गच्छन्ती साचिराद्वाला पुरमासादयन्महत् ।सायाह्ने चेदिराजस्य सुबाहो: सत्यवादिन: ॥२०॥तां विह्ललां कृशां दीनां मुक्तकेशीममार्जिताम् ।उन्मत्तामिव गच्छन्ती ददृशु: पुरवासिन: ॥२१॥प्रविशन्तीं तु तां दृष्टा चेदिराजपुरीं तदा ।अनुजग्मुस्तत्र बाला: ग्रामिपुत्रा: कुतूहलात् ॥२२॥तां प्रासाद्सगतापश्यद्राजमाता जनैर्वृताम् ।धात्रीमुवाच गच्छैनामानयेह ममान्तिकम् ॥२३॥जनेन क्लिश्यते बाला दु:खिता शरणार्थिनी ।तादृग्रूपं च पश्यामि विद्योतयति मे गृहम् ॥२४॥सा जनं वारयित्वा तं प्रासादतलमुत्तमम् ।आरोप्य विस्मिता राजन्दमयन्तीमपृच्छत ॥२५॥एवमप्यसुखाविष्टा बिभर्षि परमं वपु: ।भासि विद्युदिवाभ्रेषु शंस मे कासि कस्य वा ॥२६॥न हि ते मानुषं रुपं भूषणैरपि वर्जितम् ।असहाया नरेभ्यश्च नोद्विजस्यमरप्रभे ॥२७॥तच्छ्रुत्वा वचनं तस्या भैमी वचनमब्रवीत ।मानुषीं मां विजानीहि भर्तारं समनुव्रताम् ॥२८॥सैनन्ध्रीं जातिसंपन्नां भुजिष्यां कामवासिनीम् ।फलमूलाशनामेकां यत्रसायंप्रतिश्रयाम् ॥२९॥असंख्येयगुणो भर्ता मां च नित्यमनुव्रत: ।भक्ताहमपि तं वीरं छायेवानुगता पथि ॥३०॥तस्य दैवत्प्रसग्ङोsभूदतिमात्रं सुदेवने ।द्युते स निर्जितश्चैव वनमेक उपेयिवान् ॥३१॥तमेकवसनं वीरमुन्मत्तमिव विह्ललम् ।आश्वासयन्ती भर्तारमहमप्यगमं वनम् ॥३२॥स कदाचिद्वने वीर: कस्मिंश्चित्कारणान्तरे ।क्षुत्परीतस्तु विमनास्तदप्येकं व्यसर्जयत् ॥३३॥तमेकवसना नग्नमुन्मत्तवदचेतसम ।अनुव्रजन्ती बहुला न स्वपामि निशास्तदा ॥३४॥ततो बहुतिथे काले सुप्तामुत्सृज्य मां क्वचित् ।वाससोsर्ध परिच्छिद्य त्यक्तवान्मामनागसम् ॥३५॥तं मार्गमाणा भर्तारं दह्यामाना दिवानिशम् ।न विन्दाम्यमरप्रख्यं प्रियं प्राणेश्वरं प्रभुम् ॥३६॥तामश्रुपरिपूर्णाक्षीं विलपन्तीं तथा बहु ।राजमाताब्रवीदर्ता भैमीमार्ततरा स्वयम् ॥३७॥वस त्वमिह कल्याणि प्रीतिर्मे परमा त्वयि ।मृगयिष्यन्ति ते भद्रे भर्तारं पुरुषा मम ॥३८॥अपि वा स्वयमागच्छेत्परिधावन्नितस्तत: ।इहव वसती भद्रे भर्तारमुपलप्स्यसे ॥३९॥राजामातुर्वच: त्वा दमयन्ती वचोsब्रवीत् ।समयेनोत्सहे वस्तुं त्वयि वीरप्रजायिनि ॥४०॥उच्छिष्टं नैव भुच्ञीयां न कुर्या पादधावनम् ।न चाहं पुरुषानन्यान्प्रभाषेयं कथंचन ॥४१॥प्रार्थयेद्ददि मां कश्चिद्दण्ड्यस्ते स पुमान्भवेत् ।भर्तुरन्वेषणार्थ पश्येय़ं ब्राह्मणानहम् ॥४२॥यद्देवमिह कतव्यं वत्स्याम्यहमसंशयम् ।अतोsन्यथा न मे वासो वर्तते ह्रदये क्वचित् ॥४३॥तां प्रह्रष्टेन मनसा राजमातेदमब्रवीत ।सर्वमेतत्करिष्यामि दिष्ट्या ते व्रतमीदृशम् ॥४४॥एवमुक्त्वा ततो भैमीं राजमाता विशांपते ।उवाचेदं दुहितरं सुनन्दां नाम भारत ॥४५॥सैरन्ध्रीमभिजानीष्व सुनंदे देवरुपिणीम् ।वयसा तुल्यतां प्राप्ता सखी तव भवत्वियम् ॥४६॥तत: परमसंह्रष्टा सुनन्दा गृहमागमत् ।दमयन्तीमुपादाय सखीभि: परिवारिता ॥४७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP