नलोपाख्यानम् - एकविंशतितमोsध्याय:

` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे.


बृहदश्व उवाच ।

ततो विदर्भान्संप्राप्तं सायाह्ने सत्यविक्रमम् ।
ऋतुपर्ण जना राज्ञे भीमाय प्रत्यवेदयन् ॥१॥
स भीमवचनाद्राजा कुड्णिनं प्राविशत्पुरम् ।
नादयन्रथघोषेण सर्वा: सविदिशो: दिश: ॥२॥
ततस्तं रथनिर्घोणं नलाश्वास्तत्र शुश्रुवु: ।
श्रुत्वा तु समह्रष्यन्त पुरव नलसंनिधौ ॥३॥
दमयन्ती तु शुश्राव रथघोषं नलस्य तम् ।
यथा मेघस्य नदतो गभ्भीरं जलदागमे ॥४॥
नलेन संगृहीतेषु पुरेव नलवाजिषु ।
सदृशं हयानिर्घोषं मेने भैमी तथा हया: ॥५॥
प्रासादस्थाश्च शिखिन: शालास्थाश्चैव वारणा: ।
हयाश्च शुश्रुवुस्तस्य रथघोषं महीपते: ॥६॥
ते श्रुत्वा रथानेर्घोषं वारणा: शिखिनस्तथा ।
प्रणेदुरुन्मुखा राजन्मेघनाद इवोत्सुका: ॥७॥

दमयन्त्युवाच ।

यथासौ रथनिर्घोषं: पूरयन्निव मेदिनीम् ।
ममाह्रदयते चेतो नल एष महीपति: ॥८॥
अद्य चन्द्राभवक्त्रं तं न पश्यामि नलं यदि ।
असंख्येयगुणं वीरं विनङक्ष्यामि न संशय ॥९॥
यदि चैतस्य वीरस्य बाह्रोर्नाद्याहमन्तरम् ।
प्रविशामि सुखस्पर्श न भविष्याम्यसंशयम् ॥१०॥
यदि मां मेघनिर्घोषो नोपगच्छति नैषध: ।
अद्य चामीकरप्रख्यं प्रवेक्ष्यामि हुताशनम् ॥११॥
न स्मराम्यनृतं किंचिन्न स्मराम्यपकारताम् ।
न च पर्युषितं वाक्यं स्वैरष्वपि महात्मन: ॥१२॥
गुणांस्तस्य स्मरन्त्या मे तत्पराया दिवानिशम् ।
ह्रदयं दीर्यत इदं शोकात्प्रियविनाकृतम् ॥१३॥

बृहदश्व उवाच ।

एवं विलपमाना सा नष्टसंज्ञेव भारत ।
आरुरोह महद्वेश्म पुण्यश्लोकदिदृक्षया ॥१४॥
ततो मध्यमकक्षायां ददर्श रथमास्थितम् ।
ऋतुपर्ण महीपालं सहवार्ष्णेयबाहुकम् ॥१५॥
ततोsवतीर्य वार्ष्णेयो बाहुकश्च रथोत्तमात् ।
हयांस्तानवमुच्याथ स्थापयामास वै रथम् ॥१६॥
सोsवतीर्य रथोपस्थादृतुपर्णो नराधिप: ।
उपतस्थे महाराजं भीमं भीमपराक्रमम् ॥१७॥
तं भीम: प्रतिजग्राह पूजया परया तत: ।
अकस्मात्सहसा प्राप्तं स्त्रीमन्त्रं न स्म विन्दति ॥१८॥
ऋतुपर्णोsपि राजा स धीमान्सत्यपराक्रम: ।
राजानं राजपुत्रं वा न स्म पश्यति कंचन ॥१९॥
स तेन पूजितो राजा ऋतुपर्णो नराधिप: ।
किं कार्य स्वागतं तेsस्तु राज्ञा पृष्ट: स भारत ॥२०॥
ततो विगणयन्राजा मनसा कोशलाधिप: ।
आगतोsस्मीत्युवा चैनं भवन्तमभिवादक: ॥२१॥
राजापि च स्मयन्भीमो मनसा समचिन्तयत् ।
अल्पकार्य विनिर्दिष्टं तस्यागमनकारणम् ।
पश्चादुदर्के ज्ञास्यामि कारणं यद्भविष्यति ॥२२॥
नैतदेवं स नृपतिस्तं सत्कृत्य व्यसर्जयत् ।
विश्राम्यतामित्युवाच क्लान्तोsसीति पुन: पुन: ॥२३॥
स सत्कृत: प्रह्रष्टात्मा प्रीत: प्रीतेन पार्थिव: ।
राजप्रेष्यैरनुगतो दिष्टं वेश्म समविशत् ॥२४॥
ऋतुपर्णे गते राजान्वार्ष्णेयसहिते नृपे ।
बाहुको रथमादाय रथशालामुपागमत् ॥२५॥
स मोचयित्वा तानश्वानुपचर्य च शास्त्रत: ।
स्वयं चैतान्समाश्वास्य रथोपस्थ उपविशत् ॥२६॥
दमयन्ती तु शोकार्ता दृष्टा भाग्ङासुरिं नृपम् ।
सूतपुत्रं च वार्ष्णेयं बाहुकं च तथाविधम् ॥२७॥
चिन्तयामास वैदर्भी कस्यैष रथनिस्वन: ।
नलस्येव महानासीन्न च पश्यामि नैषधम् ॥२८॥
वार्ष्णेयेन भवेन्नूनं विद्या सैवोपशिक्षिता ।
तेनाद्य रथनिर्घोषो नलस्येव महानभूत ॥२९॥
आहोस्विदृतुपर्णोsपि यथा राजा नलस्तथा ।
तथायं रथानिर्घोषो नैषधस्येव लक्ष्यते ॥३०॥
एवं सा तर्कयित्वा तु दमयन्ती विशांपते ।
दूतीं प्रस्थापयामास नैषधान्वेषणे शुभा ॥३१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP