संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|नलोपाख्यानम्| तृतीयोऽध्याय: नलोपाख्यानम् प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पच्ञमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: अष्टमोsध्याय: नवमोsध्याय: दशमोsध्याय: एकादशोsध्याय: द्वादशोsध्याय: त्रयोदशोsध्याय: चतुर्दशोsध्याय: पच्ञदशोsध्याय: षोडशोsध्याय: सप्तदशोsध्याय: अष्टदशोsध्याय: नवदशोsध्याय: विंशतितमोsध्याय: एकविंशतितमोsध्याय: द्वाविंशतितमोsध्याय: त्रयोविंशतितमोsध्याय: चतुर्विंशतितमोsध्याय: पच्ञविंशतितमोsध्याय: षडविंशतितमोsध्याय: नलोपाख्यानम् - तृतीयोऽध्याय: ` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे. Tags : damayantinalnalopakhyanदमयंतीनलनलोपाख्यानसंस्कृत तृतीयोऽध्याय: Translation - भाषांतर बृहदश्व उवाच । तेभ्य: पतिज्ञाय नल: करिष्य इति भारत। अथैतान्परिपप्रच्छ कृताञ्जलिरूपस्थित: ॥१॥के वै भवन्त: कश्चासौ यस्माहं दूत ईप्सित: ।किं च तद्वो मया कार्य कथयध्वं यथातथम् ॥२॥एवमुक्ते नैषधेन मघवानभ्यभाषत ।अमरावै निबोधास्मान्दमयन्त्यर्थमागताम् ॥३॥अहमिन्द्रोऽयमग्निश्च तथैवायमपांपति: ।शरीरन्तकरो नृणां यमोऽयमपि पाथिव ॥४॥त्वं वै समागतानस्मान्दमयन्यैनिवेदय ।लोकपाला महेन्द्राद्या: समायान्ति दिदृक्षव: ॥५॥प्राप्तुमिच्छान्ति देवास्त्वां शक्रोऽग्निर्वरुणो यम: ।तेषामन्यतमं देवं पतित्वे वरयस्य ह ॥६॥एवमुक्त: स शकेण नल: प्राञ्जलिरब्रवीत ।एकार्थं समुपेतं मां न प्रेषयितुमर्हथ ॥७॥कथं नु जातसंकल्प: स्त्रियमुत्सहते पुमान् ।परार्थमीदृशं वक्तुं तत्क्षमन्तु महेश्वरा: ॥८॥एवमुक्तो नैषधन मघवान्पुनरब्रवीत् ।करिष्य इति संश्रुत्व पूर्वमस्मासु नैषध ।न करिष्यसि कस्मात्वं व्रज नैषध मा चिरम् ॥९॥बृहदश्व उवाच । एवमुक्त: स दैवैस्तैर्नैषध: पुनरब्रवीत् ।सुरक्षितानि वेश्मानि प्रवेष्टुं कथमुत्सहे ॥१०॥प्रवेक्ष्यसीति तं शक्र: पुनरेवाभ्यभाषत ।जगाम स तथेत्युक्त्वा दमयन्त्या निवेशनम् ॥११॥ददर्श तत्र वैदभीं सखीगणसमावृताम् ।देदीप्यमानां वपुषा श्रिया च वरवर्णिनीम् ॥१२॥अतीव सुकुमाराङ्गीं तनुमध्यां सुलोचनाम् ।आक्षिपन्तीमिव प्रभां शशिन: स्वेन तेजसा ॥१३॥तस्य दृष्टैव ववृधे कामस्तां चारुहासिनीम ।सत्यं चिकीर्षमाणस्तु धारयामास हृच्छयम् ॥१४॥ततस्ता नैषधं दृष्टा संभ्रान्ता: परमाङगना: ।आसनेभ्य: समुत्पस्तेजसा तस्य धर्षिता: ॥१५॥प्रशशंसुश्च सुप्रीता नलं ता विस्मयान्विता: ।न चैनमभ्यभाषन्त मनोभिस्त्वभ्यपूजयन् ॥१६॥अहो रूपमहो कान्तिरहौ धैर्य महात्मन: ।कोऽयं देवोऽथवा यक्षो गन्धर्वो वा भविष्यति ॥१७॥त तास्तं शक्नुवन्ति स्म व्याहर्तुमपि किंचन ।तेजसा धर्षितास्तस्य लज्जावत्यो वराङगना ॥१८॥अथैनं स्मयमानं त स्मितपूर्वाभिभाषिणी ।दमयन्ती नलं वीरमभ्यभाषेत विस्मिता ॥१९॥कस्त्वं सर्वानवद्याङ्ग मम हृच्छयवर्धन ।प्राप्तोऽस्यमरवद्वीर ज्ञातुमिच्छामि तेऽनघ ॥२०॥कथमागमनं चेह कथं चासि न लक्षित: ।सुरक्षितं हि मे वेश्म राजा चैवोग्रशासन: ॥२१॥एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह । नलं मां विध्दि कल्याणि देवदूतमिहागतम ॥२२॥देवास्त्वां प्राप्तुमिच्छन्ति शक्रोऽग्निर्वरुणो यम: ।तेषामन्यतमं देवं पतिं वरय शोभेन ॥२३॥तेषामेव प्रभावेण प्रविष्टोऽहमलक्षित: ।प्रविशन्तं न मां कश्चिदपश्यन्नाप्यवारयत् ॥२४॥एतदर्थमहं भद्रे प्रेषित: सुरसत्तमै: ।एतच्छृत्वा शुभे बुध्दिं प्रकरुष्व यथेच्छसि ॥२५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP